Download HinduNidhi App
Misc

श्री विष्णुः अष्टाविंशतिनाम स्तोत्रम्

Vishnu Ashtavimshati Nama Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री विष्णुः अष्टाविंशतिनाम स्तोत्रम् ||

अर्जुन उवाच-
किं नु नाम सहस्राणि जपते च पुनः पुनः ।
यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥ १ ॥

श्री भगवानुवाच-
मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।
गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ॥ २ ॥

पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् ।
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥ ३ ॥

विश्वरूपं वासुदेवं रामं नारायणं हरिम् ।
दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम् ॥ ४ ॥

अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ।
गवां कोटिप्रदानस्य अश्वमेधशतस्य च ॥ ५ ॥

कन्यादानसहस्राणां फलं प्राप्नोति मानवः ।
अमायां वा पौर्णमास्यामेकादश्यां तथैव च ॥ ६ ॥

सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च ।
मध्याह्ने च जपेन्नित्यं सर्वपापैः प्रमुच्यते ॥ ७ ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री विष्णुः अष्टाविंशतिनाम स्तोत्रम् PDF

Download श्री विष्णुः अष्टाविंशतिनाम स्तोत्रम् PDF

श्री विष्णुः अष्टाविंशतिनाम स्तोत्रम् PDF

Leave a Comment