॥ युगलाष्टकम् ॥
कृष्णप्रेममयी राधा राधाप्रेम मयो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
कृष्णप्राणमयी राधा राधाप्राणमयो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
कृष्णद्रवामयी राधा राधाद्रवामयो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
कृष्ण गेहे स्थिता राधा राधा गेहे स्थितो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
कृष्णचित्तस्थिता राधा राधाचित्स्थितो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
नीलाम्बरा धरा राधा पीताम्बरो धरो हरिः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः ।
जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥
- hindiश्री दामोदर अष्टकम
- malayalamകൃഷ്ണാഷ്ടകം
- punjabiਕ੍ਰੁਰੁਇਸ਼੍ਣਾਸ਼੍ਟਕਮ੍
- gujaratiકૃષ્ણ અષ્ટકમ્
- bengaliকৃষ্ণ অষ্টকম্
- kannadaಕೃಷ್ಣ ಅಷ್ಟಕಮ್
- teluguమధురాష్టకం
- tamilமதுராஷ்டகம்
- hindiश्री कुंजबिहारी अष्टक अर्थ सहित
- hindiश्री कृष्णाष्टकम्
- englishShri Krishnashtakam
- englishShri Achyutashtakam
- englishShri Venu Gopala Ashtakam
- englishShri Bal Mukundashtakam
- englishShri Krishnashtakam
Found a Mistake or Error? Report it Now


