Shiva

शिवगौरीस्तोत्रम्

Shiva Gauri Stotram Lyrics

Shiva ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| शिवगौरीस्तोत्रम् ||

ॐ श्रीगणेशाय नमः ।

सृणिपाशपुष्पशरपुण्ड्रचापकैः
करपङ्कजैः कलितभक्तवाञ्छिताम् ।
तरुणारुणारुणतनुं त्रिलोचनां
ललितां भजे ललितचन्द्रचूलिकाम् ॥ १॥

ललिताविभूषितनिजाङ्गमूर्तये ललितेषुचापसृणिपाशपाणये ।
उदयारुणद्युतिमुषे दयाजुषे मदनेश्वराय महते नमो नमः ॥ २॥

अञ्चत्पञ्चशिखोच्चमञ्चनिकटे चक्रासनाध्यासिनीं
सौन्दर्यस्य महीं नवाब्दवयसं गौरीं कुलालापिनीम् ।
मालापुष्पसृणीगुणाञ्चितकरां पूगप्रमाणस्तनीं
बालां श्रीललिताम्बिकादुहितरं लीलासमुद्रां भजे ॥ ३॥

चिन्तामणिग्रहवराञ्चितशक्तिचक्र
रक्षाकरं कलितकुङ्कुमरक्तवर्णम् ।
सौन्दर्यराशिवपुषं दशवर्षदेश्यं
वन्दे कुमारमदनेश्वरमिन्दुमौलिम् ॥ ४॥

अपराजितनामधेयमश्वं सुखमारूढवती सुवर्णवर्णा ।
विलसन्मणिवेत्रपाशहस्ता परिभूयात् परमेश्वरी सपत्नान् ॥ ५॥

अधिरुह्य जपारुणं तुरङ्गं करपद्माञ्चितवेत्रपाशशक्तिः ।
परिभूतविपक्षपक्षकोऽव्यादरुणाभः परमेश्वरीसहायः ॥ ६॥

रक्तां विचित्रवसनां नवचन्द्रचूडा-
मन्नप्रदाननिरतां स्तनभारनम्राम् ।
नृत्यन्तमिन्दुशकलाभरणं विलोक्य
हृष्टां भजे भगवतीं भवदुःखहन्त्रीम् ॥ ७॥

उदञ्चिताकुञ्चितवामपादं समञ्चिताहीन्दुकृशानुहस्तम् ।
अन्नप्रदां वीक्ष्य मुदा महेशीं नटन्तमाद्यं नटमाश्रयामः ॥ ८॥

अरुणारुणकोटितुल्यकान्तिं सृणिपाशाभयवाञ्छितप्रदानैः ।
अनुरक्तकरां नवेन्दुचूडामखिलेशीं भुवनेश्वरीं भजामः ॥ ९॥

बालेन्दुकलितोत्तंसं बालारुणसमद्युतिम् ।
पाशाङ्कुशवराभीतिकरं शम्भुं समाश्रये ॥ १०॥

कुलाचलकुतूहलं कुसुमचापसञ्जीवनं
कुचे कलितवल्कलं गुरुकृपारसं लोचने ।
जपासहृदयं रुचौ जपवटाभिरामं करे
जटानिबिडितं कचे जयति जीवितं शाम्भवम् ॥ ११॥

दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् ।
आत्ममायारतं देवमवधूतं दिगम्बरम् ॥ १२॥

भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् ।
चतुर्बाहुमुदाराङ्गं प्रफुल्लकमलेक्षणम् ॥ १३॥

ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् ।
भक्तानुकम्पिनं सर्वसाक्षिणं सिद्धसेवितम् ॥ १४॥

एवं यः सततं ध्यायेद् देवदेवं सनातनम् ।
स मुक्तः सर्वपापेभ्यो निःश्रेयसमवाप्नुयात् ॥ १५॥

इति श्रीशिवगौरीस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download शिवगौरीस्तोत्रम् PDF

शिवगौरीस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App