Misc

श्रीनिम्बार्ककवचम्

Nimbarkakavacham Sanskrit Lyrics

MiscKavach (कवच संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीनिम्बार्ककवचम् ||

निम्बार्क-कवचं वक्ष्ये महर्षिगणमध्यतः ।
हविर्द्धानं नमस्कृत्य गौरमुख उवाच ह ॥ १॥

निम्बार्क-कवचं वक्ष्ये सम्पद्येते यशोजयौ ।
संकटे दुर्गमे प्राप्ते प्राणरक्षाकरं नृणाम् ॥ २॥

निम्बार्क कवचस्यास्य सर्वाचार्याद्वयस्य च ।
ऋषिगौरमुखश्च् छन्दोऽनुष्टुप् निम्बार्क एव तु ॥ ३॥

देवः सुदर्शनो बीजं शक्तिः पुराणमेव च ।
विततं कीलकं चैव पवित्रं कवचं तथा ॥ ४॥

चक्र मस्त्रं मनुस्त्वेवं षडक्षर उदाहृतः ।
द्वयनन्तरनराकारमिति ध्यानं प्रकीर्तितम् ॥ ५॥

निम्बार्क प्रीत्यर्थे जपे विनियोगः समीरितः ।
इति सङ्कल्प्य चर्ष्याद्यान् शीर्षादिषु क्रमान्न्यसेत् ॥ ६॥

शीर्षमास्यं च हृद् गुह्यं पादौ सर्वाङ्ग-दिक्षु च ।
हार्द्दे बाह्याभ्यन्तरयोश्चतुर्थ्या च नमोऽन्तकाः ॥ ७॥

“नमो निम्बार्काय” इति मन्त्रं षडक्षरं विदुः ।
अङ्गुली-तल-पृष्ठेषु ङे-द्विवच-नमोऽन्तिषु ॥ ८॥

क्रमान्न्यसेदेकैकशो द्वितीयान्तान् षडक्षरान् ।
नम आद्यन्तेष्वंगेषु द्वितीयान्तान् षडक्षरान् ॥ ९॥

हृदये शिरसि शिखा–कवचेऽक्षित्रयेऽस्त्रतः ।
नमः स्वाहा वषट् हुं वौषट् फडेतान् पदान्न्यसेत् ॥ १०॥

विनियोगः-
ॐ अस्य श्रीनिम्बार्क सर्वाचार्यकवचस्य
श्रीगौरमुख ऋषिः, अनुष्टुप् छन्दः, श्री निम्बार्को देवता,
सुदर्शनो बीजम्, पुराणं शक्तिः, विततं कीलकम्, पवित्रं कवचम्,
चक्रमस्त्रम्, षडक्षरः परमो मन्त्रः, द्व्यनन्तर नराकारमिति ध्यानम्,
सर्वाचार्यप्रीत्यर्थे जपे विनियोगः ।
ऋष्यादि न्यासाः-
श्री गौरमुखाय ऋषये नमः शिरसिः ।
अनुष्टुप् छन्दसे नमो मुखे ।
श्रीनिम्बार्काय देवाय नमो हृदि ।
सुदर्शनाय बीजाय नमो गुह्ये ।
पुराणशक्तये नमः पादयोः ।
वितताय कीलकाय नमः सर्वाङ्गे ।
पवित्राय कवचाय नमः सन्धिषु ।
चक्राय अस्त्राय नमो दिक्षु ।
षडक्षराय परमाय मन्त्राय नमो हृदि ।
द्व्यनन्तरनराय ध्यानाय नमो बाह्याभ्यन्तरयोः ।
श्रीनिम्बार्कसर्वाचार्यप्रीत्यर्थे जपे विनियोगाय नमः कराञ्जलौ ।
करन्यासाः-
नं अङ्गुष्ठाभ्यां नमः ।
मों तर्जनीभ्यां नमः ।
निं मध्यमाभ्यां नमः ।
बां अनामिकाभ्यां नमः ।
र्कां कनिष्ठिकाभ्यां नमः ।
यं करतलकरपृष्ठाभ्यां नमः ।
हृदयादि न्यासाः-
नं हृदयाय नमः ।
मों शिरसे स्वाहा ।
निं शिखायै वषट् ।
बां कवचाय हुम् ।
र्कां नेत्रत्रयाय वौषट् ।
यं अस्त्राय फट् ।
(‘नमो निम्बार्काय’ इति षडक्षर मन्त्रः )
ध्यानम्-
ध्यात्वा कालाङ्ग-सम्पन्नं द्वादशारशिरोऽन्वितम् ।
चातुर्मास्य-वलयं तु षट्कोण-शोभितं तथा ॥ ११॥

अयनद्वय-निर्माण द्वयमन्यन्नराकृतिम् ।
स्वस्तिकासनमध्यस्थमरुणाभं सितांशुकम् ॥ १२॥

सव्यहस्ततले जानुं तत्त्वमुद्रोपशोभितं
आयताक्षं महाभालमूर्ध्वपुण्ड्रसुरोचिषम् ॥ १३॥

तुलसीमालयायुक्तमाचार्य मुख्यमीश्वरम् ।
केशवल्लीसमाविष्टं सम्यक्चूडितमूर्धजम् ॥ १४॥

जपेन्नित्यं भयासन्ने देशे काले रुगागमे ।
निम्बार्कनामनिर्माणमिदं वर्माऽऽशु सिद्धिदम् ॥ १५॥

कवचम्–
सुदर्शनस्तमोध्वंसी वातपत्रं शिरोद्धतम् ।
सुस्थिरं ध्यायते शम्भुः भ्रुवौ मे कालविग्रहः ॥ १६॥

निम्बादित्योऽवतान्नेत्रे राधाकृष्ण उरोजसम् ।
राधा-कृष्ण-रसाभासी कपोलौ मे कवीश्वरः ॥ १७॥

दन्तान् चक्राकृतिः पातु हविर्द्धानश्च जिह्विकाम् ।
ओष्ठं पातु निमानन्दश्चिबुकं चक्रमध्यगः ॥ १८॥

मुखं निम्बरविः पातु नक्तन्यासनभोजकः ।
कण्ठे वैकुण्ठहस्तश्च पातु दुष्टविखण्डनः ॥ १९॥

वक्षस्थलं सदा पातु निम्बो मे भक्तवत्सलः ।
निम्बानन्दो भुजौ पातु तरदद्रिस्वरूपधृक् ॥ २०॥

करावरी सदा पातु चाङ्गुलीर्द्वादशारकः ।
तेजोमयः सदा पातु दरं मे दुर्जरौघपाक् ॥ २१॥

द्वयनान्तर्नराकारो नाभिं मम सदाऽवतु ।
सत्परीक्ष एव वर्तिं यष्टिं मेऽङ्गं सदाऽवतु ॥ २२॥

आशुवेगो भ्रमन्नेमिः पातु मे कटिमण्डले ।
नेमि-निजो जघनं मे पातु ऋषि-मुनीश्वरः ॥ २३॥

जानुनी विष्णुदूतो मे जङ्घे विश्वस्वरूपधृक् ।
चरणौ पातु चक्रं मे व्रजमण्डल-भारभृत् ॥ २४॥

गुल्फौ मे नियमानन्दः पार्ष्णिं चैव श्वलापयेत् । (श्वलापयेत् श्वल आशुगमने ।)
आचार्य प्रपदे पातु विततं पातु भूतले ॥ २५॥

पूर्वस्य दिशि मां रक्षेत् प्रिया श्रीललितासखी ।
पशुहिंसानिवृत्तिर्मामाग्नेय्यां दिशि रक्षतु ॥ २६॥

दक्षिणे चम्पकलता चित्रा नैरृत्यकेऽवतु ।
तापसंस्कारनिर्णेता वारुण्यां दिशि रक्षतु ॥ २७॥

पादाग्रसरिदोघस्तु वायव्यां दिशि रक्षतु ।
गौरमुखमुखावर्तिर्मा मुदङ्ग दिशि रक्षतु ॥ २८॥

ब्रह्मपुत्रजनोद्धर्त्ता ऐशान्यां दिशि रक्षतु ।
रवीन्दुशत्रुसंवासी ह्यूर्ध्वायां दिशि पातु माम् ॥ २९॥

अधस्ताद् दिशि मां पातु शेषपर्यन्तरन्ध्रजित् ।
कालात्मको दिवा पातु नक्तं सूर्यस्वरूपधृक् ॥ ३०॥

प्रभाते त्वरुणः पातु मध्याह्ने पातु चारुणिः ।
सन्ध्यायामारुणिः पातु निशीथे स्वप्रकाशवान् ॥ ३१॥

भक्तिदो हृदयं पातु चतुष्कं चतुरक्रियः ।
बुद्धिं ब्रह्मार्थितः पातु चित्तं विष्णु-प्रयोजितः ॥ ३२॥

अनिरुद्धानुवर्ती मे पातु स्वस्त्ययकं मनः ।
मोह-ग्राह-क्रियः पातु सर्वचित्तेन्द्रियाणि मे ॥ ३३॥

दुर्बुद्धेर्मे सदा पातु दुर्जन-दमनो ध्रुवः ।
तापात्मकः सदा पातु महापातकसंचयात् ॥ ३४॥

कामदेव-महावेगान्नैष्ठिको ब्रह्मचर्यवान् ।
पातु मां सर्वदा धीरः सदाचार-परायणः ॥ ३५॥

सहिष्णुर्मां सदा पातु दृढात् क्रोधौघरंहसः ।
पुरुषार्थदो मां पातु महालोभौघरंहसः ॥ ३६॥

विज्ञानासारवर्षी मां महामोहौघवेगतः ।
रक्षतु मां भयान् नित्यं निर्भयश्चक्रबालधृक् ॥ ३७॥

पाषण्ड-षण्ड-दहनः पातु पाषण्डकर्मणः ।
चरणं मे स्थले पातु कृष्णचरण-संज्ञकः ॥ ३८॥

सलिले मां सदा पातु मज्जज्जनैक-पारदः ।
अग्नेस्तेजस्तेन पातु वायौ खेचरपालकः ॥ ३९॥

आकाशे वेगवान् पातु ग्रहेभ्यः कालविग्रहः ।
अरण्ये मां सदा पातु वृन्दारण्य-निवासकृत् ॥ ४०॥

पर्वते मां सदा पातु गोवर्द्धनतटे स्थितः ।
दुर्गमे संकटे पातु दुर्ग-संकट-भेदकः ॥ ४१॥

साभिलाषः सदा पातु शर्वरीश्वरशीतलः । (साम शिशामयुर्जितः ।)
जयन्तीनन्दनः श्रीमान् विप्राशा-परिपूरकः ॥ ४२॥

प्रसह्ये मां सदा पातु प्रपन्न भयभञ्जनः ।
कृष्णतन्त्रचरः शश्वत् मां सदा पातु सर्वतः ॥ ४३॥

निजनामास्त्रकः पातु सर्वत्र मां हि सर्वगः ।
राधाकृष्ण-प्रिया पातु रङ्गदेवी सखीश्वरी ॥ ४४॥

राधाकृष्णपद-प्राप्तौ विघ्नान्मां विघ्ननाशिनी ।
निम्बादित्य ! महाबाहो ! सर्वपाल ! सुदर्शन ! ॥ ४५॥

आद्याचार्य रङ्गदेवी त्वमेव शरणं मम ।
प्रेमदं भक्तिदं रम्यं भुक्ति-मुक्ति-प्रदं सदा ॥ ४६॥

मालामन्त्रमिदं प्रोक्तं निम्बादित्यस्य वेधसः ।
ॐ निम्बार्क ङेन्तमुच्चार्य विद्महे पदमाचरेत् ॥ ४७॥

आद्याचार्य तुरीयान्तं धीमहीतिपदं ततः ।
तन्नश्चक्र मिति कृत्वा ब्रूयात्प्रचोदयादिति ॥ ४८॥

श्रीनिम्बार्कं गायत्री–
ॐ निम्बार्काय विद्महे आद्याचार्याय धीमहि तन्नश्चक्रं प्रचोदयात् ।
फलस्तुतिः-
इदं चक्राह्वसम्पन्नं निम्बार्क कवचं शुभम् ।
प्रेमभक्तिकरं रम्यं युग्ममन्त्रौघविग्रहम् ॥४९॥

सर्व-विघ्न-हरं शुद्धं बोधदं बुद्धिरक्षकम्।
भुक्ति-मुक्तिकरं दिव्यं धन-धन्य-प्रदं परम् ॥५०॥

ज्ञानदं मानदं श्रेष्ठं महासूत्र-यशस्करम् ।
तुष्टिदं पुष्टिदं रम्यं दुष्टस्य नाशनं ध्रुवम् ॥ ५१॥

अभिलाषभरं तीव्र-क्रोध-मोह-स्मरापहम् ।
दुर्गमे संकटे घोरे राजस्थाने भयावहे ॥ ५२॥

संग्रामेऽस्त्रसमूहाग्रे सिंह-व्याघ्रभये तथा ।
श्मशाने च भयेस्थाने पर्वतेऽग्नौ जले स्थले ॥ ५३॥

चौर-सर्प-भयेऽत्युग्रे भूत-प्रेत-पिशाचगे ।
ब्रह्मराक्षस-वेताल-कूष्माण्डे भैरवे ग्रहे ॥ ५४॥

आसन्ने संपठेन्नित्यं मुच्यते सर्वतो भयात् ।
निम्बार्क-कवचं पद्मं विकटे शत्रु-संकटे ॥ ५५॥

गुरुमभ्यर्च्य मनसा विधिवद्वर्म संपठेत् ।
श्रीनिम्बादित्यभक्ताय स्वैतिह्य-तत्पराय च ॥ ५६॥

गुरुभक्ति-प्रसिद्धयर्थं श्रीयुग्मोपासकाय च ।
पञ्चसंस्कार-युक्ताय विनीताय यशस्विने ॥ ५७॥

इदं रम्यं महाशुद्धं दातव्यं कवचं बुधैः ।
दुर्विनीतायाऽभक्ताय गुरुविमुख-मार्गिणे ॥ ५८॥

सम्प्रदाय-विहीनाय दत्त्वा मृत्युमवाप्नुयात् ।
मन्त्रौघा नैव सिद्धयन्ति निम्बार्क-कवचं बिना ॥ ५९॥

इदं सत्यमिदं सत्यं सत्यं सत्यं वदाम्यहम् ।
निम्बार्क-कवचं पाठ्यं सर्वमन्त्रार्थ-सिद्धये ॥ ६०॥

सर्वसिद्धिमवाप्नोति श्रीनिम्बार्क प्रसादतः ।
जीवन्मुक्तो भवेत् सोऽपि विष्णुरेव न संशयः ॥ ६१॥

इति श्रीगौरमुखाचार्यविनिर्मितं सिद्धिदं श्रीनिम्बार्ककवचं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीनिम्बार्ककवचम् PDF

श्रीनिम्बार्ककवचम् PDF

Leave a Comment

Join WhatsApp Channel Download App