|| श्री स्कन्दवेदपाद स्तोत्रम् ||
श्रीमहागणाधिपतये नमः ।
पुरा स्कन्दो महाबाहुः प्राप्य कौमारजाङ्गलम् ।
कुमाराद्रि समासाध्य जित्वा तारकमोजसा ॥
वासुकिं भुजगेन्द्रं च कृत्वा पूर्णमनोरथम् ।
स्वांशं तस्मिन् प्रतिष्ठाप्य धारातीरे मनोरमे ॥
देवभूदेव सङ्घैश्च देवानीकयुतो वशी ।
सुरेन्द्रयाज्ञया तस्य कन्यां स्वीकृत्य तत्रहि ॥
स्वामिकार्तिकमासाद्य तां विवाह महोत्सवेः ।
तत्रस्थितं मोदमानमानसं मणिमन्दिरे ॥
देवसेना पतिस्वाङ्गहर्षं चापि सुधाकरम् ।
स्वच्छस्फटिक निरमाणदिव्यसिंहासनेस्थितम् ॥
सर्वक्षेत्रोत्तमे नित्यं भोगमोक्षफलप्रदे ।
महासारस्वतेपीठे स्वगणे स्वामि कार्तिके ॥
दृष्ट्वातुपरमानन्दयुताः सेन्द्रायुताः सुराः ।
कृताञ्जलि पुटाः सर्वेतुष्टुवुर्मुदितास्तदा ॥
वरोत्पलस्रक्करकारविन्द संशोभिहस्तां कुचभारनम्म्राम् ।
बिम्बाधरां रक्तनखां तलोदरीं हरीन्द्रमध्यां गजमन्दगामिनीम् ॥
भृङ्गालकां श्यामलदेहकान्तिं मुक्तावलीभूषितकण्ठभागाम् ।
महार्हवस्त्राभरणैरु पेतां विद्युत्प्रभां कोमलपादपद्माम् ॥
राकाशरश्चन्द्रमुखीं मनोज्ञां मन्दस्मितां कुन्ददतीं सुनासाम् ।
तत्र स्पुरन्मौक्तिकचारुकान्तिं प्रभातिरस्कारकृतेन्दु मं(द) (ड) लाम् ॥
प्रियसमालिङ्गनजात-सम्भ्रमभ्रमद्विलासोत्थित रोमहर्षणाम् ।
स्रवत्सुधा-सागरपूर्णचन्द्रकटाक्षकल्लोल विलासविभ्रमाम् ॥
तां देवसेनां परिरभ्यं गाढं लज्जानता मुन्नमयन् कराब्जैः ।
वचोभिरीर्ष्या प्रणयप्रकोपैः सम्मानयन्हास्यसमन्विताभि ॥
कथोरमार्ताण्ड सहस्र कान्तिमत्कीरटभाभासिद दिग्वधूमुखम् ।
सुच्छरचन्द्रमरी चिदिक्कृत प्रदीप्तसौम्यननमण्डलं प्रभुम् ॥
चलत्कपोलान्त विराजितोज्ज्वलस्फुरत्सुमुक्तामणिवर्यकुण्डलम् ।
प्रहर्ष कृद्भक्तचरोमण्डलं स्मेरास्यजैवातृककौमुदी कं (मुखं) ॥
बिम्बाधरं सुन्दरकम्बुकन्धरं दिव्यायुधोद्यद्भुजदण्डम म्भतम् ।
आजानुबाहुं सुविशालवृक्षसं पीनोन्नतांसं विमलाङ्गकान्तिम् ॥
गम्भीरनाभिं सुकटिप्रदेशं सुजानु जङ्घं मृदुपाद पल्लवम् ।
महारत्नाङ्गदषट्किरीटं द्विषड्भुजं चित्रमयूरवाहनम् ॥
तेजः क्षमाबुद्धियशोभिरेव समं धरित्री गुरुशुक्रसूरैः ।
गजाख्यसिंहानन शूरपद्मसतारकाग्निप्रलयाम्बुराशिम् ॥
रक्षो-गणादिष्ठित पारिसंस्थतद्वीरमाहेन्द्रसुदुर्गभेधनम् ।
गन्धर्वगीर्वाण सुसिद्धसाध्य विद्याधरैरप्सरोभीश्च सेव्यम् ॥
मुनीन्द्र पद्मासन वारिजाक्ष भूतेशमुख्यैर्वर चारुकन्दम् ।
धारासरित्तीरविराजमाना कुमारशैलाग्र सुदिव्यधाम्नि ॥
स्थितं स्वशक्त्यापरया सुरूपया तं देवसेनासहितं वरेण्यम् ।
मग्जाड्यहन्तारमनन्तशक्तिं षडाननं वाञ्छितदा नदक्षम् ॥
गौरीवरानङ्करं सुचारुवेषं सुविद्याप्रदमाश्रितानाम् ।
नित्यान्नदाने सिरुतं महोग्रकुष्ठादिहन्तारमनादिनिर्गुण ॥
देवाङ्गनाभिर्मुनिकन्यकाभिर्नीराजितं मङ्गलमङ्गलाङ्गुम् ।
बिलान्तरालस्तितवासुकीन्द्रे स्वांशेन तिष्थन्तमुदार विक्रम ॥
सर्वेश्वरं त्रिपुरसुन्दरमादिदेवं जन्मातिगं भवभयापहरं वरेण्यम् ।
गङ्गासुतं गिरिसुतां मुदामावहन्तं वन्दामहे मयभीष्टदमाशुद्ध्यै ॥
इति स्तुतं देवगणैरावाङ्मनसगोचरम् ।
कालं कलयतां स्तुत्यं स्तुतिरूपं स्तुतिप्रियम् ॥
प्रणम्य दण्डवद्भूमौ वेदान्तस्तवमुत्तमम् ।
पठेदिदं स्वान्तपद्मे चिन्तयन् स्वन्द वीश्वतम् ॥
गजाननं महात्मानं सुधाकुम्भं वराङ्कुशौ ।
बिभ्राण मोदक हस्तृर्नमस्कृत्यकिरीटनम् ॥
श्रीपतिस्तुतचारित्र श्रीमत्सुन्दर विग्रह ।
श्रीषडाननर्सेश श्रीयं वासयमेकुले ॥
पुरन्दरादिसंसेव्यपादपद्मदयानिधे ।
पुलिन्दकन्या रमण पुरुत्राह्यसिविश्रुतः ॥
वीतरागाश्चमुनयो हृदम्बुजपुटेस्थितम् ।
सर्वज्ञं सर्वगं स्कन्दं सदापश्यन्ति सूरयः ॥
यमाश्रित्य च गीर्वाणा युधि शत्रून्निहन्ति च ।
आलम्बन्ति स्वपदवीं तिष्ठन्तिस्वादु रातयः ॥
द्विषड्भुजगदाखेट पाश खड्गादि हेतिभिः ।
विद्रावयाशुमेशत्रून् सङ्ग्रामेरिपुसङ्कटे ॥
तापत्रय महावह्नि ज्वालासन्तापितं हि माम् ।
तथा कामादि षड्वर्गैराप्यायस्वसमेतुतेः ॥
अणोरणी यां समजमेकं धातरमीश्वरम् ।
मयूरवाहनं देवं विपश्येमनृचक्षसः ॥
मन्दस्मितमुखाम्भोजं युवानं क्रौञ्चभेदिनम् ।
समाश्रयित्वा विबुधा च मुदप्रमुदाऽसते ॥
महासाम्राज्यपीठस्थं राजराजनमद्युतिम् ।
क्षिप्रमालोकयिष्यामः सुगन्धिं पुष्ठिवर्धनम् ॥
कायेनमनसावाच नतिचिन्तनकीर्तनैः ।
सदारा हृष्टमनसश्चोपास्मैगायतानरः ॥
नमोहिरण्यवर्णाय हिरण्यस्यन्दनायच ।
नमो हिरण्यगात्राय नमोहिरण्यबाहवे ॥
दण्डिताखिलदैत्यौघः खण्डिताखिलबन्दनः ।
वर्धितानुत भक्तौघः शन्नः करत्यर्वते ॥
गिरिजासुकुमाराय वराभयङ्कराय च ।
भद्रदाय वरेण्याय विश्वरूपायवै नमोनमः ॥
अपराधान्य नन्तानि कृतानि बहुधा मया ।
मदीय इति मत्वातं रक्षस्वमाञ्जदेपदे ॥
दारि द्य्राम्बुधि मग्नं मां शम्मेनस्व पाणिना ।
समुद्धृत्यच गाङ्गेय कीर्तिमृद्धिं ददातुमे ॥
आन्यत्सर्वं परित्यज्य पदाज्जयुगलं तव ।
समाश्रीतोऽस्मि भगवान् कक्षाणोब्रह्मणस्पते ॥
यश्चव्योसित्वमेवेश विधिमन्त्रपुरस्कृतम् ।
नियतं हि द्विजात्यग्रैरस्मिन्यज्ञेस्वध्वरे ॥
लोतापस्मारकुष्ठाहिराजचोराद्युपद्रवान् ।
कृतिकातनयास्माकं भिन्धि द्वेषः सहस्कृतः ॥
त्वत्सेवानिरतानां हि भवन्त्सा खण्डलश्रियः ।
अतस्त्वामेव मुनयः सञ्जानाना उपासते ॥
यज्ञानां फलदाता त्वं यज्ञोपकरणानि च ।
त्वं होता यजमानश्च त्वं सोमासि सत्फतिः ॥
देवसेना समेतस्त्वं क्रिडसे मणिमन्दिरे ।
स्वगणैश्च महासेनयत्रतत्परमं पदम् ॥
भ्राजद्गण्डस्थलोद्धाम कुण्डलोज्ज्वलि ताननम् ।
बिभ्रतखण्डेदुनयम्पश्येम शरदः शतम् ॥
प्राप्यतारकदैत्येन्द्रोद्भव सागरतारकम् ।
संसारसागरं तीर्त्वा देवो देवेभिरागमत् ॥
स्तुत्वा महान्तं महतोह्यणी यांसमणोरपि ।
मोदिष्यामोवयं नित्यं प्रजया चधने न च ॥
बालक्रीडां विकुर्वाणो बालभास्करदीप्तिमान् ।
बालेन्दुमन्दहासेन चात्यायन् बहुलं तमाः ॥
भोगेच्छूनां सदाराणां यजतां श्रद्धया गुहम् ।
भवन्त्यस्यैवकृप या यावेन्त्यःपृथिव्यां भोगाः ॥
जगत्कुटुम्भी देवेशो दीनसंरक्षणक्षमः ।
पाक स्रष्टार्थं संहर्ता येः विजानन्ति ये चन ॥
येषां हि कुलजातेन स्कन्दपादाश्रितेन च तरन्ति ।
वरकाम्भोधिं शश्वत्पुश्रेण पितरः ॥
जनानामुतदेवानां स्मृतेस्तव पदाब्जयोः ।
सम्प्राप्तौ भोगमोक्षा च किमश्च श्रूणि किं तपः ॥
वयमेतेन सततं गमिष्यामः कृतार्थ ताम् ।
श्रद्धया केवलेनैव यो विश्वाभिविपश्यतिः ॥
पुरा कृतान्यशेषाणि पातकानि महान्ति च ।
विनाश्य पालयविभो गायेत्वानमसा गिरा ॥
अनाथं दीनमापन्नं कृपाब्धे मां विलोकय ।
अचिन्तयित्वा सेनाने यन्मना दुष्कृतं कृतम् ॥
देवसेनापतिस्त्वं हि देवसे नायतो वशी ।
अतएव महासेनो भूरिदाह्यसि श्रुतः ॥
कार्तिकेय महाबाहो कृत्तिवासःप्रयङ्कर ।
कृत्तिवासो विभिन्नानां ह्यप्राप्यमनसा सह ॥
तां नमामि महादेवीं कार्तिकेयशु भाङ्कणाम् ।
शक्तिं भद्रां भगवतीं सर्वभूतनिवेशनीम् ॥
संहृत्यविश्वं सचरा चरं च कल्पावसाने परया स्वशक्त्या ।
सङ्क्रीडयंस्तिष्ठति गूढमूर्तिरम्भस्यपारे भुवनस्य मध्ये ॥
त्वत्सन्निधानत्त्री जगज्जनित्री सृजत्यवत्यति च जीवसङ्घान् रजस्तमः ।
सत्त्वगुणैरजस्रं भूयिष्ठान्ते नम उक्तिं विधेम ॥
त्वत्समस्त्रिषु लोकेषु नान्यस्तिष्ठति निश्चितम् ।
वर्णितुं महिमानन्ते सपूर्वेनापरे जनाः ॥
त्वमेव देवदेवेश जगन्निवास कूटस्थात्मा पुरुषः पुराणः ।
त्वमेव यत्सर्वं गतं हि वस्तुह्यागुहायां निहितोस्य जन्तोः ॥
लास्यासक्तस्य गिरिजारमणस्यान्तिके चरन् ।
प्रदोषे शिवयोः प्रीतिं जनयन्रोचनादिवः ॥
तं वन्दे निष्कलं शुद्धमादि कर्तारमीश्वरम् ।
यतश्च यजुषा सार्धमृचः सामानि जज्ञिरे ॥
एनमाश्रित्र जित्वासन् सङ्गरेयुद्धदुर्मदान् ।
दिवितारेति मुदिता इन्द्रज्येष्ठा मरुद्गणाः ॥
यत्तद्ब्रह्म जगद्योनिः सर्वव्यापी सनातनः ।
सकाणस्वेच्छय शम्भोरभ्राद्वृष्टिरिवाजनि ॥
त्वमन्तरात्मा सर्वभूतेषु चैकस्तथानलिप्तो खमिवाप्यचिन्त्यः ।
नित्यानित्यैश्चेतनाचेतनात्म ह्यणोरणीयान्महतो महीयान् ॥
जगत्कर्ते दिनगोप्त्रे भवहं त्रेऽसुरद्रुहाम् ।
कामदात्रे विश्वकर्त्रे गोत्राणां पतये नमः ॥
तस्मैकुमाराय कृपाकराय लोकैकधा त्रेऽखिलधर्मगोप्त्रे ।
द्विषड्भुजायास्तु नमः परस्मै यस्मात्परन्ना परमस्ति किञ्चित् ॥
तिरस्कृतानैकसहस्ररश्मिरत्नाड्य दिव्याभरणैरुपेतम् ।
माणिक्यवैडूर्यकिरीटजुष्टं विभुं चिदानन्दमरूपमद्भुतम् ॥
पुरासुपर्वाप्सरसोरगेन्द्र भूदेवसं घेरनुगीयमानः ।
त्वमेव मां भीषणमृत्युवक्त्रात्पाहि पश्चात्तादुतवा पुरस्तात् ॥
पादपङ्कजभृङ्गेभ्यो महद्भ्यश्च नमो नमः ।
तेभ्यो नमस्ते गणेभ्यो घोरेभ्योथ घोरेभ्यः ॥
तिलेषु तैलं दधिनीव सर्पिस्र्योतस्याश्राग्निररण्योर्यथा हि ।
तिष्ठत्यात्मा सर्वभूतेषु गूढो गर्भैइव सुधितोगर्भिणेषु ॥
त्वं भूमिरापो ज्वलनं हि वायुर्नभोदिशश्चाप्यथ चन्द्रसूर्यौ ।
मरुद्गणाश्चैव सरीसृपाश्च ह्यथो दिव्यः सुसुपर्णो गुरुत्मान् ॥
त्वय्येव हि जगजातं त्वयि सर्वं प्रतिष्ठितम् ।
त्वय्येव विलयं यान्तियत्किञ्च जगत्यां जगत् ॥
यमेव नित्यं मुनयो यजन्ति गायन्ति गन्धर्वगणाः सुसाध्या ।
गृणन्ति चैव श्रुतयोयमाद्यमादित्यवर्णं तमसः परस्तात् ॥
यदक्षरं परमं वेदवेद्यं सर्वस्य बीजं जगतां निधानम् ।
सच्चासच्चव्यापकं चित्स्वरूपमेकं सद्विप्रा बहुधा वदन्ति ॥
कलिकल्मषहन्तारं दुरितध्वान्तभास्करम् ।
एनं हित्वा षडात्मानं तेंऽधन्तमः प्रविशन्ति ॥
कृपालुस्त्वादृशोनास्ति मादृशो नास्ति पापभाक् ।
पतन्तन्निरयाम्भोदौ रक्षा राजन्नघायतः ॥
श्रियं सुविद्यां सुकलत्रमुर्वीं प्रजाः पशून् भूरियशोर्थसिद्धिम् ।
प्राप्तुं यदीच्छा तव भक्तिरेव ह्ययं पन्थाऽनुवित्तः पुराणः ॥
स्तुतिभिर्न्नति भिर्विचिन्तनैः तवसन्दर्शनकीर्तनैलल्पैः ।
सुधियोऽपि भजन्ति केवलं दीर्घायुत्वाय शतशारदाय ॥
आनन्दरत्नाकर शितदीधितिं गोणौघसद्रत्न करण्डमध्यगम् ।
मुक्ताफलं तच्छर जन निर्मलं तस्य धीराः परिजानन्ति योनिम् ॥
असाध्यमप्यस्य कृपाकटाक्षात्साध्यं हि लोके प्रवदन्ति सन्तः ।
पुरैनमाश्रित्य हि देवदेवेस्त्वष्टुर्ग्रहेऽभिबत्सोममिन्द्रः ॥
मध्येबहिर्वाप्यथ चान्तराले दिक्प्वन्तरिक्षे बिलमन्दिरे च ।
भूमौ तथा करतले विदिक्षु नहीन्वस्यप्रतिमानमस्ति ॥
यद्ब्रह्म यच्चाक्ष्ररमद्वितीयमनौपमं वाङ्मनसोविदूरं
यदेतदव्यक्तमतीन्द्रियं तत्परमं पदमवभाति भूरि ॥
यस्यचित्तं त्वत्पदाब्जे सततं निश्चलं विभो ।
नाप्राप्यमस्ति सुधियस्तस्य देवाऽसन्वशे ॥
नौमि सदार्थधातरं गोप्तारं त्रिदिवौकसाम् ।
हन्तारं सर्वशत्रूणां जेतारमपराजितम् ॥
यद्विदित्वापरं चान्यत् ज्ञातव्यं नहि किञ्चन ।
इति शुश्रुमधीराणां येनस्त्वद्विचचक्षिरे ॥
त्वमेव वेद्योऽसि समाधिनिष्ठैःत्वमेव चेजोऽपि तथाध्वरेषु ।
त्वमेवपूज्योऽसि समस्त नीर्जरैस्त्वम्ब्रह्मारयिविद्ब्रह्मणस्पते ॥
अग्निर्यथैकोभुवनं प्रविष्टो रूपं रूपं प्रति रूपो बहिश्च ॥
सूर्यो यथा सर्वभूतेषु चक्षुर्नलिष्यते चाक्षुषैर्बाह्य दोषैः ।
एकस्तथा सर्वभूतान्तरात्ममलिप्य ते चाक्षुषैर्बाह्यदोषैः ॥
एकोवशि सर्वभूतान्तरात्म चै कं रूपं बहुधा यः करोती ।
तमात्मस्थंयेनु पश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥
सुकाम दोग्ध्रीह्यमृतप्रवर्षणी भवत्कृपायाश्रित कामरूपिणी ।
अस्मासु नित्यं सकलार्थदायिनी सा वर्धतां महते सौभगाय ॥
स एवमागयणसन्निकृष्टः शरीरूवस्थाय करोति सर्वम् ।
स सर्व भूतेन्द्रिय संहतिस्थः ससर्वज्ञः सर्वमिदं प्रपश्यति ॥
त्वदाश्रया महामया सैव विश्वं मिनिर्ममे ।
ततोन्यत्परमाणुर्वा नेह त्वानास्ति किञ्चन ॥
त्वमन्तरात्म पञ्चमिशात्परश्च त्वामुत्तमः पुरुष परमात्मा ।
ह्यभिन्नः सनातनः प्रेर्यमाण एको देवः सर्वभूतेषु गूढः ॥
यदादित्ये यच्छशाङ्के यदग्नौयद्व्योम्नि भूमौयच्छवसनेयदप्सु ।
यद्यजमाने निष्ठितं सर्वगु यत् य इत्तद्विदुस्त इमे समासते ॥
स्वेच्छया क्रीडमानस्सन्व्याप्यातिष्ठति सर्वगु ।
साक्षीप्रकृत्या संयुक्तो भर्गो देवस्य धीमहि ॥
स्तोतुं स एव सर्वात्मादष्टुं ज्ञातुं तदर्चनम् ।
कर्तुं सज्जनसंसर्गं धियोयोनः प्रचोदयात् ॥
ऋङ्मण्डलं यद्यजूगंषि प्रतीकं सामान्युस्राभ्रान्तितमोनिहन्ताम् ।
विभ्राड्बृहत्तत्परमार्थरूपमादित्यवर्णं तमसः परस्तात् ॥
सुतेजस्र कृष्णशुक्लाद्यनेक भेदान्माय जीव सङ्घाननेकान् ।
त्वदाधारा तृत्प्रतिबिम्बितासती यदक्षरं पञ्चविदं समेति ॥
यदक्षरं पञ्चामृतं ब्रह्मवेद्यं छन्दोमयास्यं प्रणौमि द्वादशारम् ।
सप्तचक्रं वियति भ्राम्यमाणमेकं सन्तं बहुधा कल्पयन्ति ॥
सूते जनानामखिलार्थसिद्धिं या स्कन्दशक्ति कृपया मनोज्ञा ।
अभाति सा कल्पलतेवे शश्वत् प्रियं सखायं परिषस्वजाना ॥
तां देवसेनां तरुणार्कभासां कुन्देन्दु मन्दस्मितशोभिवक्त्राम् ।
स्मरामि नित्यं कनकाभगात्रां वचोविदं वाचमुदीरयन्तीम् ॥
पुरा महत्माभगवान्घटोद्भवः स्तोत्रेण संसुत्य षडास्यमादरात् ।
भूत्वा मुनीनां प्रवरः समाहितश्चि कितुषी प्रथमा यज्ञियानाम् ॥
विद्यावित्तं यशस्वर्गरोक्षौचायूषिनः सदा ।
विजयं देहि सेनानेस्त वामत्वास्वाध्यः ॥
त्वया सम्प्रेर्यमाणोहभक्त्या स्तौमि हरात्मज ।
पाहिनः कृपया देव सेनानिभ्यश्च वो नमः ॥
दुःस्वप्न दुर्निमित्तोत्थभयं शमय शाङ्करेत्वम् ।
हि पक्षिमुखाच्चापि भद्रन्नःसर्वतो वद ॥
निहत्य तारकं सङ्ख्येसपुत्रामात्यबान्धवम् ।
कुमारशैलशृङ्गाग्रमरोहन्नुत्तरां दिवम् ॥
भवामयनिहन्तापि कुष्ठरोगातुरांस्तथा ।
रक्षिष्यसीतिश्रुणमो हरिमाणं च नाशय ॥
यत्रोच्छिष्टानुलेपेन पादसङ्घैर्नलिप्यते ।
सुब्रमण्यस्य महिमाकस्तद्वेदद्भुतम् ॥
सर्वेशमाश्रित्य तथान्नमुत्तमं जीवन्ति जीवा इतिदानलीलया ।
धातुः फलं बह्वितिदर्शयन्नसावधारयद्धरितोभोजनम् ॥
दारापगोपान्त कुमारभूभृतिस्थित्वान्नदानं प्रकरोति सन्ततम् ।
आज्ञापितं तेन गुहेन चैवं केवलाघो भवति केवलादी ॥
विशोषणाय दैत्येन्द्र महाप्रलयवारिधेः ।
निर्याहीत्य ब्रुवन् देवा जयतामिवदुन्दुभिः ॥
आम्नाय पादप्रहितेन संस्तुतः स्तवेनचानेनहुताशभूर्गुहः ।
तुष्ट सदा दैवत दैवतः स्वयवंस्मभ्यं तद्धत्तनयद्वयीमहे ॥
इमं स्तवमधीयानः स्कन्दभक्तियुतोवशी ।
प्राप्येह सकलान् कामान् घोरमृत्यु भयं हे ॥
स्वस्ति श्रीस्कन्दवेदपादस्तोत्रम् ।
Found a Mistake or Error? Report it Now