|| धर्मदेवता स्तोत्रम् (वराहपुराणे) ||
देवा ऊचुः ।
नमोऽस्तु शशिसङ्काश नमस्ते जगतः पते ।
नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदर्शक ।
कर्ममार्गस्वरूपाय सर्वगाय नमो नमः ॥ १ ॥
त्वयेयं पाल्यते पृथ्वी त्रैलोक्यं च त्वयैव हि ।
जनस्तपस्तथा सत्यं त्वया सर्वं तु पाल्यते ॥ २ ॥
न त्वया रहितं किञ्चिज्जगत्स्थावरजङ्गमम् ।
विद्यते त्वद्विहीनं तु सद्यो नश्यति वै जगत् ॥ ३ ॥
त्वमात्मा सर्वभूतानां सतां सत्त्वस्वरूपवान् ।
राजसानां रजस्त्वं च तामसानां तम एव च ॥ ४ ॥
चतुष्पादो भवान् देव चतुःशृङ्गस्त्रिलोचनः ।
सप्तहस्तिस्त्रिबन्धश्च वृषरूप नमोऽस्तु ते ॥ ५ ॥
त्वया हीना वयं देव सर्व उन्मार्गवर्तिनः ।
तन्मार्गं यच्छ मूढानां त्वं हि नः परमागतिः ॥ ६ ॥
एवं स्तुतस्तदा देवैर्वृषरूपी प्रजापतिः ।
तुष्टः प्रसन्नमनसा शान्तचक्षुरपश्यत ॥ ७ ॥
दृष्टमात्रास्तु ते देवाः स्वयं धर्मेण चक्षुषा ।
क्षणेन गतसंमोहाः सम्यक्सद्धर्मसंहिताः ॥ ८ ॥
असुरा अपि तद्वच्च ततो ब्रह्मा उवाच तम् ।
अद्यप्रभृति ते धर्म तिथिरस्तु त्रयोदशी ॥ ९ ॥
यस्तामुपोष्य पुरुषो भवन्तं समुपार्जयेत् ।
कृत्वा पापसमाहारं तस्मान्मुञ्चति मानवः ॥ १० ॥
यच्चारण्यमिदं धर्म त्वया व्याप्तं चिरं प्रभो ।
ततो नाम्ना भविष्ये तद्धर्मारण्यमिति प्रभो ॥ ११ ॥
चतुस्त्रिपाद्द्व्येकपाच्च प्रभो त्वं
कृतादिभिर्लक्ष्यसे येन लोकैः ।
तथा तथा कर्मभूमौ नभश्च
प्रायोयुक्तः स्वगृहं पाहि विश्वम् ॥ १२ ॥
इत्युक्तमात्रः प्रपितामहोऽधुना
सुरासुराणामथ पश्यतां नृप ।
अदृश्यतामगमत् स्वालयांश्च
जग्मुः सुराः सवृषा वीतशोकाः ॥ १३ ॥
धर्मोत्पत्तिं य इमां श्रावयीत
तदा श्राद्धे तर्पयेत पितॄंश्च ।
त्रयोदश्यां पायसेन स्वशक्त्या
स स्वर्गगामी तु सुरानुपेयात् ॥ १४ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे द्वात्रिंशोऽध्याये धर्मदेवता स्तोत्रम् ॥
Found a Mistake or Error? Report it Now