Download HinduNidhi App
Misc

सूर्यग्रहण शान्ति श्लोकाः

Surya Grahana Shanti Parihara Shloka Sanskrit

MiscShloka (श्लोक संग्रह)संस्कृत
Share This

|| सूर्यग्रहण शान्ति श्लोकाः ||

शान्ति श्लोकाः –
इन्द्रोऽनलो दण्डधरश्च रक्षः
प्राचेतसो वायु कुबेर शर्वाः ।
मज्जन्म ऋक्षे मम राशि संस्थे
सूर्योपरागं शमयन्तु सर्वे ॥

ग्रहण पीडा परिहार श्लोकाः –
योऽसौ वज्रधरो देवः आदित्यानां प्रभुर्मतः ।
सहस्रनयनः शक्रः ग्रहपीडां व्यपोहतु ॥ १

मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः ।
चन्द्रसूर्योपरागोत्थां अग्निः पीडां व्यपोहतु ॥ २

यः कर्मसाक्षी लोकानां यमो महिषवाहनः ।
चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ ३

रक्षो गणाधिपः साक्षात् प्रलयानलसन्निभः ।
उग्रः करालो निर्‍ऋतिः ग्रहपीडां व्यपोहतु ॥ ४

नागपाशधरो देवः सदा मकरवाहनः ।
वरुणो जललोकेशो ग्रहपीडां व्यपोहतु ॥ ५

यः प्राणरूपो लोकानां वायुः कृष्णमृगप्रियः ।
चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ ६

योऽसौ निधिपतिर्देवः खड्गशूलधरो वरः ।
चन्द्रसूर्योपरागोत्थां कलुषं मे व्यपोहतु ॥ ७

योऽसौ शूलधरो रुद्रः शङ्करो वृषवाहनः ।
चन्द्रसूर्योपरागोत्थां दोषं नाशयतु द्रुतम् ॥ ८

ओं शान्तिः शान्तिः शान्तिः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download सूर्यग्रहण शान्ति श्लोकाः PDF

सूर्यग्रहण शान्ति श्लोकाः PDF

Leave a Comment