|| श्रीबहुरूपगर्भस्तोत्रम् ||
ॐ ब्रह्मादिकारणातीतं स्वशक्त्यानन्दनिर्भरम् ।
नमामि परमेशानं स्वच्छन्दं वीरनायकम् ॥ १॥
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
पप्रच्छ प्रणता देवी भैरवं विगतामयम् ॥ २॥
श्रीदेव्युवाच –
प्रायश्चित्तेषु सर्वेषु समयोल्लङ्घनेषु च ।
महाभयेषु घोरेषु तीव्रोपद्रवभूमिषु ॥ ३॥
छिद्रस्थानेषु सर्वेषु सदुपायं वद प्रभो ।
येनायासेन रहितो निर्दोषश्च भवेन्नरः ॥ ४॥
श्रीभैरवः उवाच –
शृणु देवि परं गुह्यं रहस्यं परमाद्भुतम् ।
सर्वपापप्रशमनं सर्वदुःखनिवारणम् ॥ ५॥
प्रायश्चित्तेषु सर्वेषु तीव्रेष्वपि विमोचनम् ।
सर्वच्छिद्रापहरणं सर्वार्तिविनिवारकम् ॥ ६॥
समयोल्लङ्घने घोरे जपादेव विमोचनम् ।
भोगमोक्षप्रदं देवि सर्वसिद्धिफलावहम् ॥ ७॥ (सर्वसिद्धिफलप्रदम्)
शतजाप्येन शुद्ध्यन्ति महापातकिनोऽपि ये ।
तदर्धं पातकं हन्ति तत्पादेनोपपातकम् ॥ ८॥
कायिकं वाचिकं चैव मानसं स्पर्शदोषजम् ।
प्रमादादिच्छया वापि सकृज्जाप्येन शुद्धयति ॥ ९॥
यागारम्भे च यागान्ते पठितव्यं प्रयत्नतः ।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ १०॥
नित्ये नैमित्तिके काम्ये परस्याप्यात्मनोऽपि वा ।
निश्छिद्रकरणं प्रोक्तमभावपरिपूरकम् ॥ ११॥ (प्रोक्तं स्वभावपरिपूरणम्)
द्रव्यहीने मन्त्रहीने ज्ञानयोगविवर्जिते । (यज्ञयोगविवर्जिते)
भक्तिश्रद्धाविरहिते शुद्धिशून्ये विशेषतः ॥ १२॥
मनोविक्षेपदोषे च विलोमे पशुवीक्षिते । (विलोपे)
विधिहीने प्रमादे च जप्तव्यं सर्वकर्मसु ॥ १३॥
नातः परतरो मन्त्रो नातः परतरा स्तवः । (स्तुतिः)
नातः परतरा काचित्सम्यक्प्रत्यङ्गिरा प्रिये! ॥ १४॥
इयं समयविद्यानां राजराजेश्वरीश्वरि ।
परमाप्यायनं देवि भैरवस्य प्रकीर्तितम् ॥ १५॥
प्रीणनं सर्वदेवानां सर्वसौभाग्यवर्धनम् ।
स्तवराजमिमं पुण्यं शृणुष्वावहिता देवि! ॥ १६॥ (प्रिये)
अथ विनियोगः –
अस्य श्रीमदघोरभट्टारक-सकल-स्वच्छन्द-भैरवमन्त्रस्य
श्रीकालाग्निरुद्रभैरव ऋषिः, पङ्क्तिश्छन्दः,
सकलभट्टारकाघोरमूर्तिर्देवता, ॐ बीजं, ह्रीं शक्तिः, कुरु कुरु कीलकं,
श्रीबहुरूपगर्भप्रीत्यर्थं पाठे विनियोगः ।
(श्री गुरवे नमः ।
श्रीमत्स्वच्छन्दभट्टारकाय प्रह्वीभावोऽस्तु ।
मद्वंश परम्परागतस्वेष्टदेवाय स्वच्छन्दनाथाय नमो नमः ।
अस्य श्रीबहुरूपभट्टारकस्तोत्रस्य श्रीवामदेव ऋषिः,
अनुष्टुप्छन्दः, श्रीबहुरूपभट्टारको देवता,
आत्मनो वाङ्मनः कायोपार्जितपापनिवारणार्थं
चतुर्वर्गसिद्ध्यर्थे पाठे विनियोगः ॥
(अघोरमन्त्रेण न्यासं कृत्वा)।
अघोरेभ्यो अङ्गुष्ठाभ्यां नमः ।
अथ घोरेभ्यो तर्जनीभ्यां नमः ।
घोरघोरतरीभ्यश्च/तरेभ्यश्च मध्यमाभ्यां नमः ।
सर्वतः अनामिकाभ्यां नमः ।
शर्व! सर्वेभ्यो कनिष्ठिकाभ्यां नमः ।
नमस्ते रुद्ररूपेभ्यः करतलकरपृष्ठाभ्यां नमः ।
अघोरेभ्यो हृदयाय नमः ।
अथ घोरेभ्यो शिरसे स्वाहा ।
घोरघोरतरीभ्यश्च/तरेभ्यश्च शिखायै वषट् ।
सर्वतः कवचायहुम् ।
शर्व! सर्वेभ्यो नेत्राभ्यां वौषट् ।
नमस्ते रुद्ररूपेभ्यः अस्त्राय फट् ।
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरीभ्यश्च (तरेभ्यश्च) ।
सर्वतः शर्व! सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥)
अथ ध्यानम् –
वामे खेटकपाशशार्ङ्गविलसद्दण्डं च वीणाष्टिके
बिभ्राणं ध्वजमुद्गरौ स्वनिभदे व्यङ्कं कुठारं करे ।
दक्षेऽप्यङ्कुशकन्दलेषु-डमरून् वज्रं त्रिशूलाभयान्
रुद्रस्थं शरवक्त्रमिन्दुधवलं स्वच्छन्दनाथं स्तुमः ॥
(अथ गायत्री
ॐ बहुरूपाय विद्महे कोटराक्षाय धीमहि । तन्नोऽघोरः प्रचोदयात् ॥ ३॥
अथ मूलम् –
ॐ हूं अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च ।
सर्वथा शर्व सर्वेभ्यो नमस्ते रुद्ररूपेभ्यः)
श्रीभैरव उवाच-
ॐ नमः परमाकाशशायिने परमात्मने ।
शिवाय परसंशान्तनिरानन्दपदाय ते ॥ १॥
अवाच्यायाप्रमेयाय प्रमात्रे विश्वहेतवे ।
महासामान्यरूपाय सत्तामात्रैकरूपिणे ॥ २॥
घोषादि-दशधा शब्दबीजभूताय शम्भवे ।
नमः शान्तोग्रघोरादिमन्त्रसन्दर्भगर्भिणे ॥ ३॥
रेवतीसङ्गविस्रम्भसमाश्लेषविलासिने ।
नमः समरसास्वादपरानन्दोपभोगिने ॥ ४॥
भोगपाणे नमस्तुभ्यं योगीशपूजितात्मने । (योगीशैः पूजितात्मने)
द्वयनिर्दलनोद्योगसमुल्लासितमूर्तये ॥ ५॥
थरत्प्रसरविक्षोभविसृष्टाखिलजन्तवे ।
नमो मायास्वरूपाय स्थाणवे परमेष्ठिने ॥ ६॥
घोरसंसारसम्भोगदायिने स्थितिकारिणे ।
कालादिक्षितिपर्यन्तं पालिने विभवे नमः ॥ ७॥
रेहणाय महामोहध्वान्तविध्वंसहेतवे ।
हृदयाम्बुजसङ्कोचभेदिने शिवभानवे ॥ ८॥ (हृदयाम्भोज)
भोगमोक्षफलप्राप्तिहेतुयोगविधायिने ।
नमः परमनिर्वाणदायिने चन्द्रमौलये ॥ ९॥
घोष्याय सर्वमन्त्राणां सर्ववाङ्मयमूर्तये ।
नमः शर्वाय सर्वाय सर्वपापापहारिणे ॥ १०॥ (सर्वपाशापहारिणे)
रवणाय रवान्ताय नमस्तेऽरावराविणे ।
नित्याय सुप्रबुद्धाय सर्वान्तरतमाय ते ॥ ११॥
घोषाय परनादान्तश्चराय खचराय ते ।
नमो वाक्पतये तुभ्यं भवाय भवभेदिने ॥ १२॥
रमणाय रतीशाङ्गदाहिने चित्रकर्मिणे ।
नमः शैलसुताभर्त्रे विश्वकर्त्रे महात्मने ॥ १३॥
नमः पारप्रतिष्ठाय सर्वान्तपदगाय ते ।
नमः समस्ततत्त्वाध्वव्यापिने चित्स्वरूपिणे ॥ १४॥
रेवद्वराय रुद्राय नमस्तेऽरूपरूपिणे ।
परापरपरिस्पन्दमन्दिराय नमो नमः ॥ १५॥
भरिताखिलविश्वाय योगगम्याय ते नमः । (योगगम्याय योगिने)
नमः सर्वेश्वरेशाय महाहंसाय शम्भवे ॥ १६॥
चर्च्याय चर्चनीयाय चर्चकाय चराय ते ।
रवीन्दुसन्धिसंस्थाय महाचक्रेश ते नमः ॥ १७॥
सर्वानुस्यूतरूपाय सर्वाच्छादकशक्तये ।
सर्वभक्षाय सर्वाय नमस्ते सर्ववेदिने ॥ १८॥
रम्याय वल्लभाक्रान्तदेहार्धाय विनोदिने ।
नमः प्रपन्नदुष्प्राप्यसौभाग्यफलदायिने ॥ १९॥
तन्महेशाय तत्त्वार्थवेदिने भवभेदिने । (भववेदिने)
महाभैरवनाथाय भक्तिगम्याय ते नमः ॥ २०॥
शक्तिगर्भप्रबोधाय शरण्यायाशरीरिणे ।
शान्तिपुष्ट्यादिसाध्यार्थसाधकाय नमोऽस्तु ते ॥ २१॥
रवत्कुण्डलिनीगर्भप्रबोधप्राप्तशक्तये ।
उत्स्फोटनापटुप्रौढपरमाक्षरमूर्तये ॥ २२॥
समस्तव्यस्तसङ्ग्रस्तरश्मिजालोदरात्मने ।
नमस्तुभ्यं महामीनरूपिणे विश्वगर्भिणे ॥ २३॥
रेवारणिसमुद्भूतवह्निज्वालावभासिने ।
घनीभूतविकल्पात्मविश्वबन्धविलापिने ॥ २४॥ (विश्वबन्धविभेदिने)
भोगिनीस्यन्दनारूढिप्रौढिमालब्धगर्विणे ।
नमस्ते सर्वभक्ष्याय परमामृतलाभिने ॥ २५॥
नफकोटिसमावेशभरिताखिलसृष्टये ।
नमः शक्तिशरीराय कोटिद्वितयसङ्गिने ॥ २६॥
महामोहमलाक्रान्तजीववर्गप्रबोधिने ।
महेश्वराय जगतां नमः कारणबन्धवे ॥ २७॥
स्तेनोन्मूलनदक्षैकस्मृतये विश्वमूर्तये ।
नमस्तेऽस्तु महादेवनाम्ने परस्वधात्मने ॥ २८॥
रुग्द्राविणे महावीर्यरुरुवंशविनाशिने ।
रुद्राय द्राविताशेषबन्धनाय नमोनमः ॥ २९॥
द्रवत्पररसास्वादचर्वणोद्यतशक्तये । (चर्वणोद्युक्तशक्तये)
नमस्त्रिदशपूज्याय सर्वकारणहेतवे ॥ ३०॥
रूपातीत नमस्तुभ्यं नमस्ते बहुरूपिणे ।
त्र्यम्बकाय त्रिधामान्तश्चारिणे च त्रिचक्षुषे ॥ ३१॥ (चित्रचक्षुषे )
पेशलोपायलभ्याय भक्तिभाजां महात्मने । (भ्रान्तिभाजां)
दुर्लभाय मलाक्रान्तचेतसां तु नमोनमः ॥ ३२॥
भवप्रदाय दुष्टानां भवाय भवभेदिने ।
भव्यानां त्वन्मयानां तु सर्वदाय नमोनमः ॥ ३३॥ (तन्मयानां)
अणूनां मुक्तये घोरघोरसंसारदायिने ।
घोरातिघोरमूढानां तिरस्कर्त्रे नमोनमः ॥ ३४॥
(उपसंहारः –
सर्वकारणकलापकल्पितोल्लाससङ्कुलसमाधिविष्टम् ।
हार्दकोकनदसंस्थितामपि तं प्रणौमि शिववल्लभाजाम् ॥
सर्वजन्तुहृदयाब्जमण्डलोद्भूतभावमधुपानलन्पटाम् ।
वर्णभेदविभवान्तरस्थितां तं प्रणौमी शिववल्लभाजाम् ॥)
फलश्रुतिः –
इत्येवं स्तोत्रराजेशं महाभैरवभाषितम् ।
योगिनीनां परं सारं न दद्याद्यस्य कस्यचित् ॥
अदीक्षिते शठे क्रूरे निःसत्ये शुचिवर्जिते ।
नास्तिके च खले मूर्खे प्रमत्ते विप्लुतौजसे ॥ (विप्लुतेऽलसे)
गुरुशास्त्रसदाचारदूषके कलहप्रिये ।
निन्दके जम्भके क्षुत्रे समयघ्ने च दाम्भिके ॥ (चुम्भके क्षुद्रेऽसमयज्ञे)
दाक्षिण्यरहिते पापे धर्महीने च गर्विते ।
भक्तियुक्ते प्रदातव्यं न देयं परदीक्षिते ॥
पशूनां सन्निधौ देवि नोच्चार्यं सर्वथा क्वचित् ।
अस्यैव स्मृतमात्रस्य विघ्ना नश्यन्ति सर्वशः ॥
गुह्यका यातुधानाश्च वेताला राक्षसादयः ।
डाकिन्यश्च पिशाचाश्च क्रूरसत्वाश्च पूतनाः ॥
नश्यन्ति सर्वे पठितस्तोत्रस्यास्य प्रभावतः ।
खेचरी भूचरी चैव डाकिनी शाकिनी तथा ॥
ये चान्ये बहुधा भूता दुष्टसत्त्वा भयानकाः ।
व्याधिदुर्भिक्षदौर्भाग्यमारीमोहविषादयः ॥
गजव्याघ्रादयो भीताः पलायन्ते दिशो दश ।
सर्वे दुष्टाः प्रणश्यन्ति चेत्याज्ञा पारमेश्वरी ॥
इति श्रीबहुरूपगर्भस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now