Download HinduNidhi App
Misc

बुध कवच स्तोत्र

Budh Kavach Sanskrit

MiscKavach (कवच संग्रह)संस्कृत
Share This

‖बुध कवच स्तोत्र‖

विनियोगः

अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः,
अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः|

अथ बुध कवचम्

बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः |
पीताम्बरधरः पातु पीतमाल्यानुलेपनः ‖ 1 ‖

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा |
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ‖ 2 ‖

घाणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम |
कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ‖ 3 ‖

वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः |
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ‖ 4 ‖

जानुनी रौहिणेयश्च पातु जङ्घ्??उखिलप्रदः |
पादौ मे बोधनः पातु पातु सौम्यो?उखिलं वपुः ‖5‖

अथ फलश्रुतिः

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् |
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ‖ 6 ‖

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् |
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ‖ 7 ‖

‖ इति श्रीब्रह्मवैवर्तपुराणे बुध कवच सम्पूर्णम् ‖

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download बुध कवच स्तोत्र PDF

बुध कवच स्तोत्र PDF

Leave a Comment