श्रीपार्वतीश्रीकण्ठस्तुतिः
|| श्रीपार्वतीश्रीकण्ठस्तुतिः || (श्रीगरलपुरप्रवेशकाले) आसन्बहवो घस्रा मातस्त्वच्चरणदर्शनं हित्वा पार्वति कृतार्थतां खलु गमितस्त्वत्पाददर्शनादद्य ॥ १॥ सच्चित्सुखस्वरूपां ब्रह्मैतत्पश्यतेन्दुशीर्षाख्यम् । इति वदति शैलतनया साक्षान्नूनं प्रसारिताङ्गुल्या ॥ २॥ भक्तानां पापवृक्षौघच्छेदनायेन्दुशेखर । बिभर्षि पट्टसं रत्नत्सरुं किं लोकशङ्कर ॥ ३॥ स्पृष्टस्य चैकेन पदासुरस्य महत्पदं मुक्तिरभूत्किलास्य । स्पर्शेऽन्यपादस्य फलं हि दातुं नास्तीत्यतो व्योम्नि दधासि चान्यम् ॥ ४॥ इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः…