श्री इन्द्राक्षी कवचम्
|| श्री इन्द्राक्षी कवचम् (Indrakshi Kavacham PDF) || ॐ श्रीगणेशाय नमः । देव्युवाच – भगवान् देवदेवश लोकेश्वर जगत्पते । इन्द्राक्ष्याः कवचं ब्रूहि सर्वतत्त्वनिरूपिणम् ॥ १॥ श्रीभैरव उवाच इन्द्राक्ष्याः कवचं पुण्यं सर्वतत्त्वनिरूपिणम् । जगच्चिन्तामणिं नाम सर्वमन्त्रैकसाधनम् ॥ २॥ यं धृत्वा कवचं ब्रह्माविष्णुर्भीमा शचीपतिः । यमोऽपि वरुणश्चैव कुबेरश्च दिगीश्वरः ॥ ३॥ ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिषूदनः ।…