|| श्रीकृष्णस्तुतिः सङ्कीर्णा ||
(सङ्कीर्णश्लोकाः)
इन्दीवरदलश्याममिन्दरानन्दकन्दलम् ।
वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥ १॥
देवः पायादपायान्नः स्मरेन्दीवरलोचनः ।
संसारध्वान्तविध्वंसहंसकंसनिषूदनः ॥ २॥
पान्तु वो जलदश्यामाः शार्ङ्गिज्याघातकर्कशाः ।
त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥ ३॥
दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः ।
आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः ॥ ४॥
हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम् ।
राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥ ५॥
देहि मत्कन्दुकं राधे परिधाननिगूहितम् ।
इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः ॥ ६॥
चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितम् ।
अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपुः ॥ ७॥
मीमांसार्णवसोमं लसदर्कं तर्कपद्मस्य ।
वेदान्तविपिनसिंहं वन्दे गोविन्दसाभिधं ब्रह्म ॥ ८॥
अवलोकितमनुमोदितमालिङ्गितमङ्गनाभिरनुरागैः ।
अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः ॥ ९॥
मकरीविरचनभङ्ग्या राधाकुचकलशपीडनव्यसनी ।
ऋजुमपि रेखां लुम्पन्बल्लववेषो हरिर्जयति ॥ १०॥
कठिनतरदामवेष्टनलेखासन्देहदायिनो यस्य ।
राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः ॥ ११॥
खिन्नोऽसि मुञ्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः ।
भरभुग्नविनतबाहुषु गोपेषु हसन्हरिर्जयति ॥ १२॥
नीतं नवनवनीतं कियदिति पृष्टो यशोदया कृष्णः ।
इयदिति गुरुजनसंसदि करधृतराधापयोधरः पातु ॥ १३॥
राधामधुसूदनयोरनुदिनमुपचीयमानस्य ।
प्रणयतरोरिव कुसुमं मिथोऽवलोकस्मितं पायात् ॥ १४॥
श्रुतिमपरे स्मृतिमपरे भारतमपरे भजन्तु भवभीताः ।
अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म ॥ १५॥
तप्तं कैर्न तपोभिः फलितं तद्गोपबालानाम् ।
लोचनयुगले यासामञ्जनमासीन्निरञ्जनं ब्रह्म ॥ १६॥
मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः ।
मम रतिममरतिरस्कृतिशमनपरः स क्रियात्कृष्णः ॥ १७॥
स्तनन्धयन्तं जननी मुखाब्जं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् ।
स्पृशन्तमन्यं स्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ॥ १८॥
भुजप्रभादण्ड इवोर्ध्वगामी स पातु वः कंसरिपोः कृपाणः ।
यः पाञ्चजन्यप्रतिबिम्बभङ्ग्या धाराम्भसः फेनमिव व्यनक्ति ॥ १९॥
विहाय पीयूषरसं मुनीश्वरा ममाङ्घ्रिराजीवरसं पिबन्ति किम् ।
इति स्वपादाम्बुजपानकौतुकी स गोपबालः श्रियमातनोतु वः ॥ २०॥
विलिख्य सत्याकुचकुम्भसीम्नि पत्रावलिन्यासमिषेण राधाम् ।
लीलारविन्देन तया सरोषं पायाद्विटः कोऽप्यभिहन्यमानः ॥ २१॥
स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु ।
लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु ॥ २२॥
कुञ्चिताधरपुटेन पूरयन्वंशिकां प्रचलदङ्गुलिक्रमः ।
मोहयन्निखिलवामलोचनाः पातु कोऽपि नवनीरदच्छविः ॥ २३॥
अतसीकुसुमोपमेयकान्तर्यमुनातीरकदम्बमध्यवर्ती ।
नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गलं वः ॥ २४॥
गायन्तीनां गोपसीमन्तिनीनां स्फीताकाङ्क्षामक्षिरोलम्बमालाम् ।
निश्चाञ्चल्यामात्मवक्त्रारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः ॥ २५॥
पुञ्जीभूतं प्रेम गोपाङ्गनानां मूर्तीभूतं भागधेयं यदूनाम् ।
एकीभूतं गुप्तवित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे सन्निधत्ताम् ॥ २६॥
आनन्दमादधतमायतलोचनानां
आनीलमावलितकन्धरमात्तवंशम् ।
आपादमामुकुटमाकलितामृतौघं
आकारमाकलयताममुमान्तरं नः ॥ २७॥
त्वां पातु नीलनलिनीदलदामकान्तेः
कृष्णस्य पाणिसरसीरुहकोशबन्धः ।
राधाकपोलमकरीलिखनेषु योऽयं
कर्णावतंसकमलं विपुलीचकार ॥ २८॥
उत्फुल्लमानसरसीरुहचारुमध्य-
निर्यन्मधुव्रतभरद्युतिहारिणीभिः ।
राधाविलोचनकटाक्षपरम्पराभिः
दृष्टो हरिस्तव सुखानि तनोतु कामम् ॥ २९॥
गोवर्धनोद्धरणहृष्टसमस्तगोप-
नानास्तुतिश्रवणलज्जितमानसस्य ।
स्मृत्वा वराहवपुरिन्दुकलाप्रकाश-
दंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं वः ॥ ३०॥
अभिनवनवनीतप्रीतमाताम्रवेत्रं
विकचनलिनलक्ष्मीस्पर्धि सानन्दवक्त्रम् ।
हृदयभवनमध्ये योगिभिर्ध्यानगम्यं
नवगगनतमालश्यामलं कञ्चिदीडे ॥ ३१॥
अभिनवनवनीतस्निग्धमापीतदुग्धं
दधिकणपरिदिग्धं मुग्धमङ्गं मुरारेः ।
दिशतु भुवनकृच्छ्रच्छेदितापिच्छगुच्छ-
च्छवि नवशिखिपिच्छालाञ्छितं वाञ्छितं वः ॥ ३२॥
कनककलशस्वच्छे राधापयोधरमण्डले
नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् ।
असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन्
जयति जनितव्रीडाहासप्रियाहसितो हरिः ॥ ३३॥
ललितगमना नार्यो राजन्मनोजनितान्तभाः
सुरतिसदृशस्ताः सन्मुख्यो भवानपि तद्ब्रुवे ।
वनभुवमितो गेहादेको न गच्छतु मां विने-
त्यसकृदुदितः पुत्रः पित्रा जयत्यनघो हरिः ॥ ३४॥
देवः पायात्पयसि विमले यामुने मज्जतीनां
याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि ।
लज्जालोलैरलसवलितैरुन्मिषत्पञ्चबाणैः
गोपस्त्रीणां नयनकुसुमैरञ्चितः केशवो नः ॥ ३५॥
वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे
गुञ्जन्मञ्जुभ्रमरपटलीकाकलीकेलिभाजि ।
आभीराणां मधुरमुरलीनादसम्मोहितानां
मध्ये क्रीडन्नवतु नियतं नन्दगोपालबालः ॥ ३६॥
शिरश्छायां कृष्णः क्षणमकृत राधाचरणयोः
भुजावल्लिच्छायामियमपि तदीयप्रतिकृतौ ।
इति क्रीडाकोपे निभृतमुभयोरप्यनुनय-
प्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः ॥ ३७॥
अवेमव्यापाराकलनमतुरी स्पर्शमचिरा- ??
दनुन्मीलत्तन्तु प्रकरघटनायासमसकृत् ।
विषीदत्पाञ्चाली विपदपनयैकप्रणयिनः
पटानां निर्माणं पतगघतिकेतोरवतु वः ॥ ३८॥ ??
कपोले पत्रालीं पुलकिनि विधातुं व्यवसितः
स्वयं श्रीराधायाः करकलितवर्तिर्मधुरिपुः ।
अभूद्वक्त्रेन्दौ यन्निहितनयनः कम्पितभुजः
तदेतत्सामर्थ्यं तदभिनवरूपस्य जयति ॥ ३९॥
संसक्तानिव पातुमौपनिषदव्याहारमाध्वीरसा-
नुन्मार्ष्टुं व्रजसुन्दरीकुचतटीपाटीररेणूनिव ।
उन्मीलन्मुरळीनिनादबहुलामोदोपसीदद्गवी
जिह्वालीढमलीकवल्लवशिशोः पादाम्बुजं पातु वः ॥ ४०॥
कृष्णो गोरसचौर्यमम्ब कुरुते किं कृष्ण मातः सुरा-
पानं न प्रकरोमि राम किमिदं नाहं परस्त्रीरतः ।
किं गोविन्द वदत्यसौ हलधरो मिथ्येति तां व्याहरन्
गोपीगोपकदम्बकं विहसयन्मुग्धो मुकुन्दोऽवतु ॥ ४१॥
मातस्तर्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं
कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः ।
भ्रूसंज्ञाविनिवारितोऽपि बहुशो जल्पन्यशोदाग्रतो
गोपीपाणिसरोजमुद्रितमुखो गोपीपतिः पातु वः ॥ ४२॥
कासि त्वं वद चौर्यकारिणि कुतः कस्त्वं पुरो यामिकः
किं ब्रूषे मुषितौ सुवर्णकलशौ भूपस्य केन त्वया ।
कुत्र स्तः प्रकटौ तवाञ्चलतटे कुत्रेति तत्पश्यतां
इत्युक्ते धृतवल्लवीकुचयुगस्त्वां पातु पीताम्बरः ॥ ४३॥
कृष्ण त्वं पठ किं पठामि ननु रे शास्त्रं किमु ज्ञायते
तत्त्वं कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् ।
ज्ञानं भक्तिरथो विरक्तिरनया किं मुक्तिरेवास्तु ते
दध्यादीनि भजामि मातुरुदितं वाक्यं हरेः पातु वः ॥ ४४॥
कृष्ण त्वं नवयौवनोऽसि चपलाः प्रायेण गोपाङ्गनाः
कंसो भूपतिरब्जनालमृदुलग्रीवा वयं गोदुहः ।
तद्याचेऽञ्जलिना भवन्तमधुना वृन्दावनं मद्विना
मा यासीरिति नन्दगोपवचसा नम्रो हरिःपातु वः ॥ ४५॥
कस्त्वं कृष्णमवेहि मां किमिह ते मन्मन्दराशङ्कया
युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः ।
कर्तुं तत्र पिपीलिकापनयनं सुप्ताः किमुद्बोधिता
बाला वत्सगतिं विवेक्तुमिति सञ्जल्पन्हरिः पातु वः ॥ ४६॥
स्वामी मुग्धतरो वनं घनमिदं बालाऽहमेकाकिनी
क्षोणीमावृणुते तमालमलिनच्छाया तमःसंहतिः ।
तन्मे सुन्दर कृष्ण मुञ्च सहसा वर्त्मेति गोप्या गिरः
श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः ॥ ४७॥
मातः किं यदुनाथ देहि चषकं किं तेन पातुं पयः
तन्नास्त्यद्य कदास्ति तन्निशि निशा का वान्धकारोदये ।
आमील्याक्षियुगं निशाप्युपगता देहीति मातुः पुनः
वक्षोजाम्बरकर्षणोद्यतकरः कृष्णः स पुष्णातु नः ॥ ४८॥
अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं
सद्यःप्रस्नुतदुग्धदिग्धमपरं हस्तेन सम्मार्जतः ।
मात्रा चाङ्गुलिलालितस्य चिबुके स्मेरायमाणे मुखे
विष्णोः क्षीरकणाम्बुधामधवला दन्तद्युतिः पातु वः ॥ ४९॥
गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते
किं त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा ।
इत्यामन्त्रणभङ्गिसूचितवृथाप्रस्थानखेदालसां
आश्लिष्यन्पुलकाङ्कुराञ्चितवपुर्गोपीं हरिः पातु वः ॥ ५०॥
रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितुः
वाचा पञ्चवटीवने निवसतस्तामाहरद्रावणः ।
कृष्णेनेति पुरातनीं निजकथामाकर्ण्य मात्रेरितां
सौमित्रे क्व धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः ॥ ५१॥
कोऽयं द्वारि हरिः प्रयाह्युपवनं शाखामृगस्यात्र किं
कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् ।
राधेऽहं मधुसूदनो व्रजलतां तामेव पुष्पान्वितां
इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥ ५२॥
पीठे पीठनिषण्णबालकगले तिष्ठन्सगोपालको
यन्त्रान्तःस्थितदुग्धभाण्डमवभिद्याच्छाद्य घण्टारवम् ।
वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन्यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ ५३॥
पद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले
नीले मुह्यति किं करोमि महितैः क्रीतोऽस्मि ते विभ्रमैः ।
इत्युत्स्वप्नवचो निशम्य सरुषा निर्भर्त्सितो राधया
कृष्णस्तत्परमेव तद्व्यपदिशन्क्रीडाविटः पातु वः ॥ ५४॥
दृष्ट्या केशव गोपरागहृतया किञ्चिन्न दृष्टं मया
तेनात्र स्खलितास्मि नाथ पतितां किं नाम नालम्बसे ।
एकस्त्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिः
गोप्यैवं गदितः सलेशमवताद्गोष्ठे हरिर्वश्चिरम् ॥ ५५॥
केयं भाग्यवती तवोरसि मणी ब्रूषेऽग्रवर्णं विना
कृत्वास्याः प्रथमं विना क्व सहजो वर्णो मणेस्तादृशः ।
स्त्रीरूपं कथमस्य लिङ्गनियमात्पृच्छामि वध्वाकृतिं
मुग्धे त्वत्प्रतिबिम्बमित्यपलपन् राधां हरिः पातु वः ॥ ५६॥
यां दृष्ट्वा यमुनापिपासुरनिशं व्यूहो गवां गाहते
विद्युत्त्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते ।
उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः
कान्तं कालियशासनस्य वपुषः सा पावनी पातु वः ॥ ५७॥
श्रीमद्गोपवधूस्वयङ्ग्रहपरिष्वङ्गेषु तुङ्गस्तन-
व्यामर्दाद्गलितेऽपि चन्दनरजस्यङ्गे वहन्सौरभम् ।
कश्चिज्जागरजातरागनयनद्वन्द्वः प्रभाते श्रियं
बिभ्रत्कामपि वेणुनादरसिको जाराग्रणीः पातु वः ॥ ५८॥
कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं
श्रोणीसङ्गमसौभगं च सततं मत्प्रेयसीनां पुरः ।
प्राप्तं कोऽयमितीर्ष्ययेव यमुनाकूले बलाद्यः स्वयं
गोपीनामहरद्दुकूलनिचयं कृष्णः स पुष्णातु नः ॥ ५९॥
कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विकासिते च वदने दृष्ट्वा समस्तं जगत्
माता यस्य जगाम विस्मयपदं पायात्स वः श्रीपतिः ॥ ६०॥
अम्ब श्राम्यसि तिष्ठ गोरसमहं मथ्नामि मन्थानकं
प्रालम्ब्य स्थितमीश्वरं सरभसं दीनाननो वासुकिः ।
सासूयं कमलालया सुरगणः सानन्दमुद्यद्भयं
राहुः प्रैक्षत यं स वोऽस्तु शिवदो गोपालबालो हरिः ॥ ६१॥
कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं
गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् ।
तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गतेः
अक्षुण्णोऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः ॥ ६२॥
कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते
बाणं क्षीणयते बकं लघयते पौण्ड्रं तथा लुम्पते ।
भौमं क्षामयते बलाद्बलभिदो दर्पं पराकुर्वते
क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः ॥ ६३॥
रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवां
अभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-
र्व्याजादुद्भटचुम्बितः स्मितमनोहारी हरिः पातु वः ॥ ६४॥
साकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्लासित-
भ्रूवल्लीकमलीकदर्शितभुजामूलार्धदृष्टस्तनम् ।
गोपीनां निभृतं निरीक्ष्य ललितं काञ्चिच्चिरं चिन्तयन्
अन्तर्मुग्धमनोहरो हरतु वः क्लेशं नवः केशवः ॥ ६५॥
तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोच्चरद्-
गीतस्थानकृतावधानललनालक्षैर्न संलक्षिताः ।
सम्मुग्धं मधुसूदनस्य मधुरे राधामुखेन्दौ मृदु-
स्पन्दं पल्लविताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः ॥ ६६॥
वृष्टिव्याकुलगोकुलावनरसादुद्धृत्य गोवर्धनं
बिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बतः ।
कन्दर्पेण तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो
बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विषः ॥ ६७॥
राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली-
नेपथ्योचितनीलरत्नमवनीभारावतारक्षमः ।
स्वच्छन्दव्रजसुन्दरीजनमनस्तोषप्रदोषश्चिरं
कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥ ६८॥
किं विभ्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि
भ्रातर्यासि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् ।
राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो
गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः ॥ ६९॥
सान्द्रानन्दपुरन्दरादिदिविषद्वृन्दैरमन्दादरात्
आनम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरम् ।
स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं
श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥ ७०॥
प्रातर्नीलनिचोलमच्युतमुरःसंवीतपीतांशुकं
राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले ।
व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥ ७१॥
प्रीतिं वस्तनुतां हरिः कुवलयापीडेन सार्धं रणे
राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदवान् ।
पत्रे बिभ्यति मीलति क्षणमपि क्षिप्रं तदालोकनाद्-
व्यामोहेन जितं जितं जितमभूद्व्यालोलकोलाहलः ॥ ७२॥
त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे
शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः ।
इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वासोऽञ्चलं
राधायाः स्तनकोरको परिलसन्नेत्रो हरिः पातु वः ॥ ७३॥
वामांसस्थलचुम्बिकुण्डलरुचा जातोत्तरीयच्छविं
वंशीगीतिभवस्त्रिभङ्गवपुषं भ्रूलास्यलीलापरम् ।
किञ्चित्स्रस्तशिखण्डशेखरमतिस्निग्धालिनीलालकं
राधादिप्रमदाशतावृतमहं वन्दे किशोराकृतिम् ॥ ७४॥
अन्तर्मोहनमौलिघूर्णनवलन्मन्दारविस्रंसनः
स्तब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम् ।
दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां
भ्रंशः कंसरिपोर्व्यपोहयतु वोऽश्रेयांसि वंशीरवः ॥ ७५॥
मौलौ केकिशिखण्डनी मधुरिमाधाराधरे वंशिनी
पीनांसे वनमालिनी हृदि लसत्कारुण्यकल्लोलिनी ।
श्रोण्यां पीतदुकूलिनी चरणयोर्व्यत्यस्तविन्यासिनी
लीला काचन मोहनी विजयते वृन्दावनावासिनी ॥ ७६॥
मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां
शैलेयागुरुसक्तचित्रतिलकां शश्वन्मनोहारिणीम् ।
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
बालां बालतमालनीलवपुषं वन्दे परां देवताम् ॥ ७७॥
अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूतलं
किञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारीक्षणम् ।
आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा
मूले कल्पतरोस्त्रिभङ्गललितं ध्याये जगन्मोहनम् ॥ ७५॥
कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं
बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ ७६॥
कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं
तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा ।
इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः
पायाद्वः स्वशिखां स्पृशन्प्रमुदितः क्षीरेऽर्धपीते हरिः ॥ ७७॥
आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं
साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलम् ।
सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मतं
यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्तगोवर्धनः ॥ ७८॥
राधामोहनमन्दिरं जिगमिषोश्चन्द्रावलीमन्दिरात्
राधे क्षेममिति प्रियस्य वचनं श्रुत्वाऽऽह चन्द्रावली ।
क्षेमं कंस ततः प्रियः प्रमुदितः कंसः क्व दृष्टस्त्वया
राधा क्वेति तयोः प्रसन्नमनसोर्हासोद्गमः पातु वः ॥ ७९॥
दृष्टः क्वापि स केशवो व्रजवधूमादाय काञ्चिद्गतः
सर्वा एव हि वञ्चिताः खलु वयं सोऽन्वेषणीयो यदि ।
द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे
गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरिः पातु वः ॥ ८०॥
किं युक्तं बत मामनन्यमनसं वक्षःस्थलस्थायिनीं
भक्तामप्यवधूय कर्तुमधुना कान्तासहस्रं तव ।
इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनुं
निद्राच्छेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥ ८१॥
स्वप्नासादितदर्शनामनुनयन्प्राणेश्वरीमादरात्
अंसेऽस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोऽप्यश्रुभिः ।
प्रत्याय्यस्त्वमतो मया ननु हरे कोऽयं क्रमव्यत्ययः
पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकरं शार्ङ्गिणः ॥ ८२॥
अस्मिन्कुञ्जे विनापि प्रचलति पवनाद्वर्तते कोऽपि नूनं
पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणाम् ।
तस्मिन् राधासखो वः सुखयतु विलसल्लीलया कैटभारिः
व्यातन्वानो मृगारिप्रबलघुरघुरारावरौद्रान्निनादान् ॥ ८३॥
अङ्गुल्या कः कपाटं प्रहरति कुटिले माधवः किं वसन्तो
नो चक्री किं कुलालो नहि धरणिधरः किं द्विजिह्वः फणीन्द्रः ।
नाहं घोराहिमर्दी किमुत खगपतिर्नो हरिः किं कपीन्द्र
इत्येवं सत्यभामाप्रतिवचनजितः पातु वश्चक्रपाणिः ॥ ८४॥
वृन्दारण्ये चरन्ती विभुरपि सततम्भूर्भुवःस्वः सृजन्ती
नन्दोद्भूताऽप्यनादिः शिशुरपि निगमैर्लक्षिता वीक्षितापि ।
विद्युल्लेखावनद्धोन्नमदमलमहाम्भोदसच्छायकाया
माया पायादपायादविदितमहिमा कापि पैताम्बरी वः ॥ ८५॥
नामोदस्ताखिलामोदमनियमयुजां यः प्रकामोदवाह
श्यामो दर्पाढ्यधामोदयमिलितयशोधारया मोदते यः ।
वामोदन्यासदामोदरतरलदृशां दत्तकामोदयो यः
सामोदः श्रीललामो दलयतु दुरितं सोऽत्र दामोदरो वः ॥ ८६॥
मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापोऽङ्गनाभिः
गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेयः ।
क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिः
दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥ ८७॥
जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥ ८८॥
सुपर्णः स्वर्णाद्रौ रचितमणिशृङ्गे जलधिजा-
मुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः ।
त्रिलोकीकस्तूरितिलककमनीयो व्रजवधू-
विहारी श्रीकृष्णो दिशतु भवतां शर्म सततम् ॥ ८९॥
क्व यासि खलु चौरिके प्रमुषितं स्फुटं दृश्यते
द्वितीयमिह मामकं वहसि कन्दुकं कञ्चुके ।
त्यजेति नवगोपिकाकुचयुगं प्रमथ्नन्बलात्
लसत्पुलकपञ्जरो जयति गोकुले केशवः ॥ ९०॥
मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैः
नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ ९१॥
कौन्तेयस्य सहायतां करुणया गत्वा विनीतात्मनो
येनोल्लङ्घितसत्पथः कुरुपतिश्चक्रे कृतान्तातिथिः ।
त्रैलोक्यस्थितिसूत्रधारतिलको देवः सदा सम्पदे
साधूनामसुराधिनाथमथनः स्ताद्देवकीनन्दनः ॥ ९२॥
आताम्रे नयने स्फुरन्कुचभरः श्वासो न विश्राम्यसि
स्वेदाम्भःकणदन्तुरं तव मुखं हेतस्तु नो लक्ष्यते ।
धिक्को वेद मनः स्त्रिया इति गिरा रुष्टां प्रियां भीषयन्
तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः ॥ ९३॥
इति श्रीकृष्णस्तुतिः समाप्ता ।
Read in More Languages:- sanskritश्रीकृष्णस्तुतिर्मङ्गलम्
- sanskritश्रीशुकप्रोक्ता श्रीकृष्णस्तुतिः
- sanskritश्रीकृष्णस्तुतिःब्रह्म
- sanskritब्रह्मणा कृता श्रीकृष्णस्तुतिः
- sanskritश्रीकृष्णस्तुतिःदेव
- sanskritकृष्णस्तुतिःजीव
- sanskritश्रीकृष्णस्तुतिःगुह्यक
- sanskritश्रीकृष्णस्तुतिःकुन्ती
- sanskritइन्द्रकृता श्रीकृष्णस्तुतिः
- sanskritदेवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः
- assameseশ্ৰী কৃষ্ণ স্তুতি
- gujaratiશ્રી કૃષ્ણ સ્તુતિ
- punjabiਸ਼੍ਰੀ ਕ੍ਰੁਸ਼਼੍ਣ ਸ੍ਤੁਤਿ
- bengaliশ্রী কৃষ্ণ স্তুতি
- teluguశ్రీ కృష్ణ స్తుతి
Found a Mistake or Error? Report it Now