श्री रवि अष्टकम्

|| श्री रवि अष्टकम् || उदयाद्रिमस्तकमहामणिं लसत् कमलाकरैकसुहृदं महौजसम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ १ ॥ तिमिरापहारनिरतं निरामयं निजरागरञ्जितजगत्त्रयं विभुम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ २ ॥ दिनरात्रिभेदकरमद्भुतं परं सुरवृन्दसंस्तुतचरित्रमव्ययम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ३ ॥ श्रुतिसारपारमजरामयं परं रमणीयविग्रहमुदग्ररोचिषम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ४ ॥ शुकपक्षतुण्डसदृशाश्वमण्डलं अचलावरोहपरिगीतसाहसम् । गदपङ्कशोषणमघौघनाशनं…

श्री मार्ताण्ड स्तोत्रम्

|| श्री मार्ताण्ड स्तोत्रम् || गाढान्धकारहरणाय जगद्धिताय ज्योतिर्मयाय परमेश्वरलोचनाय । मन्देहदैत्यभुजगर्वविभञ्जनाय सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ १ ॥ छायाप्रियाय मणिकुण्डलमण्डिताय सुरोत्तमाय सरसीरुहबान्धवाय । सौवर्णरत्नमकुटाय विकर्तनाय सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ २ ॥ सञ्ज्ञावधूहृदयपङ्कजषट्पदाय गौरीशपङ्कजभवाच्युतविग्रहाय । लोकेक्षणाय तपनाय दिवाकराय सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ ३ ॥ सप्ताश्वबद्धशकटाय ग्रहाधिपाय रक्ताम्बराय शरणागतवत्सलाय । जाम्बूनदाम्बुजकराय दिनेश्वराय सूर्याय तीव्रकिरणाय नमो…

श्री आदित्य द्वादशनाम स्तोत्रम्

|| श्री आदित्य द्वादशनाम स्तोत्रम् || आदित्यः प्रथमं नामं द्वितीयं तु दिवाकरः । तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ १ ॥ पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः । सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ २ ॥ नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः । एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ ३ ॥ द्वादशादित्यनामानि प्रातः काले पठेन्नरः…

श्री आदित्य द्वादशनामावली

|| श्री आदित्य द्वादशनामावली || ओं आदित्याय नमः । ओं दिवाकराय नमः । ओं भास्कराय नमः । ओं प्रभाकराय नमः । ओं सहस्रांशवे नमः । ओं त्रिलोचनाय नमः ॥ ६ ॥ ओं हरिदश्वाय नमः । ओं विभावसवे नमः । ओं दिनकृते नमः । ओं द्वादशात्मकाय नमः । ओं त्रिमूर्तये नमः । ओं सूर्याय नमः ॥…

श्री वराह कवचम्

॥ श्रीवराहकवचम् ॥ आद्यं रङ्गमिति प्रोक्तं विमानं रङ्गसंज्ञितम् । श्रीमुष्णं वेङ्कटाद्रिं च साळग्रामं च नैमिशम् ॥ तोयाद्रिं पुष्करं चैव नरनारायणाश्रमम् । अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥ श्रीसूतः – श्रीरुद्रमुखनिर्णीतमुरारिगुणसत्कथा । सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् ॥ श्रीपार्वत्युवाच – श्रीमुष्णेशस्य माहात्म्यं वराहस्य महात्मनः । श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते । श्रोतुं तद्देवमाहात्म्यं…

श्री वराहाष्टोत्तर शतनामावली

|| श्री वराहाष्टोत्तरशतनामावली || ओं श्रीवराहाय नमः । ओं महीनाथाय नमः । ओं पूर्णानन्दाय नमः । ओं जगत्पतये नमः । ओं निर्गुणाय नमः । ओं निष्कलाय नमः । ओं अनन्ताय नमः । ओं दण्डकान्तकृते नमः । ओं अव्ययाय नमः । ९ ओं हिरण्याक्षान्तकृते नमः । ओं देवाय नमः । ओं पूर्णषाड्गुण्यविग्रहाय नमः । ओं लयोदधिविहारिणे…

श्री वराहाष्टोत्तरशतनाम स्तोत्रम्

|| श्री वराहाष्टोत्तरशतनाम स्तोत्रम् || ध्यानम् । श्वेतं सुदर्शनदराङ्कितबाहुयुग्मं दंष्ट्राकरालवदनं धरया समेतम् । ब्रह्मादिभिः सुरगणैः परिसेव्यमानं ध्यायेद्वराहवपुषं निगमैकवेद्यम् ॥ स्तोत्रम्। श्रीवराहो महीनाथः पूर्णानन्दो जगत्पतिः । निर्गुणो निष्कलोऽनन्तो दण्डकान्तकृदव्ययः ॥ हिरण्याक्षान्तकृद्देवः पूर्णषाड्गुण्यविग्रहः । लयोदधिविहारी च सर्वप्राणिहितेरतः ॥ अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । वेदान्तवेद्यो वेदी च वेदगर्भः सनातनः ॥ सहस्राक्षः पुण्यगन्धः कल्पकृत् क्षितिभृद्धरिः । पद्मनाभः सुराध्यक्षो हेमाङ्गो दक्षिणामुखः ॥ महाकोलो…

श्री रवि स्तोत्रम् (साम्बपुराणे)

|| श्री रवि स्तोत्रम् (साम्बपुराणे) || त्वं देव ऋषिकर्ता च प्रकृतिः पुरुषः प्रभुः । छाया सञ्ज्ञा प्रतिष्ठापि निरालम्बो निराश्रयः ॥ १ ॥ आश्रयः सर्वभूतानां नमस्तेऽस्तु सदा मम । त्वं देव सर्वतश्चक्षुः सर्वतः सर्वदा गतिः ॥ २ ॥ सर्वदः सर्वदा सर्वः सर्वसेव्यस्त्वमार्तिहा । त्वं देव ध्यानिनां ध्यानम् योगिनां योग उत्तमः ॥ ३ ॥ त्वं भाषाफलदः सर्वः…

श्री सूर्य कवचम् – २ (त्रैलोक्यमङ्गलम्)

|| श्री सूर्य कवचम् – २ (त्रैलोक्यमङ्गलम्) || श्रीसूर्य उवाच । साम्ब साम्ब महाबाहो शृणु मे कवचं शुभम् । त्रैलोक्यमङ्गलं नाम कवचं परमाद्भुतम् ॥ १ ॥ यज्ज्ञात्वा मन्त्रवित् सम्यक् फलं प्राप्नोति निश्चितम् । यद्धृत्वा च महादेवो गणानामधिपोऽभवत् ॥ २ ॥ पठनाद्धारणाद्विष्णुः सर्वेषां पालकः सदा । एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥ ३ ॥ कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतः ।…

श्री सूर्य कवचम् – ३ (जगद्विलक्षणम्)

|| श्री सूर्य कवचम् – ३ (जगद्विलक्षणम्) || बृहस्पतिरुवाच । इन्द्र शृणु प्रवक्ष्यामि कवचं परमाद्भुतम् । यद्धृत्वा मुनयः पूता जीवन्मुक्ताश्च भारते ॥ १ ॥ कवचं बिभ्रतो व्याधिर्न भियाऽऽयाति सन्निधिम् । यथा दृष्ट्वा वैनतेयं पलायन्ते भुजङ्गमाः ॥ २ ॥ शुद्धाय गुरुभक्ताय स्वशिष्याय प्रकाशयेत् । खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ ३ ॥ जगद्विलक्षणस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च…

श्री आदित्य स्तोत्रम् – २ (भविष्यपुराणे)

श्री आदित्य स्तोत्रम् – २ (भविष्यपुराणे) नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् । पीडा च दुस्सहा राजन् जायते सततं नृणाम् ॥ १ ॥ पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः । सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः ॥ २ ॥ आदित्यः सविता सूर्यः पूषार्कः शीघ्रगो रविः । भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजोनिधिर्हरिः ॥ ३ ॥ दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः ।…

सूर्य स्तोत्रम् – २ (देव कृतम्)

|| सूर्य स्तोत्रम् – २ (देव कृतम्) || देवा ऊचुः । नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः । यजुः स्वरूपरूपाय साम्नां धामवते नमः ॥ १ ॥ ज्ञानैकधामभूताय निर्धूततमसे नमः । शुद्धज्योतिः स्वरूपाय विशुद्धायामलात्मने ॥ २ ॥ चक्रिणे शङ्खिने धाम्ने शार्ङ्गिणे पद्मिने नमः । वरिष्ठाय वरेण्याय परस्मै परमात्मने ॥ ३ ॥ नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये । सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम् ॥…

श्री रवि स्तुतिः (त्रिदेव कृतम्)

|| श्री रवि स्तुतिः (त्रिदेव कृतम्) || दृष्ट्वैवं देवदेवस्य रूपं भानोर्महात्मनः । विस्मयोत्फुल्लनयनास्तुष्टवुस्ते दिवाकरम् ॥ १ ॥ कृताञ्जलिपुटो भूत्वा ब्रह्मा स्तोतुं प्रचक्रमे । प्रणम्य शिरसा भानुमिदं वचनमब्रवीत् ॥ २ ॥ ब्रह्मोवाच । नमस्ते देवदेवेश सहस्रकिरणोज्ज्वल । लोकदीप नमस्तेऽस्तु नमस्ते कोणवल्लभ ॥ ३ ॥ भास्कराय नमो नित्यं खषोल्काय नमो नमः । विष्णवे कालचक्राय सोमायामिततेजसे ॥ ४…

श्री सूर्याष्टोत्तरशतनाम स्तोत्रम् २

|| श्री सूर्याष्टोत्तरशतनाम स्तोत्रम् २ || सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ १ ॥ पृथिव्यापश्च तेजश्च खं वायुश्च परायणः । सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ २ ॥ इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः । ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ३ ॥ वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । धर्मध्वजो…

श्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्)

|| श्री सूर्यार्या स्तोत्रम् (याज्ञवल्क्य कृतम्) || शुकतुण्डच्छविसवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ १ ॥ यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि । कुरुतेञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २ ॥ उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥ ३ ॥ जयति जनानन्दकरः करनिकरनिरस्ततिमिरसङ्घातः । लोकालोकालोकः कमलारुणमण्डलः सूर्यः ॥ ४ ॥ प्रतिबोधितकमलवनः कृतघटनश्चक्रवाकमिथुनानाम् । दर्शितसमस्तभुवनः परहितनिरतो रविः…

श्री सूर्य नामवर्णन स्तोत्रम् (भविष्यपुराणे)

|| श्री सूर्य नामवर्णन स्तोत्रम् (भविष्यपुराणे) || ब्रह्मोवाच । नामभिः संस्तुतो देवो यैरर्कः परितुष्यति । तानि ते कीर्तयाम्येष यथावदनुपूर्वशः ॥ १ ॥ नमः सूर्याय नित्याय रवये कार्यभानवे । भास्कराय मतङ्गाय मार्तण्डाय विवस्वते ॥ २ ॥ आदित्यायादिदेवाय नमस्ते रश्मिमालिने । दिवाकराय दीप्ताय अग्नये मिहिराय च ॥ ३ ॥ प्रभाकराय मित्राय नमस्तेऽदितिसम्भव । नमो गोपतये नित्यं दिशां…

श्री सूर्य प्रातः स्मरण स्तोत्रम्

|| श्री सूर्य प्रातः स्मरण स्तोत्रम् || प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि । सामानि यस्य किरणाः प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥ १ ॥ प्रातर्नमामि तरणिं तनुवाङ्मनोभि- -र्ब्रह्मेन्द्रपूर्वकसुरैर्नतमर्चितं च । वृष्टिप्रमोचनविनिग्रहहेतुभूतं त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥ २ ॥ प्रातर्भजामि सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं च । तं सर्वलोककलनात्मककालमूर्तिं गोकण्ठबन्धनविमोचनमादिदेवम् ॥ ३ ॥ श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत्तु यः…

श्री दुर्गा स्तोत्रम् (परशुराम कृतम्)

|| श्री दुर्गा स्तोत्रम् (परशुराम कृतम्) || परशुराम उवाच । श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च । आविर्भूता विग्रहतः पुरा सृष्ट्युन्मुखस्य च ॥ १ ॥ सूर्यकोटिप्रभायुक्ता वस्त्रालङ्कारभूषिता । वह्निशुद्धांशुकाधाना सस्मिता सुमनोहरा ॥ २ ॥ नवयौवनसम्पन्ना सिन्दूरारुण्यशोभिता । ललितं कबरीभारं मालतीमाल्यमण्डितम् ॥ ३ ॥ अहोऽनिर्वचनीया त्वं चारुमूर्तिं च बिभ्रती । मोक्षप्रदा मुमुक्षूणां महाविष्णुर्विधिः स्वयम् ॥ ४ ॥…

श्री चण्डिका दल स्तुतिः

|| श्री चण्डिका दल स्तुतिः || ओं नमो भगवति जय जय चामुण्डिके, चण्डेश्वरि, चण्डायुधे, चण्डरूपे, ताण्डवप्रिये, कुण्डलीभूतदिङ्नागमण्डित गण्डस्थले, समस्त जगदण्ड संहारकारिणि, परे, अनन्तानन्दरूपे, शिवे, नरशिरोमालालङ्कृतवक्षःस्थले, महाकपाल मालोज्ज्वल मणिमकुट चूडाबद्ध चन्द्रखण्डे, महाभीषणि, देवि, परमेश्वरि, ग्रहायुः किल महामाये, षोडशकलापरिवृतोल्लासिते, महादेवासुर समरनिहतरुधिरार्द्रीकृत लम्भित तनुकमलोद्भासिताकार सम्पूर्ण रुधिरशोभित महाकपाल चन्द्रांसि निहिता बद्ध्यमान रोमराजी सहित मोहकाञ्ची दामोज्ज्वलीकृत नव सारुणी कृत नूपुरप्रज्वलित…

श्री पद्मावती स्तोत्रम्

|| श्री पद्मावती स्तोत्रम् || विष्णुपत्नि जगन्मातः विष्णुवक्षःस्थलस्थिते । पद्मासने पद्महस्ते पद्मावति नमोऽस्तु ते ॥ १ ॥ वेङ्कटेशप्रिये पूज्ये क्षीराब्धितनये शुभे । पद्मे रमे लोकमातः पद्मावति नमोऽस्तु ते ॥ २ ॥ कल्याणी कमले कान्ते कल्याणपुरनायिके । कारुण्यकल्पलतिके पद्मावति नमोऽस्तु ते ॥ ३ ॥ सहस्रदलपद्मस्थे कोटिचन्द्रनिभानने । पद्मपत्रविशालाक्षि पद्मावति नमोऽस्तु ते ॥ ४ ॥ सर्वज्ञे सर्ववरदे…

अष्टलक्ष्मी अष्टोत्तरशतनामावली

|| अष्टलक्ष्मी अष्टोत्तरशतनामावली || ओं श्रीमात्रे नमः । ओं श्रीमहाराज्ञै नमः । ओं श्रीमत्सिंहासनेश्वर्यै नमः । ओं श्रीमन्नारायणप्रीतायै नमः । ओं स्निग्धायै नमः । ओं श्रीमत्यै नमः । ओं श्रीपतिप्रियायै नमः । ओं क्षीरसागरसम्भूतायै नमः । ओं नारायणहृदयालयायै नमः । ९ ओं ऐरावणादिसम्पूज्यायै नमः । ओं दिग्गजावां सहोदर्यै नमः । ओं उच्छैश्रवः सहोद्भूतायै नमः ।…

श्री सिद्धलक्ष्मी स्तोत्रम् (पाठान्तरम्)

|| श्री सिद्धलक्ष्मी स्तोत्रम् (पाठान्तरम्) || ध्यानम् । ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् । त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम् ॥ पीताम्बरधरां देवीं नानाऽलङ्कारभूषिताम् । तेजःपुञ्जधरीं श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ स्तोत्रम् । ओङ्कारं लक्ष्मीरूपं तु विष्णुं वाग्भवमव्ययम् । विष्णुमानन्दमव्यक्तं ह्रीङ्कारबीजरूपिणीम् ॥ क्लीं अमृता नन्दिनीं भद्रां सत्यानन्ददायिनीम् । श्रीं दैत्यशमनीं शक्तीं मालिनीं शत्रुमर्दिनीम् ॥ तेजःप्रकाशिनीं देवी वरदां शुभकारिणीम् ।…

श्री पद्मावती नवरत्नमालिका स्तुतिः

|| श्री पद्मावती नवरत्नमालिका स्तुतिः || श्रीमान् यस्याः प्रियस्सन् सकलमपि जगज्जङ्गमस्थावराद्यं स्वर्भूपातालभेदं विविधविधमहाशिल्पसामर्थ्यसिद्धम् । रञ्जन् ब्रह्मामरेन्द्रैस्त्रिभुवनजनकः स्तूयते भूरिशो यः सा विष्णोरेकपत्नी त्रिभुवनजननी पातु पद्मावती नः ॥ १ ॥ श्रीशृङ्गारैकदेवीं विधिमुखसुमनःकोटिकोटीरजाग्र- -द्रत्नज्योत्स्नाप्रसारप्रकटितचरणाम्भोजनीराजितार्चाम् । गीर्वाणस्त्रैणवाणीपरिफणितमहाकीर्तिसौभाग्यभाग्यां हेलानिर्दग्धदैन्यश्रमविषममहारण्यगण्यां नमामि ॥ २ ॥ विद्युत्कोटिप्रकाशां विविधमणिगणोन्निद्रसुस्निग्धशोभा- सम्पत्सम्पूर्णहाराद्यभिनवविभवालङ्क्रियोल्लासिकण्ठाम् । आद्यां विद्योतमानस्मितरुचिरचितानल्पचन्द्रप्रकाशां पद्मां पद्मायताक्षीं पदनलिननमत्पद्मसद्मां नमामि ॥ ३ ॥ शश्वत्तस्याः श्रयेऽहं चरणसरसिजं शार्ङ्गपाणेः…

कनकधारा स्तोत्रम् (पाठान्तरम्)

|| कनकधारा स्तोत्रम् (पाठान्तरम्) || अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दम्- आनन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ३ ॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव…

श्री महालक्ष्मी चतुर्विंशतिनाम स्तोत्रम्

|| श्री महालक्ष्मी चतुर्विंशतिनाम स्तोत्रम् || देवा ऊचुः । नमः श्रियै लोकधात्र्यै ब्रह्ममात्रे नमो नमः । नमस्ते पद्मनेत्रायै पद्ममुख्यै नमो नमः ॥ १ ॥ प्रसन्नमुखपद्मायै पद्मकान्त्यै नमो नमः । नमो बिल्ववनस्थायै विष्णुपत्न्यै नमो नमः ॥ २ ॥ विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमो नमः । पक्वबिल्वफलापीनतुङ्गस्तन्यै नमो नमः ॥ ३ ॥ सुरक्तपद्मपत्राभकरपादतले शुभे । सुरत्नाङ्गदकेयूरकाञ्चीनूपुरशोभिते । यक्षकर्दमसंलिप्तसर्वाङ्गे कटकोज्ज्वले…

श्री महालक्ष्मी सहस्रनाम स्तोत्रम्

|| श्री महालक्ष्मी सहस्रनाम स्तोत्रम् || अस्य श्रीमहालक्ष्मी सहस्रनामस्तोत्र महामन्त्रस्य श्रीमहाविष्णुर्भगवान् ऋषिः अनुष्टुप्छन्दः श्रीमहालक्ष्मीर्देवता श्रीं बीजं ह्रीं शक्तिः ह्रैं कीलकं श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ध्यानम् – पद्मानने पद्मकरे सर्वलोकैकपूजिते । सान्निध्यं कुरु मे चित्ते विष्णुवक्षःस्थलस्थिते ॥ १ ॥ भगवद्दक्षिणे पार्श्वे श्रियं देवीमवस्थिताम् । ईश्वरीं सर्वभूतानां जननीं सर्वदेहिनाम् ॥ २ ॥ चारुस्मितां चारुदतीं चारुनेत्राननभ्रुवम् । सुकपोलां…

श्री लक्ष्मी अष्टोत्तरशतनाम स्तोत्रम् २

|| श्री लक्ष्मी अष्टोत्तरशतनाम स्तोत्रम् २ || श्रीर्लक्ष्मी कमला देवी मा पद्मा कमलालया । पद्मेस्थिता पद्मवर्णा पद्मिनी मणिपङ्कजा ॥ १ पद्मप्रिया नित्यपुष्टा ह्युदारा पद्ममालिनी । हिरण्यवर्णा हरिणी ह्यर्घ्या चन्द्रा हिरण्मयी ॥ २ आदित्यवर्णाऽश्वपूर्वा हस्तिनादप्रबोधिनी । रथमध्या देवजुष्टा सुवर्णरजतस्रजा ॥ ३ गन्धध्वारा दुराधर्षा तर्पयन्ती करीषिणी । पिङ्गला सर्वभूतानां ईश्वरी हेममालिनी ॥ ४ कांसोस्मिता पुष्करिणी ज्वलन्त्यनपगामिनी ।…

श्री लक्ष्मी स्तोत्रम् (लोपामुद्रा कृतम्)

|| श्री लक्ष्मी स्तोत्रम् (लोपामुद्रा कृतम्) || मातर्नमामि कमले पद्माऽऽयतसुलोचने । श्रीविष्णुहृत्कमलस्थे विश्वमातर्नमोऽस्तु ते ॥ १ ॥ क्षीरसागरसत्पुत्रि पद्मगर्भाभसुन्दरि । लक्ष्मि प्रसीद सततं विश्वमातर्नमोऽस्तु ते ॥ २ ॥ महेन्द्रसदने त्वं श्रीः रुक्मिणी कृष्णभामिनी । चन्द्रे ज्योत्स्ना प्रभा सूर्ये विश्वमातर्नमोऽस्तु ते ॥ ३ ॥ स्मितानने जगद्धात्रि शरण्ये सुखवर्धिनि । जातवेदसि दहने विश्वमातर्नमोऽस्तु ते ॥ ४ ॥…

श्री लक्ष्मी स्तोत्रम् (त्रैलोक्य मङ्गलम्)

|| श्री लक्ष्मी स्तोत्रम् (त्रैलोक्य मङ्गलम्) || नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे । नमो भक्तिप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ १ ॥ नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे । सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ २ ॥ महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये । वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तु ते ॥ ३ ॥ उद्यद्भानुसहस्राभे नयनत्रयभूषिते । रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तु ते…

श्री दीपलक्ष्मी स्तोत्रम्

|| श्री दीपलक्ष्मी स्तोत्रम् || दीपस्त्वमेव जगतां दयिता रुचिस्ते दीर्घं तमः प्रतिनिवृत्यमितं युवाभ्याम् । स्तव्यं स्तवप्रियमतः शरणोक्तिवश्यं स्तोतुं भवन्तमभिलष्यति जन्तुरेषः ॥ १ ॥ दीपः पापहरो नॄणां दीप आपन्निवारकः दीपो विधत्ते सुकृतिं दीपः सम्पत्प्रदायकः । देवानां तुष्टिदो दीपः पितॄणां प्रीतिदायकः दीपज्योतिः परं ब्रह्म दीपज्योतिर्जनार्दनः ॥ २ ॥ दीपो हरतु मे पापं सन्ध्यादीप नमोऽस्तु ते ॥ ३…

श्री लक्ष्म्यष्टोत्तरशतनाम स्तोत्रम् ३

|| श्री लक्ष्म्यष्टोत्तरशतनाम स्तोत्रम् ३ || ब्रह्मज्ञा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी । सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥ १ ॥ सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा । संविन्मयी सदाचारा सदातुष्टा सदानता ॥ २ ॥ कौमुदी कुमुदानन्दा कुः कुत्सिततमोहरी । हृदयार्तिहरी हारशोभिनी हानिवारिणी ॥ ३ ॥ सम्भाज्या संविभज्याऽऽज्ञा ज्यायसी जनिहारिणी । महाक्रोधा महातर्षा महर्षिजनसेविता ॥ ४ ॥ कैटभारिप्रिया कीर्तिः कीर्तिता कैतवोज्झिता…

श्री इन्दिराष्टोत्तरशतनाम स्तोत्रम्

|| श्री इन्दिराष्टोत्तरशतनाम स्तोत्रम् || इन्दिरा विष्णुहृदयमन्दिरा पद्मसुन्दरा । नन्दिताऽखिलभक्तश्रीर्नन्दिकेश्वरवन्दिता ॥ १ ॥ केशवप्रियचारित्रा केवलानन्दरूपिणी । केयूरहारमञ्जीरा केतकीपुष्पधारणी ॥ २ ॥ कारुण्यकवितापाङ्गी कामितार्थप्रदायनी । कामधुक्सदृशा शक्तिः कालकर्मविधायिनी ॥ ३ ॥ जितदारिद्र्यसन्दोहा धृतपङ्केरुहद्वयी । कृतविद्ध्यण्डसंरक्षा नतापत्परिहारिणी ॥ ४ ॥ नीलाभ्राङ्गसरोनेत्रा नीलोत्पलसुचन्द्रिका । नीलकण्ठमुखाराध्या नीलाम्बरमुखस्तुता ॥ ५ ॥ सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायिता । समुद्रतनया सर्वसुरकान्तोपसेविता ॥ ६ ॥ भार्गवी भानुमत्यादिभाविता…

श्री धनलक्ष्मी स्तोत्रम्

|| श्री धनलक्ष्मी स्तोत्रम् || श्रीधनदा उवाच । देवी देवमुपागम्य नीलकण्ठं मम प्रियम् । कृपया पार्वती प्राह शङ्करं करुणाकरम् ॥ १ ॥ श्रीदेव्युवाच । ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् । दरिद्रदलनोपायमञ्जसैव धनप्रदम् ॥ २ ॥ श्रीशिव उवाच । पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः । उचितं जगदम्बासि तव भूतानुकम्पया ॥ ३ ॥ स सीतं सानुजं रामं साञ्जनेयं सहानुगम्…

श्री महालक्ष्मी स्तुतिः

|| श्री महालक्ष्मी स्तुतिः || आदिलक्ष्मि नमस्तेऽस्तु परब्रह्मस्वरूपिणि । यशो देहि धनं देहि सर्वकामांश्च देहि मे ॥ १ ॥ सन्तानलक्ष्मि नमस्तेऽस्तु पुत्रपौत्रप्रदायिनि । पुत्रान् देहि धनं देहि सर्वकामांश्च देहि मे ॥ २ ॥ विद्यालक्ष्मि नमस्तेऽस्तु ब्रह्मविद्यास्वरूपिणि । विद्यां देहि कलान् देहि सर्वकामांश्च देहि मे ॥ ३ ॥ धनलक्ष्मि नमस्तेऽस्तु सर्वदारिद्र्यनाशिनि । धनं देहि श्रियं देहि…

श्री महालक्ष्मी कवचम् १

|| श्री महालक्ष्मी कवचम् १ || इन्द्र उवाच । समस्तकवचानां तु तेजस्वि कवचोत्तमम् । आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते ॥ १ ॥ श्रीगुरुरुवाच । महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः । चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् ॥ २ ॥ ब्रह्मोवाच । शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा । चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ॥ ३ ॥ घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी…

श्री महालक्ष्मी कवचम् २

|| श्री महालक्ष्मी कवचम् २ || शुकं प्रति ब्रह्मोवाच । महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् । सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥ १ ॥ ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् । दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥ २ ॥ पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् । चोरारिहं च जपतामखिलेप्सितदायकम् ॥ ३ ॥ सावधानमना भूत्वा शृणु त्वं शुक सत्तम । अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥ ४ ॥ धनधान्यमहाराज्यसर्वसौभाग्यकल्पकम् । सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥…

श्री पद्मा कवचम्

|| श्री पद्मा कवचम् || नारायण उवाच । शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम् । पद्मनाभेन यद्दत्तं ब्रह्मणे नाभिपद्मके ॥ १ ॥ सम्प्राप्य कवचं ब्रह्म तत्पद्मे ससृजे जगत् । पद्मालयाप्रसादेन सलक्ष्मीको बभूव सः ॥ २ ॥ पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः । पाद्मेन पद्मकल्पे च कवचं परमाद्भुतम् ॥ ३ ॥ दत्तं सनत्कुमाराय प्रियपुत्राय धीमते ।…

श्री लक्ष्मी द्वादशनाम स्तोत्रम्

|| श्री लक्ष्मी द्वादशनाम स्तोत्रम् || श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा । तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥ पञ्चमं विष्णुपत्नी च षष्ठं स्यात् वैष्णवी तथा । सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥ नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका । एकादशं तु लक्ष्मीः स्यात् द्वादशं श्रीहरिप्रिया ॥ ३ ॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः…

सङ्कटनाशन गणेश स्तोत्रम् (देव कृतम्)

|| सङ्कटनाशन गणेश स्तोत्रम् (देव कृतम्) || नमो नमस्ते परमार्थरूप नमो नमस्तेऽखिलकारणाय । नमो नमस्तेऽखिलकारकाय सर्वेन्द्रियाणामधिवासिनेऽपि ॥ १ ॥ नमो नमो भूतमयाय तेऽस्तु नमो नमो भूतकृते सुरेश । नमो नमः सर्वधियां प्रबोध नमो नमो विश्वलयोद्भवाय ॥ २ ॥ नमो नमो विश्वभृतेऽखिलेश नमो नमः कारण कारणाय । नमो नमो वेदविदामदृश्य नमो नमः सर्ववरप्रदाय ॥ ३ ॥…

श्री ढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम्

|| श्री ढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम् || उमाङ्गोद्भवं दन्तिवक्त्रं गणेशं भुजाकङ्कणैः शोभिनं धूम्रकेतुम् । गले हारमुक्तावलीशोभितं तं नमो ज्ञानरूपं गणेशं नमस्ते ॥ १ ॥ गणेशं वदेत्तं स्मरेत् सर्वकार्ये स्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् । मनश्चिन्तितं कार्यमेवेषु सिद्ध्ये- -न्नमो बुद्धिकान्तं गणेशं नमस्ते ॥ २ ॥ महासुन्दरं वक्त्रचिह्नं विराटं चतुर्धाभुजं चैकदन्तैकवर्णम् । इदं देवरूपं गणं सिद्धिनाथं नमो भालचन्द्रं…

पुष्टिपति स्तोत्रम् (देवर्षि कृतम्)

|| पुष्टिपति स्तोत्रम् (देवर्षि कृतम्) || देवर्षय ऊचुः । जय देव गणाधीश जय विघ्नहराव्यय । जय पुष्टिपते ढुण्ढे जय सर्वेश सत्तम ॥ १ ॥ जयानन्त गुणाधार जय सिद्धिप्रद प्रभो । जय योगेन योगात्मन् जय शान्तिप्रदायक ॥ २ ॥ जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर । जय स्वानन्दपस्थायिन् जय वेदविदांवर ॥ ३ ॥ जय वेदान्तवादज्ञ जय वेदान्तकारण…

श्री गणेश वज्रपञ्जर स्तोत्रम्

|| श्री गणेश वज्रपञ्जर स्तोत्रम् || ध्यानम् । त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचन्द्रम् । नराकारदेहं सदा योगशान्तं गणेशं भजे सर्ववन्द्यं परेशम् ॥ १ ॥ बिन्दुरूपो वक्रतुण्डो रक्षतु मे हृदि स्थितः । देहांश्चतुर्विधांस्तत्त्वांस्तत्त्वाधारः सनातनः ॥ २ ॥ देहमोहयुतं ह्येकदन्तः सोऽहं स्वरूपधृक् । देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ ३ ॥ महोदरस्तथा देवो नानाबोधान् प्रतापवान् । सदा…

श्री वरदगणेश अष्टोत्तरशतनाम स्तोत्रम्

|| श्री वरदगणेश अष्टोत्तरशतनाम स्तोत्रम् || गणेशो विघ्नराजश्च विघ्नहर्ता गणाधिपः । लम्बोदरो वक्रतुण्डो विकटो गणनायकः ॥ १ ॥ गजास्यः सिद्धिदाता च खर्वो मूषकवाहनः । मूषको गणराजश्च शैलजानन्ददायकः ॥ २ ॥ गुहाग्रजो महातेजाः कुब्जो भक्तप्रियः प्रभुः । सिन्दूराभो गणाध्यक्षस्त्रिनेत्रो धनदायकः ॥ ३ ॥ वामनः शूर्पकर्णश्च धूम्रः शङ्करनन्दनः । सर्वार्तिनाशको विज्ञः कपिलो मोदकप्रियः ॥ ४ ॥ सङ्कष्टनाशनो…

श्री गणेश मूलमन्त्रपदमाला स्तोत्रम्

|| श्री गणेश मूलमन्त्रपदमाला स्तोत्रम् || ओमित्येतदजस्य कण्ठविवरं भित्वा बहिर्निर्गतं चोमित्येव समस्तकर्म ऋषिभिः प्रारभ्यते मानुषैः । ओमित्येव सदा जपन्ति यतयः स्वात्मैकनिष्ठाः परं चों‍काराकृतिवक्त्रमिन्दुनिटिलं विघ्नेश्वरं भवाये ॥ १ ॥ श्रीं बीजं श्रमदुःखजन्ममरणव्याध्याधिभीनाशकं मृत्युक्रोधनशान्तिबिन्दुविलसद्वर्णाकृति श्रीप्रदम् । स्वान्तस्थात्मशरस्य लक्ष्यमजरस्वात्मावबोधप्रदं श्रीश्रीनायकसेवितेभवदनप्रेमास्पदं भावये ॥ २ ॥ ह्रीं बीजं हृदयत्रिकोणविलसन्मध्यासनस्थं सदा चाकाशानलवामलोचननिशानाथार्धवर्णात्मकम् । मायाकार्यजगत्प्रकाशकमुमारूपं स्वशक्तिप्रदं मायातीतपदप्रदं हृदि भजे लोकेश्वराराधितम् ॥ ३…

श्री गणेश नामाष्टकम्

|| श्री गणेश नामाष्टकम् || श्रीविष्णुरुवाच । गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् । लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥ १ ॥ नामाष्टार्थं च पुत्रस्य शृणु मातर्हरप्रिये । स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ॥ २ ॥ ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः । तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ ३ ॥ एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः । बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम्…

श्री लम्बोदर स्तोत्रम् (क्रोधासुर कृतम्)

|| श्री लम्बोदर स्तोत्रम् (क्रोधासुर कृतम्) || क्रोधासुर उवाच । लम्बोदर नमस्तुभ्यं शान्तियोगस्वरूपिणे । सर्वशान्तिप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १ ॥ असम्प्रज्ञातरूपेयं शुण्डा ते नात्र संशयः । सम्प्रज्ञातमयो देहो देहधारिन्नमो नमः ॥ २ ॥ स्वानन्दे योगिभिर्नित्यं दृष्टस्त्वं ब्रह्मनायकः । तेन स्वानन्दवासी त्वं नमः सम्योगधारिणे ॥ ३ ॥ समुत्पन्नं त्वदुदराज्जगन्नानाविधं प्रभो । ब्रह्म तद्वन्न सन्देहो…

श्री गणेश हृदयम्

|| श्री गणेश हृदयम् || शिव उवाच । गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् । साधकाय महाभागाः शीघ्रेण शान्तिदं परम् ॥ १ ॥ अस्य श्रीगणेशहृदयस्तोत्रमन्त्रस्य शम्भुरृषिः । नानाविधानि छन्दांसि । श्रीमत्स्वानन्देशो गणेशो देवता । गमिति बीजम् । ज्ञानात्मिका शक्तिः । नादः कीलकम् । श्रीगणपतिप्रीत्यर्थमभीष्टसिद्ध्यर्थं जपे विनियोगः । गां गीमिति न्यासः । ध्यानम् । सिन्दूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं…

सन्तान गणपति स्तोत्रम्

|| सन्तान गणपति स्तोत्रम् || नमोऽस्तु गणनाथाय सिद्धिबुद्धियुताय च । सर्वप्रदाय देवाय पुत्रवृद्धिप्रदाय च ॥ १ ॥ गुरूदराय गुरवे गोप्त्रे गुह्यासिताय ते । गोप्याय गोपिताशेषभुवनाय चिदात्मने ॥ २ ॥ विश्वमूलाय भव्याय विश्वसृष्टिकराय ते । नमो नमस्ते सत्याय सत्यपूर्णाय शुण्डिने ॥ ३ ॥ एकदन्ताय शुद्धाय सुमुखाय नमो नमः । प्रपन्नजनपालाय प्रणतार्तिविनाशिने ॥ ४ ॥ शरणं भव…