वरुण मंत्र

|| वरुण मंत्र || ॐ जल बिम्बाय विद्महे! नील पुरुषाय धीमहि! तन्नो वरुण: प्रचोदयात्॥ “ॐ अपां पतये वरुणाय नमः” नमोस्तु लोकेश्वर पाश पाने यादौ, गणैर्वन्दित पाद् पद्मम। पीठेऽत्रय देवेश गृहाण पूजां, पाहि त्वमस्यमान भगवन्नमस्ते।। ॐ धुवासु त्वासु क्षितिषु क्षियंतोव्य अस्मत्पाशं वरुणो मुमोचत् अवो वन्वाना अदिते रूपस्था द्यूयं पात स्वस्तिभि: सदा नः स्वः || ॐ वाम…

राम मंत्र

|| राम मंत्र || 1. शक्तिशाली राम मंत्र रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीताया: पतये नमः 2. धन-संपदा के लिए राम मंत्र ॐ क्लीं नमो भगवते रामचन्द्राय सकलजन वश्यकराय स्वाह: || 3. श्री राम गायत्री मंत्र ॐ दाशरथये विद्महे सीतावल्लभाय धीमहि, तन्नो राम प्रचोदयात्॥ 4. कोदण्ड राम मंत्र श्री राम जय राम कोदण्ड राम॥…

अन्नपूर्णा मंत्र

|| अन्नपूर्णा मंत्र || 1. कैलासाचलकन्दरालयकरी गौरी उमाशङ्करी कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी। मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी।। 2. योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी। सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी।। 3. दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी। श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी।। 4. नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी। काश्मीरागरुवासिताङ्गरुचिरे काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी।। 5. नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी…

गरुड़ मंत्र

|| गरुड़ मंत्र || 1. गरीबी दूर करने का मंत्र ॐ जूं स: 2. संजीवनी मंत्र यक्षि ओम उं स्वाहा 3. ॐ पक्षिराजाय विद्महे पक्षिदेवाय धीमहि तन्नो पक्षिः प्रचोदयात् || 4 गरुड़ गायत्री मंत्र ॐ तत्पुरूषाय विद्महे, सुवर्णपक्षाय धीमहि, तन्नो गरुड: प्रचोदयात् || 5. विष्णुरेकादशी गंगा तुलसीविप्रधेवनः। असारे दुर्गसंसारे षट्पदी मुक्तिदायिनी।।

नवग्रह मंत्र

|| नवग्रह मंत्र || 1. सूर्य मंत्र: बीज मंत्र: ॐ ह्रीं ह्रौं सूर्याय नमः। आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च॥ हिरण्येन सविता रक्षेन देवो यति भुवनानि पश्यन्। सूर्यमावाहयामि, स्थापयामि, पूजयामि, नमस्करोमि॥ 2. चन्द्र मंत्र: बीज मंत्र: ॐ ऐं क्लीं सोमाय नमः। इमं देवा असपत्न ग्वं सुवध्वं महते क्षत्राय , महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रिस्येन्द्रियाय। इममममुष्य…

64 योगिनी मंत्र

64 Yogini Mantra

64 Yogini Mantra 64 योगिनियों के मंत्र के लिये मंत्र सिद्ध माला यंत्र लेकर कोई भी मंत्र साधना अपने गुरु के मार्गदर्शन में करें मंत्र इस प्रकार हैं। 1- ॐ ऐं ह्रीं श्रीं श्री काली नित्य सिद्धमाता स्वाहा। 2- ॐ ऐं ह्रीं श्रीं श्री कपलिनी नागलक्ष्मी स्वाहा। 3- ॐ ऐं ह्रीं श्रीं श्री कुला देवी…

उच्छिष्ट गणेश कवचम्

|| उच्छिष्ट गणेश कवचम् || अथ श्रीउच्छिष्टगणेशकवचं प्रारम्भः देव्युवाच ॥ देवदेव जगन्नाथ सृष्टिस्थितिलयात्मक । विना ध्यानं विना मन्त्रं विना होमं विना जपम् ॥ १॥ येन स्मरणमात्रेण लभ्यते चाशु चिन्तितम् । तदेव श्रोतुमिच्छामि कथयस्व जगत्प्रभो ॥ २॥ ईश्वर उवाच ॥ श्रुणु देवी प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । उच्छिष्टगणनाथस्य कवचं सर्वसिद्धिदम् ॥ ३॥ अल्पायासैर्विना कष्टैर्जपमात्रेण सिद्धिदम् । एकान्ते…

शिवकृता गणेश स्तुति

॥ गणेश स्तुति ॥ शिव उवाच । नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥ लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे । त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥ नैर्गुण्येन च वै साक्षाद्ब्रह्मरूपधराय च । नमो नमो बन्धहन्त्रे भक्तानां पालकाय ते ॥ अभक्तेभ्यस्तमोदाय नानाभयकराय च । हेरम्बाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥ अनन्ताननरूपायानन्तबाह्वङ्घ्रिकाय ते । अनन्तकरकर्णायानन्तोदरधराय ते ॥ नमो नमस्ते…

श्री महागणेश पंचरत्न स्तोत्र

॥श्री महागणेश पंचरत्न स्तोत्र ॥ सरागलोकदुर्लभं विरागिलोकपूजितं, सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः, नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं, करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् । सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं, शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥ शुकादिमौनिवन्दितं गकारवाच्यमक्षरं, प्रकाममिष्टदायिनं सकामनम्रपंक्तये । चकासतं चतुर्भुजैः विकासपद्म पूजितं, प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ नराधिपत्वदायकं स्वरादिलोकदायकं, ज्वरादिरोगवारकं निराकृतासुरव्रजम् । करांबुजोल्लसत्सृणिं विकारशून्यमानसैः, हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥ श्रमापनोदनक्षमं समाहितान्तरात्मनां,…

मां सरस्वती मंत्र

|| मां सरस्वती मंत्र || 1. सरस्वती मूल मंत्र: ॐ श्रीं ह्रीं सरस्वत्यै नमः ॥ 2. विद्या-दायिनी सरस्वती मंत्र: सरस्वती नमस्तुभ्यं, वरदे कामरूपिणी। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा॥ 3. सरस्वती वंदना मंत्र या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता, या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा पूजिता, सा मां पातु सरस्वति भगवती निःशेषजाड्यापहा ॥

गोवर्धन मंत्र

|| गोवर्धन मंत्र || गोवर्धन धराधार गोकुल त्राणकारक। विष्णुबाहु कृतोच्छ्राय गवां कोटिप्रभो भव।।” श्री कृष्ण का शक्तिशाली मंत्र “श्री कृष्णाय वयं नुम: सच्चिदानंदरूपाय विश्वोत्पत्यादिहेतवे। तापत्रयविनाशाय श्रीकृष्णाय वयं नुम:।। ॐ देविकानन्दनाय विधमहे वासुदेवाय धीमहि तन्नो कृष्ण:प्रचोदयात”

भारवेरर्थगौरवम्

भारवेरर्थगौरवम्

|| भारवेरर्थगौरवम् || संस्कृतवाङ्मये प्रथितमहाकवीनां वैशिष्ट्यमभिलक्ष्य पद्यमेतद् गीयते – उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।। महाकविभारवेः प्रसिद्धिरर्थगौरवाय वर्तते । किं नाम अर्थगौरवम् ? कथं च एतदुपकरोति महाकाव्यम् ? कथं च गुणेन एतेन अद्भुतं यशो भारवे: ? इत्येतदत्र विवेच्यते । अर्थगौरवं नाम भावगाम्भीर्यं सद्भावभूषित्वं च, सुदीर्घमपि पन्थानं स्वल्पेनैव प्रयासेन परिणमति ।…

Agastya Samhita (अगस्त्य संहिता)

Agastya Sanhita (अगस्त्य संहिता)

अगस्त्य संहिता एक प्राचीन हिंदू ग्रंथ है जो ऋषि अगस्त्य द्वारा रचित मानी जाती है। यह संहिता वेद, पुराण और अन्य धार्मिक ग्रंथों में महत्वपूर्ण स्थान रखती है। अगस्त्य संहिता में विभिन्न विषयों का वर्णन किया गया है, जिसमें ज्योतिष, आयुर्वेद, धार्मिक विधि-विधान, और योग का समावेश है। महर्षि अगस्त्य एक प्रमुख वैदिक ऋषि थे।…

श्री कामकलाकाली कवचम् (त्रैलोक्यमोहनम्)

|| श्री कामकलाकाली कवचम् (त्रैलोक्यमोहनम्) || अस्य श्री त्रैलोक्यमोहन रहस्य कवचस्य त्रिपुरारिः ऋषिः विराट् छन्दः भगवती कामकलाकाली देवता फ्रें बीजं योगिनी शक्तिः कामार्णं कीलकं डाकिनि तत्त्वं श्रीकामकलाकाली प्रीत्यर्थं पुरुषार्थचतुष्टये विनियोगः ॥ ओं ऐं श्रीं क्लीं शिरः पातु फ्रें ह्रीं छ्रीं मदनातुरा । स्त्रीं ह्रूं क्षौं ह्रीं लं ललाटं पातु ख्फ्रें क्रौं करालिनी ॥ १ ।…

भूपाली आरती

|| भूपाली आरती || उठा उठा सकल जन वाचे स्मरावा गजानन गौरीहराचा नन्दन गजवदन गणपती ॥ उठा उठा ॥ ध्यानि आणुनी सुखमूर्ती, स्तवन करा एके चित्ती तो देईल ज्ञानमूर्ती मोक्ष सुख सोज्वल ॥ उठा उठा ॥ जो निजभक्ताञ्चा दाता, वन्द्य सुरवरां समस्ता त्यासी गाता भवभय चिन्ता, विघ्नवार्ता निवारी ॥ उठा उठा ॥ तो हा सुखाचा…

श्री सायि सहस्रनाम स्तोत्रम्

|| श्री सायि सहस्रनाम स्तोत्रम् || ध्यानम् – ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं सायीनाथं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ [भावातीतं] स्तोत्रम् – अखण्डसच्चिदानन्दश्चाऽखिलजीववत्सलः । अखिलवस्तुविस्तारश्चाऽक्बराज्ञाभिवन्दितः ॥ १ ॥ अखिलचेतनाऽऽविष्टश्चाऽखिलवेदसम्प्रदः । अखिलाण्डेशरूपोऽपि पिण्डे पिण्डे प्रतिष्ठितः ॥ २ ॥ अग्रणीरग्र्यभूमा च अगणितगुणस्तथा । अघौघसन्निवर्ती च अचिन्त्यमहिमाऽचलः ॥ ३ ॥ अच्युतश्च…

श्री सायिनाथ दशनाम स्तोत्रम्

|| श्री सायिनाथ दशनाम स्तोत्रम् || प्रथमं सायिनाथाय द्वितीयं द्वारकमायिने । तृतीयं तीर्थराजाय चतुर्थं भक्तवत्सले ॥ १ ॥ पञ्चमं परमात्माय षष्टं च षिर्डिवासिने । सप्तमं सद्गुरुनाथाय अष्टमं अनाथनाथने ॥ २ ॥ नवमं निराडम्बराय दशमं दत्तावतारये । एतानि दश नामानि त्रिसन्ध्यं यः पठेन्नरः । सर्वकष्टभयान्मुक्तो सायिनाथ गुरु कृपाः ॥ ३ ॥ इति श्री सायिनाथ दशनाम स्तोत्रम्…

श्री सायिनाथ करावलम्ब स्तोत्रम्

|| श्री सायिनाथ करावलम्ब स्तोत्रम् || श्रीसायिनाथ षिरिडीश भवाब्धिचन्द्रा गोदावरीतीर्थपुनीतनिवासयोग्या । योगीन्द्र ज्ञानघन दिव्ययतीन्द्र ईशा श्रीसायिनाथ मम देहि करावलम्बम् ॥ १ दत्तावतार त्रिगुणात्म त्रिलोक्यपूज्या अद्वैतद्वैत सगुणात्मक निर्गुणात्मा । साकाररूप सकलागमसन्नुताङ्गा श्रीसायिनाथ मम देहि करावलम्बम् ॥ २ नवरत्नमकुटधर श्रीसार्वभौमा मणिरत्नदिव्यसिंहासनारूढमूर्ते । दिव्यवस्त्रालङ्कृत गन्धतिलकमूर्ते श्रीसायिनाथ मम देहि करावलम्बम् ॥ ३ सौगन्धपुष्पमालाङ्कृत मोदभरिता अविरल पदाञ्जली घटित सुप्रीत ईशा…

श्री सायिनाथ पञ्चरत्न स्तोत्रम्

|| श्री सायिनाथ पञ्चरत्न स्तोत्रम् || प्रत्यक्षदैवं प्रतिबन्धनाशनं सत्यस्वरूपं सकलार्तिनाशनम् । सौख्यप्रदं शान्तमनोज्ञरूपं सायिनाथं सद्गुरुं चरणं नमामि ॥ १ ॥ भक्तावनं भक्तिमतां सुभाजनं मुक्तिप्रदं भक्तमनोहरम् । विभुं ज्ञानसुशीलरूपिणं सायिनाथं सद्गुरुं चरणं नमामि ॥ २ ॥ कारुण्यमूर्तिं करुणायताक्षं करारिमभ्यर्थित दासवर्गम् । कामादि षड्वर्गजितं वरेण्यं सायिनाथं सद्गुरुं चरणं नमामि ॥ ३ ॥ वेदान्तवेद्यं विमलान्तरङ्गं ध्यानाधिरूढं वरसेव्यसद्गुरुम् ।…

श्री राधाकृष्ण स्तोत्रम् (गन्धर्व कृतम्)

|| श्री राधाकृष्ण स्तोत्रम् (गन्धर्व कृतम्) || वन्दे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥ राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् । राधासेवितपादाब्जं राधावक्षःस्थलस्थितम् ॥ २ ॥ राधानुगं राधिकेष्टं राधापहृतमानसम् । राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३ ॥ राधाहृत्पद्ममध्ये च वसन्तं सततं शुभम् । राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥ ४ ॥ ध्यायन्ते योगिनो योगान्…

श्री राधा स्तोत्रम् (उद्धव कृतम्)

|| श्री राधा स्तोत्रम् (उद्धव कृतम्) || वन्दे राधापदाम्भोजं ब्रह्मादिसुरविन्दतम् । यत्कीर्तिः कीर्तनेनैव पुनाति भुवनत्रयम् ॥ १ ॥ नमो गोकुलवासिन्यै राधिकायै नमो नमः । शतशृङ्गनिवासिन्यै चन्द्रावत्यै नमो नमः ॥ २ ॥ तुलसीवनवासिन्य वृन्दारण्यै नमो नमः । रासमण्डलवासिन्यै रासेश्वर्यै नमो नमः ॥ ३ ॥ विरजातीरवासिन्यै वृन्दायै च नमो नमः । वृन्दावनविलासिन्यै कृष्णायै च नमो नमः ॥…

दकारादि श्री दुर्गा सहस्रनाम स्तोत्रम्

|| दकारादि श्री दुर्गा सहस्रनाम स्तोत्रम् || श्री देव्युवाच । मम नाम सहस्रं च शिवपूर्वविनिर्मितम् । तत्पठ्यतां विधानेन तथा सर्वं भविष्यति ॥ १ ॥ इत्युक्त्वा पार्वती देवि श्रावयामास तच्च तान् । तदेव नामसाहस्रं दकारादि वरानने ॥ २ ॥ रोगदारिद्र्यदौर्भाग्यशोकदुःखविनाशकम् । सर्वासां पूजितं नाम श्रीदुर्गा देवता मता ॥ ३ ॥ निजबीजं भवेद्बीजं मन्त्रं कीलकमुच्यते । सर्वाशापूरणे…

वंशवृद्धिकरं (वंशाख्यं) दुर्गा कवचम्

|| वंशवृद्धिकरं (वंशाख्यं) दुर्गा कवचम् || (धन्यवादः – श्री पी.आर्.रामचन्दर् महोदय) शनैश्चर उवाच । भगवन् देवदेवेश कृपया त्वं जगत्प्रभो । वंशाख्यं कवचं ब्रूहि मह्यं शिष्याय तेऽनघ । यस्य प्रभावाद्देवेश वंशो वृद्धिर्हि जायते । सूर्य उवाच । शृणु पुत्र प्रवक्ष्यामि वंशाख्यं कवचं शुभम् । सन्तानवृद्धिर्यत्पाठाद्गर्भरक्षा सदा नृणाम् ॥ वन्ध्याऽपि लभते पुत्रं काकवन्ध्या सुतैर्युता । मृतवत्सा सपुत्रास्यात्…

तन्त्रोक्त रात्रि सूक्तम्

|| तन्त्रोक्त रात्रि सूक्तम् || विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् । निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १ ॥ ब्रह्मोवाच । त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका । सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ २ ॥ अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः । त्वमेव सन्ध्या सावित्री त्वं देवी जननी परा ॥ ३ ॥ त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते…

श्री नीलसरस्वती स्तोत्रम्

|| श्री नीलसरस्वती स्तोत्रम् || घोररूपे महारावे सर्वशत्रुभयङ्करि । भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १ ॥ सुराऽसुरार्चिते देवि सिद्धगन्धर्वसेविते । जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥ २ ॥ जटाजूटसमायुक्ते लोलजिह्वान्तकारिणी । द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ॥ ३ ॥ सौम्यक्रोधधरे रूपे चण्डरूपे नमोऽस्तु ते । सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ४ ॥…

श्री कूर्म स्तोत्रम्

|| श्री कूर्म स्तोत्रम् || नमाम ते देव पदारविन्दं प्रपन्न तापोपशमातपत्रम् । यन्मूलकेता यतयोऽम्जसोरु संसारदुःखं बहिरुत्क्षिपन्ति ॥ १ ॥ धातर्यदस्मिन्भव ईश जीवा- -स्तापत्रयेणोपहता न शर्म । आत्मन् लभन्ते भगवंस्तवाङ्घ्रि- -च्छायां स विद्यामत आश्रयेम ॥ २ ॥ मार्गन्ति यत्ते मुखपद्मनीडै- -श्छन्दस्सुपर्णैरृषयो विविक्ते । यस्याघमर्षोदसरिद्वरायाः पदं पदं तीर्थपदः प्रपन्नाः ॥ ३ ॥ यच्छ्रद्धया श्रुतवत्या च भक्त्या संमृज्यमाने…

श्री मत्स्य स्तोत्रम्

|| श्री मत्स्य स्तोत्रम् || नूनं त्वं भगवान् साक्षाद्धरिर्नारायणोऽव्ययः । अनुग्रहायभूतानां धत्से रूपं जलौकसाम् ॥ १ ॥ नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्यप्ययेश्वर । भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २ ॥ सर्वे लीलावतारास्ते भूतानां भूतिहेतवः । ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ ३ ॥ न तेऽरविन्दाक्षपदोपसर्पणं मृषा भावेत्सर्व सुहृत्प्रियात्मनः । यथेतरेषां पृथगात्मनां सतां -मदीदृशो यद्वपुरद्भुतं हि नः…

अक्रूर कृत दशावतार स्तुतिः

|| अक्रूर कृत दशावतार स्तुतिः || नमः कारणमत्स्याय प्रलयाब्धिचराय च । हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १ ॥ अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्युद्धारविहाराय नमः शूकरमूर्तये ॥ २ ॥ नमस्तेऽद्भुतसिंहाय साधुलोकभयापह । वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ ३ ॥ नमो भृगूणां पतये दृप्तक्षत्रवनच्छिदे । नमस्ते रघुवर्याय रावाणान्तकराय च ॥ ४ ॥ नमस्ते वासुदेवाय नमः सङ्कर्षणाय च…

श्री बाला मन्त्रगर्भाष्टकम्

|| श्री बाला मन्त्रगर्भाष्टकम् || ऐं‍काररूपिणीं सत्यां ऐं‍काराक्षरमालिनीम् । ऐं‍बीजरूपिणीं देवीं बालादेवीं नमाम्यहम् ॥ १ ॥ वाग्भवां वारुणीपीतां वाचासिद्धिप्रदां शिवाम् । बलिप्रियां वरालाढ्यां वन्दे बालां शुभप्रदाम् ॥ २ ॥ लाक्षारसनिभां त्र्यक्षां ललज्जिह्वां भवप्रियाम् । लम्बकेशीं लोकधात्रीं बालां द्रव्यप्रदां भजे ॥ ३ ॥ यैकारस्थां यज्ञरूपां यूं रूपां मन्त्ररूपिणीम् । युधिष्ठिरां महाबालां नमामि परमार्थदाम् ॥ ४ ॥…

श्री बालात्रिपुरसुन्दरी त्र्यक्षरी मन्त्रः

|| श्री बालात्रिपुरसुन्दरी त्र्यक्षरी मन्त्रः || (शापोद्धारः – ओं ऐं ऐं सौः, क्लीं क्लीं ऐं, सौः सौः क्लीम् । इति शतवारं जपेत् ।) अस्य श्रीबालात्रिपुरसुन्दरी महामन्त्रस्य दक्षिणामूर्तिः ऋषिः (शिरसि), पङ्क्तिश्छन्दः (मुखे) श्रीबालात्रिपुरसुन्दरी देवता (हृदि), ऐं बीजं (गुह्ये), सौः शक्तिः (पादयोः), क्लीं कीलकं (नाभौ), श्रीबालात्रिपुरसुन्दरी प्रीत्यर्थे जपे विनियोगः । करन्यासः – ऐं अङ्गुष्ठाभ्यां नमः । क्लीं…

श्री बाला खड्गमाला स्तोत्रम्

|| श्री बाला खड्गमाला स्तोत्रम् || ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः नमः बालात्रिपुरसुन्दर्यै हृदयदेवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेवि अस्त्रदेवि । दिव्यौघाख्यगुरुरूपिणि प्रकाशानन्दमयि परमेशानन्दमयि परशिवानन्दमयि कामेश्वरानन्दमयि मोक्षानन्दमयि कामानन्दमयि अमृतानन्दमयि । सिद्धौघाख्यगुरुरूपिणि ईशानमयि तत्पुरुषमयि अघोरमयि वामदेवमयि सद्योजातमयि । मानवौघाख्यगुरुरूपिणि गगनानन्दमयि विश्वानन्दमयि विमलानन्दमयि मदनानन्दमयि आत्मानन्दमयि प्रियानन्दमयि । गुरुचतुष्टयरूपिणि गुरुमयि परमगुरुमयि परात्परगुरुमयि परमेष्ठिगुरुमयि । सर्वज्ञे नित्यतृप्ते अनादिबोधे…

श्री राम स्तुति – नमामि भक्त वत्सलं

॥ श्री राम स्तुति – नमामि भक्त वत्सलं ॥ नमामि भक्त वत्सलं । कृपालु शील कोमलं ॥ भजामि ते पदांबुजं । अकामिनां स्वधामदं ॥ निकाम श्याम सुंदरं । भवाम्बुनाथ मंदरं ॥ प्रफुल्ल कंज लोचनं । मदादि दोष मोचनं ॥ प्रलंब बाहु विक्रमं । प्रभोऽप्रमेय वैभवं ॥ निषंग चाप सायकं । धरं त्रिलोक नायकं ॥ दिनेश…

श्री राम कवच

॥ श्री राम कवचम् ॥ ॥ अगस्तिरुवाच ॥ आजानुबाहुमरविन्ददळायताक्षाजन्म शुद्धरस हास मुखप्रसादम् । श्यामं गृहीत शरचाप मुदाररूपम् । रामं सराम मभिराम मनुस्मरामि ॥ १॥ श्रुणु वक्ष्याम्यहं सर्वं सुत्तिक्ष्ण मुनिसत्तम । श्रीरामकवचं पुण्यं सर्वकाम प्रदायकम् ॥ २॥ अद्वैतानन्द चैतन्य शुद्ध सत्वैक लक्षणः । बहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥ ३॥ तत्व विद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि । इति…

श्री बाला कवचम् – ३ (दुःस्वप्ननाशकम्)

|| श्री बाला कवचम् – ३ (दुःस्वप्ननाशकम्) || बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां भजे ॥ १ ॥ पूर्वस्यां भैरवी पातु बाला मां पातु दक्षिणे । मालिनी पश्चिमे पातु वासिनी चोत्तरेऽवतु ॥ २ ॥ ऊर्ध्वं पातु महादेवी श्रीबाला त्रिपुरेश्वरी । अधस्तात्पातु देवेशी पातालतलवासिनी ॥ ३ ॥ आधारे वाग्भवः पातु कामराजस्तथा हृदि । महाविद्या भगवती पातु…

श्री बाला कवचम् – २ (रुद्रयामले)

|| श्री बाला कवचम् – २ (रुद्रयामले) || श्रीपार्वत्युवाच । देवदेव महादेव शङ्कर प्राणवल्लभ । कवचं श्रोतुमिच्छामि बालाया वद मे प्रभो ॥ १ ॥ श्रीमहेश्वर उवाच । श्रीबालाकवचं देवि महाप्राणाधिकं परम् । वक्ष्यामि सावधाना त्वं शृणुष्वावहिता प्रिये ॥ २ ॥ अथ ध्यानम् । अरुणकिरणजालैः रञ्जिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरकरवराढ्या फुल्लकह्लारसंस्था निवसतु हृदि बाला नित्यकल्याणशीला ॥…

श्री बाला कवचम् 1

|| श्री बाला कवचम् 1 || वन्दे सिन्दूरवदनां तरुणारुणसन्निभाम् । अक्षस्रक्पुस्तकाभीतिवरदानलसत्कराम् ॥ फुल्लपङ्कजमध्यस्थां मन्दस्मितमनोहराम् । दशभिर्वयसा हारियौवनाचार रञ्जिताम् । काश्मीरकर्दमालिप्ततनुच्छाया विराजिताम् ॥ वाग्भवः पातु शिरसि कामराजस्तथा हृदि । शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥ १ ॥ ब्रह्माणी पातु मां पूर्वे दक्षिणे पातु वैष्णवी । पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ॥ २ ॥…

श्री बाला कर्पूर स्तोत्रम्

|| श्री बाला कर्पूर स्तोत्रम् || कर्पूराभेन्दुगौरां शशिशकलधरां रक्तपद्मासनस्थां विद्यापात्राक्षमुद्राधृतकरकमलां त्वां स्मरन् सन् त्रिलक्षम् । जप्त्वा चन्द्रार्धभूषं सुरुचिरमधरं बीजमाद्यं तवेदं हुत्वा पश्चात्पलाशैः स भवति कविराड्देवि बाले महेशि ॥ १ ॥ हस्ताब्जैः पात्रपाशाङ्कुशकुसुमधनुर्बीजपूरान् दधानां रक्तां त्वां संस्मरन् सन् प्रजपति मनुजो यस्त्रिलक्षं भवानि । वामाक्षी चन्द्रसंस्थं क्षितिसहितविधिं कामबीजं तवेदं चन्द्रैर्हुत्वा दशांशं स नयति सकलान् वश्यतां सर्वदैव ॥…

दशविद्यामयी श्री बाला स्तोत्रम्

|| दशविद्यामयी श्री बाला स्तोत्रम् || श्रीकाली बगलामुखी च ललिता धूमावती भैरवी मातङ्गी भुवनेश्वरी च कमला श्रीर्वज्रवैरोचनी । तारा पूर्वमहापदेन कथिता विद्या स्वयं शम्भुना लीलारूपमयी च देशदशधा बाला तु मां पातु सा ॥ १ ॥ श्यामां श्यामघनावभासरुचिरां नीलालकालङ्कृतां बिम्बोष्ठीं बलिशत्रुवन्दितपदां बालार्ककोटिप्रभाम् । त्रासत्रासकृपाणमुण्डदधतीं भक्ताय दानोद्यतां वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं कालिकाम् ॥ २ ॥ ब्रह्मास्त्रां…

श्री कुबेर षोडशोपचार पूजा

|| श्री कुबेर षोडशोपचार पूजा || पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ मम सहकुटुम्बस्य मम च सर्वेषां क्षेम स्थैर्य धैर्य वीर्य विजय अभय आयुरारोग्य अष्टैश्वर्याभिवृद्ध्यर्थं पुत्रपौत्र अभिवृद्ध्यर्थं समस्त मङ्गलावाप्त्यर्थं धन कनक वस्तु वाहन धेनु काञ्चन सिद्ध्यर्थं मम मनश्चिन्तित सकल कार्य अनुकूलता सिद्ध्यर्थं सर्वाभीष्ट सिद्ध्यर्थं श्री सूक्त विधानेन श्री कुबेर षोडशोपचार पूजां…

श्री आञ्जनेय षोडशोपचार पूजा

|| श्री आञ्जनेय षोडशोपचार पूजा || पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सङ्कल्पित मनोवाञ्छाफल सिद्ध्यर्थं इष्टकाम्यार्थ सिद्ध्यर्थं श्रीमदाञ्जनेय स्वामि देवता प्रीत्यर्थं यथाशक्ति षोडशोपचार पूजां करिष्ये ॥ ध्यानम् – अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥ गोष्पदीकृतवारीशं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ ओं श्री हनुमते नमः ध्यायामि ।…

श्री अय्यप्पा षोडशोपचार पूजा १

|| श्री अय्यप्पा षोडशोपचार पूजा १ || पूर्वाङ्गं पश्यतु । श्री गणपति लघु पूजा पश्यतु । श्री सुब्रह्मण्य पूजा विधानं पश्यतु ॥ पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री पूर्णापुष्कलाम्बा समेत हरिहरपुत्र अय्यप्प स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं श्री अय्यप्प स्वामिनः प्रीत्यर्थं ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥ ध्यानम् – आश्यामकोमल विशालतनुं विचित्र-…

श्री अय्यप्प षोडशोपचार पूजा – १

|| श्री अय्यप्प षोडशोपचार पूजा – १ || पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री पूर्णा पुष्कलाम्बा समेत हरिहरपुत्र अय्यप्प स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं पुरुषसूक्त सहित रुद्रसूक्त विधानेन श्रीहरिहरपुत्र अय्यप्प स्वामिनः प्रीत्यर्थं ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥ प्राणप्रतिष्ठ – ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒…

श्री शङ्करभगवत्पाद षोडशोपचार पूजा

|| श्री शङ्करभगवत्पाद षोडशोपचार पूजा || पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ वैदिकमार्ग प्रतिष्ठापकानां जगद्गुरूणां श्रीशङ्करभगवत्पादपूजां करिष्ये । ध्यानम् – श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥ अस्मिन् बिम्बे श्रीशङ्करभगवत्पादं ध्यायामि । आवाहनम् – यमाश्रिता गिरां देवी नन्दयत्यात्मसंश्रितान् । तमाश्रये श्रिया जुष्टं शङ्करं करुणानिधिम् ॥ श्रीशङ्करभगवत्पादमावाहयामि । आसनम् – श्रीगुरुं भगवत्पादं शरण्यं…

श्री दत्तात्रेय षोडशोपचार पूजा

|| श्री दत्तात्रेय षोडशोपचार पूजा || पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सङ्कल्पित मनोवाञ्छाफल सिद्ध्यर्थं इष्टकाम्यार्थसिद्ध्यर्थं पुरुषसूक्त विधानेन श्री दत्तात्रेय स्वामि षोडशोपचार पूजां करिष्ये ॥ प्राणप्रतिष्ठा – ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒ मनु॑मते मृ॒डया᳚ नः स्व॒स्ति । अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑: प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥…

श्री वेङ्कटेश्वर षोडशोपचार पूजा

|| श्री वेङ्कटेश्वर षोडशोपचार पूजा || पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री वेङ्कटेश्वर स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं श्री वेङ्कटेश्वर स्वामिनः प्रीत्यर्थं पुरुष सूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥ प्राणप्रतिष्ठा – ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒ मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥ अ॒मृतं॒ वै…

श्री विष्वक्सेन लघु षोडशोपचार पूजा

|| श्री विष्वक्सेन लघु षोडशोपचार पूजा || प्राणप्रतिष्ठा – ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒ मनु॑मते मृ॒डया᳚ नः स्व॒स्ति । अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑: प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥ ओं भूः विष्वक्सेनमावाहयामि । ओं भुवः विष्वक्सेनमावाहयामि । ओग्ं सुवः विष्वक्सेनमावाहयामि । ओं भूर्भुवस्सुवः विष्वक्सेनमावाहयामि ॥ ध्यानम् – विष्वक्सेनं सकलविबुधप्रौढसैन्याधिनाथं मुद्राचक्रे करयुगधरे…

श्री राम षोडशोपचार पूजा

|| श्री राम षोडशोपचार पूजा || पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सङ्कल्पित मनोवाञ्छाफल सिद्ध्यर्थं इष्टकाम्यार्थसिद्ध्यर्थं पुरुषसूक्त विधानेन श्री रामचन्द्र स्वामि षोडशोपचार पूजां करिष्ये ॥ प्राणप्रतिष्ठा – ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒ मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥ अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑: प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥…

श्री लक्ष्मीनृसिंह षोडशोपचार पूजा

|| श्री लक्ष्मीनृसिंह षोडशोपचार पूजा || पुनः सङ्कल्पम् – पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री लक्ष्मी समेत नृसिंह स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं श्री लक्ष्मीनृसिंह स्वामिनः प्रीत्यर्थं पुरुष सूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये । प्राणप्रतिष्ठ – ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒ मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥…

Join WhatsApp Channel Download App