नारायणाष्टाक्षरी स्तुति
|| नारायणाष्टाक्षरी स्तुति || ओं नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर व्यक्ताव्यक्त कलातीत ओङ्काराय नमो नमः ॥ १ ॥ नमो देवादिदेवाय देहसञ्चारहेतवे दैत्यसङ्घविनाशाय नकाराय नमो नमः ॥ २ ॥ मोहनं विश्वरूपं च शिष्टाचारसुपोषितम् मोहविध्वंसकं वन्दे मोकाराय नमो नमः ॥ ३ ॥ नारायणाय नव्याय नरसिंहाय नामिने नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ ४ ॥ रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम्…