Download HinduNidhi App
Misc

श्री मंगल कवचम्

Mangal Kavacham Sanskrit

MiscKavach (कवच संग्रह)संस्कृत
Share This

॥ श्री मङ्गल कवचम् ॥

॥ ॐ गण गणपतये नमः ॥

अस्य श्रीअङ्गारककवचस्तोत्रमन्त्रस्य कश्यप ऋषिः,
अनुष्टुप् छन्दः, अङ्गारको देवता, भौमप्रीत्यर्थं जपे विनियोगः ।

रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् ।
धरासुत शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्त॥

अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः ।
श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः ।
भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥

वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः ।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥

जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा ।
सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥

य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् ।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥

सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् ।
रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ॥

॥ इति श्री मङ्गल कवचं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री मंगल कवचम् PDF

Download श्री मंगल कवचम् PDF

श्री मंगल कवचम् PDF

Leave a Comment