Misc

श्रीरामकृष्णसङ्घस्तोत्रम्

Ramakrrishnasanghastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीरामकृष्णसङ्घस्तोत्रम् ||

सर्वधर्मस्थापकस्त्वं सर्वधर्मस्वरूपकः ।
आचार्याणां महाचार्यो रामकृष्णाय ते नमः ॥ १॥

यथाग्नेर्दाहिका शक्ती रामकृष्णे स्थिता हि या ।
सर्वविद्या स्वरूपां तां शारदां प्रणमाम्यहम् ॥ २॥

परतत्त्वे सदा लीनो रामकृष्ण समाज्ञया ।
यो धर्मस्थापनपरो वीरेशं तं नमाम्यहम् ॥ ३॥

कालिन्दीफुल्लकमले माधवेन क्रीड़ारतः ।
ब्रह्मानन्द ! नमस्तुभ्यं सद्गुरो लोकनायक ॥ ४॥

योगानन्दः प्रेमानन्दश्चान्ये वै ये च पार्षदाः ।
रामकृष्णगत प्राणाः सर्वान्स्तान् प्रणमाम्यहम् ॥ ५॥

इति स्वामिशारदानन्दविरचितं “श्रीश्रीरामकृष्णसङ्घस्तोत्रम्”
अथवा सपार्षद श्रीरामकृष्णस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीरामकृष्णसङ्घस्तोत्रम् PDF

श्रीरामकृष्णसङ्घस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App