Download HinduNidhi App
Misc

पितृ स्तोत्रम् – २ (रुचि कृतम्)

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| पितृ स्तोत्रम् – २ (रुचि कृतम्) ||

रुचिरुवाच ।
अर्चितानाममूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ १ ॥

इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।
सप्तर्षीणां तथान्येषां तान्नमस्यामि कामदान् ॥ २ ॥

मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा ।
तान्नमस्याम्यहं सर्वान् पितॄनप्युदधावपि ॥ ३ ॥

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ ४ ॥

देवर्षीणां जनितॄंश्च सर्वलोक नमस्कृतान् ।
अक्षय्यस्य सदा दातॄन् नमस्येहं कृताञ्जलिः ॥ ५ ॥

प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ ६ ॥

नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ ७ ॥

सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ ८ ॥

अग्निरूपांस्तथैवान्यान् नमस्यामि पितॄनहम् ।
अग्निसोममयं विश्वं यत एतदशेषतः ॥ ९ ॥

ये च तेजसि ये चैते सोमसूर्याग्निमूर्तयः ।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ १० ॥

तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।
नमो नमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः ॥ ११ ॥

इति श्री गरुडपुराणे ऊननवतितमोऽध्याये रुचिकृत द्वितीय पितृ स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download पितृ स्तोत्रम् - २ (रुचि कृतम्) PDF

पितृ स्तोत्रम् - २ (रुचि कृतम्) PDF

Leave a Comment