|| सिद्धि विनायक स्तोत्र ||
विघ्नेश विघ्नचयखण्डननामधेय
श्रीशङ्करात्मज सुराधिपवन्द्यपाद।
दुर्गामहाव्रतफलाखिलमङ्गलात्मन्
विघ्नं ममापहर सिद्धिविनायक त्वम्।
सत्पद्मरागमणिवर्णशरीरकान्तिः
श्रीसिद्धिबुद्धिपरिचर्चितकुङ्कुमश्रीः।
दक्षस्तने वलियितातिमनोज्ञशुण्डो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
पाशाङ्कुशाब्जपरशूंश्च दधच्चतुर्भि-
र्दोर्भिश्च शोणकुसुमस्रगुमाङ्गजातः।
सिन्दूरशोभितललाटविधुप्रकाशो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
कार्येषु विघ्नचयभीतविरिञ्चिमुख्यैः
संपूजितः सुरवरैरपि मोहकाद्यैः।
सर्वेषु च प्रथममेव सुरेषु पूज्यो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
शीघ्राञ्चनस्खलनतुङ्गरवोर्ध्वकण्ठ-
स्थूलेन्दुरुद्रगणहासितदेवसङ्घः।
शूर्पश्रुतिश्च पृथुवर्त्तुलतुङ्गतुन्दो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
यज्ञोपवीतपदलम्भितनागराजो
मासादिपुण्यददृशीकृत-ऋक्षराजः।
भक्ताभयप्रद दयालय विघ्नराज
विघ्नं ममापहर सिद्धिविनायक त्वम्।
सद्रत्नसारततिराजितसत्किरीटः
कौसुम्भचारुवसनद्वय ऊर्जितश्रीः।
सर्वत्र मङ्गलकरस्मरणप्रतापो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
देवान्तकाद्यसुरभीतसुरार्तिहर्ता
विज्ञानबोधनवरेण तमोऽपहर्ता।
आनन्दितत्रिभुवनेश कुमारबन्धो
विघ्नं ममापहर सिद्धिविनायक त्वम्।
- sanskritश्रीगणेशापराधक्षमापण स्तोत्रम्
- sanskritगणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम्
- sanskritश्रीगणेशावतारस्तोत्रम्
- sanskritश्रीगणेशापराधक्षमापणस्तोत्रम्
- sanskritसाधुकृतं श्रीगणेशस्तोत्रम्
- sanskritसदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीशिवकृतं श्रीगणेशस्तोत्रम्
- sanskritशिवदत्तकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीविष्णुकृतं गणेशस्तोत्रम्
- sanskritबाणासुरकृतं श्रीगणेशस्तोत्रम्
- sanskritश्रीगणेशस्तोत्रं प्रह्लादकृतम्
- sanskritपाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रम्
- sanskritधौम्यकृतं श्रीगणेशस्तोत्रम्
- sanskritजाजलिर्कृतं श्रीगणेशस्तोत्रम्
Found a Mistake or Error? Report it Now
