|| श्री सायि सहस्रनाम स्तोत्रम् ||
ध्यानम् –
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
सायीनाथं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ [भावातीतं]
स्तोत्रम् –
अखण्डसच्चिदानन्दश्चाऽखिलजीववत्सलः ।
अखिलवस्तुविस्तारश्चाऽक्बराज्ञाभिवन्दितः ॥ १ ॥
अखिलचेतनाऽऽविष्टश्चाऽखिलवेदसम्प्रदः ।
अखिलाण्डेशरूपोऽपि पिण्डे पिण्डे प्रतिष्ठितः ॥ २ ॥
अग्रणीरग्र्यभूमा च अगणितगुणस्तथा ।
अघौघसन्निवर्ती च अचिन्त्यमहिमाऽचलः ॥ ३ ॥
अच्युतश्च तथाजश्च अजातशत्रुरेव च ।
अज्ञानतिमिरान्धानां चक्षुरुन्मीलनक्षमः ॥ ४ ॥
आजन्मस्थितिनाशश्च अणिमादिविभूषितः ।
अत्युन्नतधुनीज्वालामाज्ञयैवनिवर्तकः ॥ ५ ॥
अत्युल्बणमहासर्पादपिभक्तसुरक्षिता ।
अतितीव्रतपस्तप्तश्चातिनम्रस्वभावकः ॥ ६ ॥
अन्नदानसदानिष्ठः अतिथिभुक्तशेषभुक् ।
अदृश्यलोकसञ्चारी अदृष्टपूर्वदर्शिता ॥ ७ ॥
अद्वैतवस्तुतत्त्वज्ञः अद्वैतानन्दवर्षकः ।
अद्भुतानन्तशक्तिश्च अधिष्ठानो ह्यधोक्षजः ॥ ८ ॥
अधर्मतरुच्छेता (च) अधियज्ञः स एव च ।
अधिभूतोऽधिदैवश्च तथाध्यक्ष इतीरितः ॥ ९ ॥
अनघोऽनन्तनामा च अनन्तगुणभूषणः ।
अनन्तमूर्त्यनन्तश्च अनन्तशक्तिसम्युतः ॥ १० ॥
अनन्ताश्चर्यवीर्यश्चाऽनह्लक अतिमानितः ।
अनवरतसमाधिस्थः अनाथपरिरक्षकः ॥ ११ ॥
अनन्यप्रेमसंहृष्टगुरुपादविलीनहृत् ।
अनाधृताष्टसिद्धिश्च अनामयपदप्रदः ॥ १२ ॥
अनादिमत्परब्रह्मा अनाहतदिवाकरः ।
अनिर्देश्यवपुश्चैष अनिमेषेक्षितप्रजः ॥ १३ ॥
अनुग्रहार्थमूर्तिश्च अनुवर्तितवेङ्कूशः ।
अनेकदिव्यमूर्तिश्च अनेकाद्भुतदर्शनः ॥ १४ ॥
अनेकजन्मजं पापं स्मृतिमात्रेण हारकः ।
अनेकजन्मवृत्तान्तं सविस्तारमुदीरयन् ॥ १५ ॥
अनेकजन्मसम्प्राप्तकर्मबन्धविदारणः ।
अनेकजन्मसंसिद्धशक्तिज्ञानस्वरूपवान् ॥ १६ ॥
अन्तर्बहिश्चसर्वत्रव्याप्ताखिलचराचरः ।
अन्तर्हृदय आकाशः अन्तकालेऽपि रक्षकः ॥ १७ ॥
अन्तर्याम्यन्तरात्मा हि अन्नवस्त्रेप्सितप्रदः ।
अपराजितशक्तिश्च अपरिग्रहभूषितः ॥ १८ ॥
अपवर्गप्रदाता च अपवर्गमयो हि सः ।
अपान्तरात्मरूपेण स्रष्टुरिष्टप्रवर्तकः ॥ १९ ॥
अपावृतकृपागारो अपारज्ञानशक्तिमान् ।
तथाऽपार्थिवदेहस्थः अपाम्पुष्पनिबोधकः ॥ २० ॥
अप्रपञ्चोऽप्रमत्तश्च अप्रमेयगुणाकारः ।
अप्राकृतवपुश्चैव अप्राकृतपराक्रमः ॥ २१ ॥
अप्रार्थितेष्टदाता वै अब्दुल्लादि परागतिः ।
अभयं सर्वभूतेभ्यो ददामीति व्रती च सः ॥ २२ ॥
अभिमानातिदूरश्च अभिषेकचमत्कृतिः ।
अभीष्टवरवर्षी च अभीक्ष्णदिव्यशक्तिभृत् ॥ २३ ॥
अभेदानन्दसन्धाता अमर्त्योऽमृतवाक्सृतिः ।
अरविन्ददलाक्षश्च तथाऽमितपराक्रमः ॥ २४ ॥
अरिषड्वर्गनाशी च अरिष्टघ्नोऽर्हसत्तमः ।
अलभ्यलाभसन्धाता अल्पदानसुतोषितः ॥ २५ ॥
अल्लानामसदावक्ता अलम्बुध्या स्वलङ्कृतः ।
अवतारितसर्वेशो अवधीरितवैभवः ॥ २६ ॥
अवलम्ब्यस्वपदाब्जः अवलियेतिविश्रुतः ।
अवधूताखिलोपाधि अविशिष्टः स एव हि ॥ २७ ॥
अवशिष्टस्वकार्यार्थे त्यक्तदेहं प्रविष्टवान् ।
अवाक्पाणिपादोरुः अवाङ्मानसगोचरः ॥ २८ ॥
अवाप्तसर्वकामोऽपि कर्मण्येव प्रतिष्टितः ।
अविच्छिन्नाग्निहोत्रश्च अविच्छिन्नसुखप्रदः ॥ २९ ॥
अवेक्षितदिगन्तस्थप्रजापालननिष्ठितः ।
अव्याजकरुणासिन्धुरव्याहतेष्टिदेशगः ॥ ३० ॥
अव्याहृतोपदेशश्च अव्याहतसुखप्रदः ।
अशक्यशक्यकर्ता च अशुभाशयशुद्धिकृत् ॥ ३१ ॥
अशेषभूतहृत्स्थाणुः अशोकमोहशृङ्खलः ।
अष्टैश्वर्ययुतत्यागी अष्टसिद्धिपराङ्मुखः ॥ ३२ ॥
असम्योगयुक्तात्मा असङ्गदृढशस्त्रभृत् ।
असङ्ख्येयावतारेषु ऋणानुबन्धिरक्षितः ॥ ३३ ॥
अहम्ब्रह्मस्थितप्रज्ञः अहम्भावविवर्जितः ।
अहं त्वञ्च त्वमेवाहमिति तत्त्वप्रबोधकः ॥ ३४ ॥
अहेतुककृपासिन्धुरहिंसानिरतस्तथा ।
अक्षीणसौहृदोऽक्षयः तथाऽक्षयसुखप्रदः ॥ ३५ ॥
अक्षरादपि कूटस्थादुत्तमपुरुषोत्तमः ।
आखुवाहनमूर्तिश्च आगमाद्यन्तसन्नुतः ॥ ३६ ॥
आगमातीतसद्भावः आचार्यपरमस्तथा ।
आत्मानुभवसन्तुष्टो आत्मविद्याविशारदः ॥ ३७ ॥
आत्मानन्दप्रकाशश्च आत्मैव परमात्मदृक् ।
आत्मैकसर्वभूतात्मा आत्मारामः स आत्मवान् ॥ ३८ ॥
आदित्यमध्यवर्ती च आदिमध्यान्तवर्जितः ।
आनन्दपरमानन्दः तथाऽऽनन्दप्रदो हि सः ॥ ३९ ॥
आनाकमादृताज्ञश्च आनतावननिवृतिः ।
आपदामपहर्ता च आपद्बान्धवः एव हि ॥ ४० ॥
आफ्रिकागतवैद्याय परमानन्ददायकः ।
आयुरारोग्यदाता च आर्तत्राणपरायणः ॥ ४१ ॥
आरोपणापवादैश्च मायायोगवियोगकृत् ।
आविष्कृत तिरोधत्त बहुरूपविडम्बनः ॥ ४२ ॥
आर्द्रचित्तेन भक्तानां सदानुग्रहवर्षकः ।
आशापाशविमुक्तश्च आशापाशविमोचकः ॥ ४३ ॥
इच्छाधीनजगत्सर्वः इच्छाधीनवपुस्तथा ।
इष्टेप्सितार्थदाता च इच्छामोहनिवर्तकः ॥ ४४ ॥
इच्छोत्थदुःखसञ्छेता इन्द्रियारातिदर्पहा ।
इन्दिरारमणाह्लादिनामसाहस्रपूतहृत् ॥ ४५ ॥
इन्दीवरदलज्योतिर्लोचनालङ्कृताननः ।
इन्दुशीतलभाषी च इन्दुवत्प्रियदर्शनः ॥ ४६ ॥
इष्टापूर्तशतैर्लब्धः इष्टदैवस्वरूपधृत् ।
इष्टिकादानसुप्रीतः इष्टिकालयरक्षितः ॥ ४७ ॥
ईशासक्तमनोबुद्धिः ईशाराधनतत्परः ।
ईशिताखिलदेवश्च ईशावास्यार्थसूचकः ॥ ४८ ॥
उच्चारणाधृते भक्तहृदान्त उपदेशकः ।
उत्तमोत्तममार्गी च उत्तमोत्तारकर्मकृत् ॥ ४९ ॥
उदासीनवदासीनः उद्धरामीत्युदीरकः ।
उद्धवाय मया प्रोक्तं भागवतमिति ब्रुवन् ॥ ५० ॥
उन्मत्तश्वाभिगोप्ता च उन्मत्तवेषनामधृत् ।
उपद्रवनिवारी च उपांशुजपबोधकः ॥ ५१ ॥
उमेशामेशयुक्तात्मा ऊर्जितभक्तिलक्षणः ।
ऊर्जितवाक्प्रदाता च ऊर्ध्वरेतस्तथैव च ॥ ५२ ॥
ऊर्ध्वमूलमधःशाखामश्वत्थं भस्मसात्करः ।
ऊर्ध्वगतिविधाता च ऊर्ध्वबद्धद्विकेतनः ॥ ५३ ॥
ऋजुः ऋतम्बरप्रज्ञः ऋणक्लिष्टधनप्रदः ।
ऋणानुबद्धजन्तुनां ऋणमुक्त्यै फलप्रदः ॥ ५४ ॥
एकाकी चैकभक्तिश्च एकवाक्कायमानसः ।
एकादश्यां स्वभक्तानां स्वतनोकृतनिष्कृतिः ॥ ५५ ॥
एकाक्षरपरज्ञानी एकात्मा सर्वदेशदृक् ।
एकेश्वरप्रतीतिश्च एकरीत्यादृताखिलः ॥ ५६ ॥
ऐक्यानन्दगतद्वन्द्वः ऐक्यानन्दविधायकः ।
ऐक्यकृदैक्यभूतात्मा ऐहिकामुष्मिकप्रदः ॥ ५७ ॥
ओङ्कारादर ओजस्वी औषधीकृतभस्मदः ।
कथाकीर्तनपद्धत्यां नारदानुष्ठितं स्तुवन् ॥ ५८ ॥
कपर्दे क्लेशनाशी च कबीर्दासावतारकः ।
कपर्दे पुत्ररक्षार्थमनुभूततदामयः ॥ ५९ ॥
कमलाश्लिष्टपादाब्जः कमलायतलोचनः ।
कन्दर्पदर्पविध्वंसी कमनीयगुणालयः ॥ ६० ॥
कर्ताऽकर्ताऽन्यथाकर्ता कर्मयुक्तोप्यकर्मकृत् ।
कर्मकृत् कर्मनिर्मुक्तः कर्माऽकर्मविचक्षणः ॥ ६१ ॥
कर्मबीजक्षयङ्कर्ता कर्मनिर्मूलनक्षमः ।
कर्मव्याधिव्यपोही च कर्मबन्धविनाशकः ॥ ६२ ॥
कलिमलापहारी च कलौ प्रत्यक्षदैवतम् ।
कलियुगावतारश्च कल्युत्थभवभञ्जनः ॥ ६३ ॥
कल्याणानन्तनामा च कल्याणगुणभूषणः ।
कविदासगणुत्राता कष्टनाशकरौषधम् ॥ ६४ ॥
काकादीक्षितरक्षायां धुरीणोऽहमितीरकः ।
कानाभिलादपि त्राता कानने पानदानकृत् ॥ ६५ ॥
कामजित् कामरूपी च कामसङ्कल्पवर्जितः ।
कामितार्थप्रदाता च कामादिशत्रुनाशनः ॥ ६६ ॥
काम्यकर्मसुसन्यस्तः कामेराशक्तिनाशकः ।
कालश्च कालकालश्च कालातीतश्च कालकृत् ॥ ६७ ॥
कालदर्पविनाशी च कालरातर्जनक्षमः ।
कालशुनकदत्तान्नं ज्वरं हरेदिति ब्रुवन् ॥ ६८ ॥
कालाग्निसदृशक्रोधः काशीरामसुरक्षकः ।
कीर्तिव्याप्तदिगन्तश्च कुप्नीवीतकलेबरः ॥ ६९ ॥
कुम्बाराग्निशिशुत्राता कुष्ठरोगनिवारकः ।
कूटस्थश्च कृतज्ञश्च कृत्स्नक्षेत्रप्रकाशकः ॥ ७० ॥
कृत्स्नज्ञश्च कृपापूर्णः कृपयापालितार्भकः ।
कृष्णरामशिवात्रेयमारुत्यादिस्वरूपधृत् ॥ ७१ ॥
केवलात्मानुभूतिश्च कैवल्यपददायकः ।
कोविदः कोमलाङ्गश्च कोपव्याजशुभप्रदः ॥ ७२ ॥
कोऽहमिति दिवानक्तं विचारमनुशासकः ।
क्लिष्टरक्षाधुरीणश्च क्रोधजित् क्लेशनाशनः ॥ ७३ ॥
गगनसौक्ष्म्यविस्तारः गम्भीरमधुरस्वनः ।
गङ्गातीरनिवासी च गङ्गोत्पत्तिपदाम्बुजः ॥ ७४ ॥
गङ्गागिरिरितिख्यात यतिश्रेष्ठेन संस्तुतः ।
गन्धपुष्पाक्षतैः पूज्यः गतिविद्गतिसूचकः ॥ ७५ ॥
गह्वरेष्ठपुराणश्च गर्वमात्सर्यवर्जितः ।
गाननृत्यविनोदश्च गालवण्कर्वरप्रदः ॥ ७६ ॥
गिरीशसदृशत्यागी गीताचार्यः स एव हि ।
गीताद्भुतार्थवक्ता च गीतारहस्यसम्प्रदः ॥ ७७ ॥
गीताज्ञानमयश्चासौ गीतापूर्णोपदेशकः ।
गुणातीतो गुणात्मा च गुणदोषविवर्जितः ॥ ७८ ॥
गुणागुणेषु वर्तन्त इत्यनासक्तिसुस्थिरः ।
गुप्तो गुहाहितो गूढो गुप्तसर्वनिबोधकः ॥ ७९ ॥
गुर्वङ्घ्रितीव्रभक्तिश्चेत्तदेवालमितीरयन् ।
गुरुर्गुरुतमो गुह्यो गुरुपादपरायणः ॥ ८० ॥
गुर्वीशाङ्घ्रिसदाध्याता गुरुसन्तोषवर्धनः ।
गुरुप्रेमसमालब्धपरिपूर्णस्वरूपवान् ॥ ८१ ॥
गुरूपासनसंसिद्धः गुरुमार्गप्रवर्तकः ।
गुर्वात्मदेवताबुद्ध्या ब्रह्मानन्दमयस्तथा ॥ ८२ ॥
गुरोस्समाधिपार्श्वस्थनिम्बच्छायानिवासकृत् ।
गुरुवेङ्कुशसम्प्राप्तवस्त्रेष्टिका सदाधृतः ॥ ८३ ॥
गुरुपरम्परादिष्टसर्वत्यागपरायणः ।
गुरुपरम्पराप्राप्तसच्चिदानन्दमूर्तिमान् ॥ ८४ ॥
गृहहीनमहाराजो गृहमेधिपराश्रयः ।
गोपींस्त्राता यथा कृष्णस्तथा नाच्ने कुलावनः ॥ ८५ ॥
गोपालगुण्डूरायादि पुत्रपौत्रादिवर्धनः ।
गोष्पदीकृतकष्टाब्धिर्गोदावरीतटागतः ॥ ८६ ॥
चतुर्भुजश्चतुर्बाहुनिवारितनृसङ्कटः ।
चमत्कारैः सङ्क्लिष्टौर्भक्तिज्ञानविवर्धनः ॥ ८७ ॥
चन्दनालेपरुष्टानां दुष्टानां धर्षणक्षमः ।
चन्दोर्करादि भक्तानां सदापालननिष्ठितः ॥ ८८ ॥
चराचरपरिव्याप्तश्चर्मदाहेप्यविक्रियः ।
चान्द्भायाख्य पाटेलार्थं चमत्कार सहायकृत् ॥ ८९ ॥
चिन्तामग्नपरित्राणे तस्य सर्वभारं वहः ।
चित्रातिचित्रचारित्रश्चिन्मयानन्द एव हि ॥ ९० ॥
चिरवासकृतैर्बन्धैः शिर्डीग्रामं पुनर्गतः ।
चोराद्याहृतवस्तूनिदत्तान्येवेतिहर्षितः ॥ ९१ ॥
छिन्नसंशय एवासौ छिन्नसंसारबन्धनः ।
जगत्पिता जगन्माता जगत्त्राता जगद्धितः ॥ ९२ ॥
जगत्स्रष्टा जगत्साक्षी जगद्व्यापी जगद्गुरुः ।
जगत्प्रभुर्जगन्नाथो जगदेकदिवाकरः ॥ ९३ ॥
जगन्मोहचमत्कारः जगन्नाटकसूत्रधृत् ।
जगन्मङ्गलकर्ता च जगन्मायेतिबोधकः ॥ ९४ ॥
जडोन्मत्तपिशाचाभोप्यन्तःसच्चित्सुखस्थितः ।
जन्मबन्धविनिर्मुक्तः जन्मसाफल्यमन्त्रदः ॥ ९५ ॥
जन्मजन्मान्तरज्ञश्च जन्मनाशरहस्यवित् ।
जनजल्पमनाद्यत्य जपसिद्धिमहाद्युतिः ॥ ९६ ॥
जप्तनामसुसन्तुष्टहरिप्रत्यक्षभावितः ।
जपप्रेरितभक्तश्च जप्यनामा जनेश्वरः ॥ ९७ ॥
जलहीनस्थले खिन्नभक्तार्थं जलसृष्टिकृत् ।
जवारालीति मौलानासेवनेऽक्लिष्टमानसः ॥ ९८ ॥
जातग्रामाद्गुरोर्ग्रामं तस्मात्पूर्वस्थलं व्रजन् ।
जातिर्भेदमतैर्भेद इति भेदतिरस्कृतः ॥ ९९ ॥
जातिविद्याधनैश्चापि हीनानार्द्रहृदावनः ।
जाम्बूनदपरित्यागी जागरूकावितप्रजः ॥ १०० ॥
जायापत्यगृहक्षेत्रस्वजनस्वार्थवर्जितः ।
जितद्वैतमहामोहो जितक्रोधो जितेन्द्रियः ॥ १०१ ॥
जितकन्दर्पदर्पश्च जितात्मा जितषड्रिपुः ।
जीर्णहूणालयस्थाने पूर्वजन्मकृतं स्मरन् ॥ १०२ ॥
जीर्णहूणालयं चाद्य सर्वमर्त्यालयङ्करः ।
जीर्णवस्त्रसमं मत्वा देहं त्यक्त्वा सुखं स्थितः ॥ १०३ ॥
जीर्णवस्त्रसमं पश्यन् त्यक्त्वा देहं प्रविष्टवान् ।
जीवन्मुक्तश्च जीवानां मुक्तिसद्गतिदायकः ॥ १०४ ॥
ज्योतिश्शास्त्ररहस्यज्ञः ज्योतिर्ज्ञानप्रदस्तथा ।
ज्योक्चसूर्यं दृशा पश्यन् ज्ञानभास्करमूर्तिमान् ॥ १०५ ॥
ज्ञातसर्वरहस्यश्च ज्ञातब्रह्मपरात्परः ।
ज्ञानभक्तिप्रदश्चासौ ज्ञानविज्ञाननिश्चयः ॥ १०६ ॥
ज्ञानशक्तिसमारूढः ज्ञानयोगव्यवस्थितः ।
ज्ञानाग्निदग्धकर्मा च ज्ञाननिर्धूतकल्मषः ॥ १०७ ॥
ज्ञानवैराग्यसन्धाता ज्ञानसञ्छिन्नसंशयः ।
ज्ञानापास्तमहामोहः ज्ञानीत्यात्मैव निश्चयः ॥ १०८ ॥
ज्ञानेश्वरीपठद्दैवप्रतिबन्धनिवारकः ।
ज्ञानं ज्ञेयं ज्ञानगम्यं ज्ञातसर्व परं मतः ॥ १०९ ॥
ज्योतिषां प्रथमज्योतिर्ज्योतिर्हीनद्युतिप्रदः ।
तपस्सन्दीप्ततेजस्वी तप्तकाञ्चनसन्निभः ॥ ११० ॥
तत्त्वज्ञानार्थदर्शी च तत्त्वमस्यादिलक्षितः ।
तत्त्ववित् तत्त्वमूर्तिश्च तन्द्राऽऽलस्यविवर्जितः ॥ १११ ॥
तत्त्वमालाधरश्चैव तत्त्वसारविशारदः ।
तर्जितान्तकदूतश्च तमसः परः उच्यते ॥ ११२ ॥
तात्यागणपतिप्रेष्ठस्तात्यानूल्कर्गतिप्रदः ।
तारकब्रह्मनामा च तमोरजोविवर्जितः ॥ ११३ ॥
तामरसदलाक्षश्च ताराबाय्यासुरक्षः ।
तिलकपूजिताङ्घ्रिश्च तिर्यग्जन्तुगतिप्रदः ॥ ११४ ॥
तीर्थकृतनिवासश्च तीर्थपाद इतीरितः ।
तीव्रभक्तिनृसिंहादिभक्तालीभूर्यनुग्रहः ॥ ११५ ॥
तीव्रप्रेमविरागाप्तवेङ्कटेशकृपानिधिः ।
तुल्यप्रियाऽप्रियश्चैव तुल्यनिन्दाऽऽत्मसंस्तुतिः ॥ ११६ ॥
तुल्याधिकविहीनश्च तुष्टसज्जनसंवृतः ।
तृप्तात्मा च तृषाहीनस्तृणीकृतजगद्वसुः ॥ ११७ ॥
तैलीकृतजलापूर्णदीपसञ्ज्वलितालयः ।
त्रिकालज्ञस्त्रिमूर्तिश्च त्रिगुणातीत उच्यते ॥ ११८ ॥
त्रियामायोगनिष्ठात्मा दशदिग्भक्तपालकः ।
त्रिवर्गमोक्षसन्धाता त्रिपुटीरहितस्थितिः ॥ ११९ ॥
त्रिलोकस्वेच्छसञ्चारी त्रैलोक्यतिमिरापहः ।
त्यक्तकर्मफलासङ्गस्त्यक्तभोगसदासुखी ॥ १२० ॥
त्यक्तदेहात्मबुद्धिश्च त्यक्तसर्वपरिग्रहः ।
त्यक्त्वा मायामयं सर्वं स्वे महिम्नि सदास्थितः ॥ १२१ ॥
दण्डधृद्दण्डनार्हाणां दुष्टवृत्तेर्निवर्तकः ।
दम्भदर्पातिदूरश्च दक्षिणामूर्तिरेव च ॥ १२२ ॥
दक्षिणादानकर्तृभ्यो दशधाप्रतिदायकः ।
दक्षिणाप्रार्थनाद्वारा शुभकृत्तत्त्वबोधकः ॥ १२३ ॥
दयापरो दयासिन्धुर्दत्तात्रेयः स एव हि ।
दरिद्रोऽयं धनीवेति भेदाचारविवर्जितः ॥ १२४ ॥
दहराकाशभानुश्च दग्धहस्तार्भकावनः ।
दारिद्र्यदुःखभीतिघ्नो दामोदरवरप्रदः ॥ १२५ ॥
दानशौण्डस्तथा दान्तर्दानैश्चान्यान् वशं नयन् ।
दानमार्गस्खलत्पादनानाचान्दोर्करावनः ॥ १२६ ॥
दिव्यज्ञानप्रदश्चासौ दिव्यमङ्गलविग्रहः ।
दीनदयापरश्चासौ दीर्घदृग्दीनवत्सलः ॥ १२७ ॥
दुष्टानां दमने शक्तः दुराधर्षतपोबलः ।
दुर्भिक्षोऽप्यन्नदाता च दुरादृष्टविनाशकृत् ॥ १२८ ॥
दुःखशोकभयद्वेषमोहाद्यशुभनाशकः ।
दुष्टनिग्रहशिष्टानुग्रहरूपमहाव्रतः ॥ १२९ ॥
दुष्टमूर्खजडादीनामप्रकाशस्वरूपवते ।
दुष्टजन्तुपरित्राता दूरवर्तिसमस्तदृक् ॥ १३० ॥
दृश्यं नश्यं न विश्वास्यमिति बुद्धिप्रबोधकः ।
दृश्यं सर्वं हि चैतन्यमित्यानन्दप्रतिष्ठः ॥ १३१ ॥
देहे विगलिताशश्च देहयात्रार्थमन्नभुक् ।
देहो गेहस्ततो मान्तु निन्ये गुरुरितीरकः ॥ १३२ ॥
देहात्मबुद्धिहीनश्च देहमोहप्रभञ्जनः ।
देहो देवालयस्तस्मिन् देवं पश्येत्युदीरयन् ॥ १३३ ॥
दैवीसम्पत्प्रपूर्णश्च देशोद्धारसहायकृत् ।
द्वन्द्वमोहविनिर्मुक्तः द्वन्द्वातीतविमत्सरः ॥ १३४ ॥
द्वारकामायिवासी च द्वेषद्रोहविवर्जितः ।
द्वैताद्वैतविशिष्ठादीन् काले स्थाने विबोधकः ॥ १३५ ॥
धनहीनान् धनाढ्यां च समदृष्ट्यैव रक्षकः ।
धनदेनसमत्यागी धरणीधरसन्निभः ॥ १३६ ॥
धर्मज्ञो धर्मसेतुश्च धर्मस्थापनसम्भवः ।
धुमालेउपासनीपत्न्यो निर्वाणे सद्गतिप्रदः ॥ १३७ ॥
धूपखेडा पटेल् चान्द्भाय् नष्टाश्वस्थानसूचकः ।
धूमयानात् पतत्पाथेवारपत्नी सुरक्षकः ॥ १३८ ॥
ध्यानावस्थितचेताश्च धृत्युत्साहसमन्वितः ।
नतजनावनश्चासौ नरलोकमनोरमः ॥ १३९ ॥
नष्टदृष्टिप्रदाता च नरलोकविडम्बनः ।
नागसर्पे मयूरे च समारूढ षडाननः ॥ १४० ॥
नानाचान्दोर्कमाहूया तत्सद्गत्यै कृतोद्यमः ।
नाना निम्होण्करस्यान्ते स्वाङ्घ्रि ध्यानलयप्रदः ॥ १४१ ॥
नानादेशाभिधाकारो नानाविधिसमर्चितः ।
नारायणमहाराजसंश्लाघितपदाम्बुजः ॥ १४२ ॥
नारायणपरश्चैष तथासौ नामवर्जितः ।
निगृहितेन्द्रियग्रामः निगमागमगोचरः ॥ १४३ ॥
नित्यसर्वगतस्थाणुर्नित्यतृप्तो निराश्रयः ।
नित्यान्नदानधर्मिष्ठो नित्यानन्दप्रवाहकः ॥ १४४ ॥
नित्यमङ्गलधामा च नित्याग्निहोत्रवर्धनः ।
नित्यकर्मनियोक्ता च नित्यसत्त्वस्थितस्तथा ॥ १४५ ॥
निम्बपादपमूलस्थः निरन्तराग्निरक्षिता ।
निस्पृहो निर्विकल्पश्च निरङ्कुशगतागतिः ॥ १४६ ॥
निर्जितकामनादोषः निराशश्च निरञ्जनः ।
निर्विकल्पसमाधिस्थो निरपेक्षश्च निर्गुणः ॥ १४७ ॥
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्विकारश्च निश्चलः ।
निरालम्बो निराकारो निवृत्तगुणदोषकः ॥ १४८ ॥
नूल्कर विजयानन्द माहिषां गतिदायकः । [दत्त सद्गतिः]
नरसिंह गणूदास दत्त प्रचारसाधनः ॥ १४९ ॥
नैष्ठिकब्रह्मचर्यश्च नैष्कर्म्यपरिनिष्ठितः ।
पण्डरीपाण्डुरङ्गाख्यः पाटिल् तात्याजी मातुलः ॥ १५० ॥
पतितपावनश्चासौ पत्रिग्रामसमुद्भवः ।
पदविसृष्टगङ्गाम्भः पदाम्बुजनतावनः ॥ १५१ ॥
परब्रह्मस्वरूपी च परमकरुणालयः ।
परतत्त्वप्रदीपश्च परमार्थनिवेदकः ॥ १५२ ॥
परमानन्दनिस्यन्दः परञ्ज्योतिः परात्परः ।
परमेष्ठी परन्धामा परमेश्वरः ह्येव सः ॥ १५३ ॥
परमसद्गुरुश्चासौ परमाचार्य उच्यते ।
परधर्मभयाद्भक्तान् स्वे स्वे धर्मे नियोजकः ॥ १५४ ॥
परार्थैकान्तसम्भूतिः परमात्मा परागतिः ।
पापतापौघसंहारी पामरव्याजपण्डितः ॥ १५५ ॥
पापाद्दासं समाकृष्य पुण्यमार्ग प्रवर्तकः ।
पिपीलिकासुखान्नदः पिशाचेश्व व्यवस्थितः ॥ १५६ ॥
पुत्रकामेष्ठि यागादेः ऋते सन्तानवर्धनः ।
पुनरुज्जीवितप्रेतः पुनरावृत्तिनाशकः ॥ १५७ ॥
पुनः पुनरिहागम्य भक्तेभ्यः सद्गतिप्रदः ।
पुण्डरीकायताक्षश्च पुण्यश्रवणकीर्तनः ॥ १५८ ॥
पुरन्दरादिभक्ताग्र्यपरित्राणधुरन्धरः ।
पुराणपुरुषश्चासौ पुरीशः पुरुषोत्तमः ॥ १५९ ॥
पूजापराङ्मुखः पूर्णः पूर्णवैराग्यशोभितः ।
पूर्णानन्दस्वरूपी च तथा पूर्णकृपानिधिः ॥ १६० ॥
पूर्णचन्द्रसमाह्लादी पूर्णकामश्च पूर्वजः ।
प्रणतपालनोद्युक्तः प्रणतार्तिहरस्तथा ॥ १६१ ॥
प्रत्यक्षदेवतामूर्तिः प्रत्यगात्मनिदर्शकः ।
प्रपन्नपारिजातश्च प्रपन्नानां परागतिः ॥ १६२ ॥
प्रमाणातीतचिन्मूर्तिः प्रमादाभिधमृत्युजित् ।
प्रसन्नवदनश्चासौ प्रसादाभिमुखद्युतिः ॥ १६३ ॥
प्रशस्तवाक् प्रशान्तात्मा प्रियसत्यमुदाहरन् ।
प्रेमदः प्रेमवश्यश्च प्रेममार्गैकसाधनः ॥ १६४ ॥
बहुरूपनिगूढात्मा बलदृप्तदमक्षमः ।
बलातिदर्पभय्याजिमहागर्वविभञ्जनः ॥ १६५ ॥
बुधसन्तोषदश्चैव बुद्धः बुधजनावनः ।
बृहद्बन्धविमोक्ता च बृहद्भारवहक्षमः ॥ १६६ ॥
ब्रह्मकुलसमुद्भूतः ब्रह्मचारिव्रतस्थितः ।
ब्रह्मानन्दामृतेमग्नः ब्रह्मानन्दः स एव च ॥ १६७ ॥
ब्रह्मानन्दलसद्दृष्टिः ब्रह्मवादी बृहच्छ्रवः ।
ब्राह्मणस्त्रीविसृष्टोल्कातर्जितश्वाकृतिस्तथा ॥ १६८ ॥
ब्राह्मणानां मशीदिस्थः ब्रह्मण्यो ब्रह्मवित्तमः ।
भक्तदासगणूप्राणमानवृत्त्यादिरक्षकः ॥ १६९ ॥
भक्तात्यन्तहितैषी च भक्ताश्रितदयापरः ।
भक्तार्थे धृतदेहश्च भक्तार्थे दग्धहस्तकः ॥ १७० ॥
भक्तपरागतिश्चासौ भक्तवत्सल एव च ।
भक्तमानसवासी च भक्तातिसुलभस्तथा ॥ १७१ ॥
भक्तभवाब्धिपोतश्च भगवान् भजतां सुहृत् ।
भक्तसर्वस्वहारी च भक्तानुग्रहकातरः ॥ १७२ ॥
भक्तरास्न्यादि सर्वेषां अमोघाभयसम्प्रदः ।
भक्तावनसमर्थश्च भक्तावनधुरन्धरः ॥ १७३ ॥
भक्तभावपराधीनः भक्तात्यन्तहितौषधम् ।
भक्तावनप्रतिज्ञश्च भजतामिष्टकामधुक् ॥ १७४ ॥
भक्तहृत्पद्मवासी च भक्तिमार्गप्रदर्शकः ।
भक्ताशयविहारी च भक्तसर्वमलापहः ॥ १७५ ॥
भक्तबोधैकनिष्ठश्च भक्तानां सद्गतिप्रदः ।
भद्रमार्गप्रदर्शी च भद्रं भद्रमिति ब्रुवन् ॥ १७६ ॥
भद्रश्रवश्च भन्नूमायि साध्वीमहितशासनः ।
भयसन्त्रस्तकापर्देऽमोघाभयवरप्रदः ॥ १७७ ॥
भयहीनो भयत्राता भयकृद्भयनाशनः ।
भववारिधिपोतश्च भवलुण्ठनकोविदः ॥ १७८ ॥
भस्मदाननिरस्ताधिव्याधिदुःखाऽशुभाऽखिलः ।
भस्मसात्कृतभक्तारी भस्मसात्कृतमन्मथः ॥ १७९ ॥
भस्मपूतमशीदिस्थः भस्मदग्धाखिलामयः ।
भागोजि कुष्ठरोगघ्नः भाषाखिलसुवेदितः ॥ १८० ॥
भाष्यकृद्भावगम्यश्च भारसर्वपरिग्रहः ।
भागवतसहायश्च भावनाशून्यतः सुखी ॥ १८१ ॥
भागवतप्रधानश्च तथा भागवतोत्तमः ।
भाटेद्वेषं समाकृष्य भक्तिं तस्मै प्रदत्तवान् ॥ १८२ ॥
भिल्लरूपेण दत्ताम्भः भिक्षान्नदानशेषभुक् ।
भिक्षाधर्ममहाराजो भिक्षौघदत्तभोजनः ॥ १८३ ॥
भीमाजि क्षयपापघ्नस्तथा भीमबलान्वितः ।
भीतानां भीतिनाशी च तथा भीषणभीषणः ॥ १८४ ॥
भीषाचालितसुर्याग्निमघवन्मृत्युमारुतः ।
भुक्तिमुक्तिप्रदाता च भुजगाद्रक्षितप्रजः ॥ १८५ ॥
भुजङ्गरूपमाविश्य सहस्रजनपूजितः ।
भुक्त्वा भोजनदातॄणां दग्धप्रागुत्तराशुभः ॥ १८६ ॥
भूटिद्वारा गृहं बद्ध्वा कृतसर्वमतालयः ।
भूभृत्समोपकारी च भूमाऽसौ भूशयस्तथा ॥ १८७ ॥
भूतशरण्यभूतश्च भूतात्मा भूतभावनः ।
भूतप्रेतपिशाचादीन् धर्ममार्गे नियोजयन् ॥ १८८ ॥
भृत्यस्यभृत्यसेवाकृत् भृत्यभारवहस्तथा ।
भेकं दत्तवरं स्मृत्वा सर्पस्यादपि रक्षकः ॥ १८९ ॥
भोगैश्वर्येष्वसक्तात्मा भैषज्येभिषजांवरः ।
मर्करूपेण भक्तस्य रक्षणे तेन ताडितः ॥ १९० ॥
मन्त्रघोषमशीदिस्थः मदाभिमानवर्जितः ।
मधुपानभृशासक्तिं दिव्यशक्त्या व्यपोहकः ॥ १९१ ॥
मशीध्यां तुलसीपूजां अग्निहोत्रं च शासकः ।
महावाक्यसुधामग्नः महाभागवतस्तथा ॥ १९२ ॥
महानुभावतेजस्वी महायोगेश्वरश्च सः ।
महाभयपरित्राता महात्मा च महाबलः ॥ १९३ ॥
माधवरायदेश्पाण्डे सख्युः साहाय्यकृत्तथा ।
मानापमानयोस्तुल्यः मार्गबन्धुश्च मारुतिः ॥ १९४ ॥
मायामानुष रूपेण गूढैश्वर्यपरात्परः ।
मार्गस्थदेवसत्कारः कार्य इत्यनुशासिता ॥ १९५ ॥
मारीग्रस्थ बूटीत्राता मार्जालोच्छिष्ठभोजनः ।
मिरीकरं सर्पगण्डात् दैवाज्ञाप्ताद्विमोचयन् ॥ १९६ ॥
मितवाक् मितभुक् चैव मित्रेशत्रौसदासमः ।
मीनातायी प्रसूत्यर्थं प्रेषिताय रथं ददत् ॥ १९७ ॥
मुक्तसङ्ग आनंवादी मुक्तसंसृतिबन्धनः ।
मुहुर्देवावतारादि नामोच्चारणनिवृतः ॥ १९८ ॥
मूर्तिपूजानुशास्ता च मूर्तिमानप्यमूर्तिमान् ।
मूलेशास्त्री गुरोर्घोलप महाराजस्य रूपधृत् ॥ १९९ ॥
मृतसूनुं समाकृष्य पूर्वमातरि योजयन् ।
मृदालयनिवासी च मृत्युभीतिव्यपोहकः ॥ २०० ॥
मेघश्यामायपूजार्थं शिवलिङ्गमुपाहरन् ।
मोहकलिलतीर्णश्च मोहसंशयनाशकः ॥ २०१ ॥
मोहिनीराजपूजायां कुल्कर्ण्यप्पा नियोजकः ।
मोक्षमार्गसहायश्च मौनव्याख्याप्रबोधकः ॥ २०२ ॥
यज्ञदानतपोनिष्ठः यज्ञशिष्ठान्नभोजनः ।
यतीन्द्रियमनोबुद्धिः यतिधर्मसुपालकः ॥ २०३ ॥
यतो वाचो निवर्तन्ते तदानन्दसुनिष्ठितः ।
यत्नातिशयसेवाप्त गुरुपूर्णकृपाबलः ॥ २०४ ॥
यथेच्छसूक्ष्मसञ्चारी यथेष्टदानधर्मकृत् ।
यन्त्रारूढं जगत्सर्वं मायया भ्रामयत्प्रभुः ॥ २०५ ॥
यमकिङ्करसन्त्रस्त सामन्तस्य सहायकृत् ।
यमदूतपरिक्लिष्टपुरन्दरसुरक्षकः ॥ २०६ ॥
यमभीतिविनाशी च यवनालयभूषणः ।
यशसापिमहाराजः यशःपूरितभारतः ॥ २०७ ॥
यक्षरक्षःपिशाचानां सान्निध्यादेवनाशकः ।
युक्तभोजननिद्रश्च युगान्तरचरित्रवित् ॥ २०८ ॥
योगशक्तिजितस्वप्नः योगमायासमावृतः ।
योगवीक्षणसन्दत्तपरमानन्दमूर्तिमान् ॥ २०९ ॥
योगिभिर्ध्यानगम्यश्च योगक्षेमवहस्तथा ।
रथस्य रजताश्वेषु हृतेष्वम्लानमानसः ॥ २१० ॥
रसश्च रससारज्ञः रसनारसजिच्च सः ।
रसोऽप्यस्य परं दृष्ट्वा निवर्तितमहायशः ॥ २११ ॥
रक्षणात्पोषणात्सर्वपितृमातृगुरुप्रभुः ।
रागद्वेषवियुक्तात्मा राकाचन्द्रसमाननः ॥ २१२ ॥
राजीवलोचनश्चैषः राजभिश्चाभिवन्दितः ।
रामभक्तिप्रपूर्णश्च रामरूपप्रदर्शकः ॥ २१३ ॥
रामसारूप्यलब्धश्च रामसायीति विश्रुतः ।
रामदूतमयश्चासौ राममन्त्रोपदेशकः ॥ २१४ ॥
राममूर्त्यादिशङ्कर्ता रासनेकुलवर्धनः ।
रुद्रतुल्यप्रकोपश्च रुद्रकोपदमक्षमः ॥ २१५ ॥
रुद्रविष्णुकृताभेदः रूपिणीरूप्यमोहजित् ।
रूपे रूपे चिदात्मानं पश्यध्वमिति बोधकः ॥ २१६ ॥
रूपाद्रूपान्तरं यातोऽमृत इत्यभयप्रदः ।
रेगे शिशोः तथान्धस्य सताङ्गति विधायकः ॥ २१७ ॥
रोगदारिद्र्यदुःखादीन् भस्मदानेन वारयन् ।
रोदनातार्द्रचित्तश्च रोमहर्षादवाकृतिः ॥ २१८ ॥
लघ्वाशी लघुनिद्रश्च लब्धाश्वग्रामणिस्तुतः ।
लगुडोद्धृतरोहिल्लास्तम्भनाद्दर्पनाशकः ॥ २१९ ॥
ललिताद्भुतचारित्रः लक्ष्मीनारायणस्तथा ।
लीलामानुषदेहस्थो लीलामानुषकर्मकृत् ॥ २२० ॥
लेलेशास्त्रि श्रुतिप्रीत्या मशीदि वेदघोषणः ।
लोकाभिरामो लोकेशो लोलुपत्वविवर्जितः ॥ २२१ ॥
लोकेषु विहरंश्चापि सच्चिदानन्दसंस्थितः ।
लोणिवार्ण्यगणूदासं महापायाद्विमोचकः ॥ २२२ ॥
वस्त्रवद्वपुरुद्वीक्ष्य स्वेच्छत्यक्तकलेबरः ।
वस्त्रवद्देहमुत्सृज्य पुनर्देहं प्रविष्टवान् ॥ २२३ ॥
वन्ध्यादोषविमुक्त्यर्थं तद्वस्त्रे नारिकेलदः ।
वासुदेवैकसन्तुष्टिः वादद्वेषमदाऽप्रियः ॥ २२४ ॥
विद्याविनयसम्पन्नो विधेयात्मा च वीर्यवान् ।
विविक्तदेशसेवी च विश्वभावनभावितः ॥ २२५ ॥
विश्वमङ्गलमाङ्गल्यो विषयात् संहृतेन्द्रियः ।
वीतरागभयक्रोधः वृद्धान्धेक्षणसम्प्रदः ॥ २२६ ॥
वेदान्ताम्बुजसूर्यश्च वेदिस्थाग्निविवर्धनः ।
वैराग्यपूर्णचारित्रः वैकुण्ठप्रियकर्मकृत् ॥ २२७ ॥
वैहायसगतिश्चासौ व्यामोहप्रशमौषधम् ।
शत्रुच्छेदैकमन्त्रं स शरणागतवत्सलः ॥ २२८ ॥
शरणागतभीमाजीश्वान्धभेकादिरक्षकः ।
शरीरस्थाऽशरीरस्थः शरीरानेकसम्भृतः ॥ २२९ ॥
शश्वत्परार्थसर्वेहः शरीरकर्मकेवलः ।
शाश्वतधर्मगोप्ता च शान्तिदान्तिविभूषितः ॥ २३० ॥
शिरस्तम्भितगङ्गाम्भः शान्ताकारः स एव च ।
शिष्टधर्ममनुप्राप्य मौलाना पादसेवितः ॥ २३१ ॥
शिवदः शिवरूपश्च शिवशक्तियुतस्तथा ।
शिरीयानसुतोद्वाहं यथोक्तं परिपूरयन् ॥ २३२ ॥
शीतोष्णसुखदुःखेषु समः शीतलवाक्सुधः ।
शिर्डिन्यस्तगुरोर्देहः शिर्डित्यक्तकलेबरः ॥ २३३ ॥
शुक्लाम्बरधरश्चैव शुद्धसत्त्वगुणस्थितः ।
शुद्धज्ञानस्वरूपश्च शुभाऽशुभविवर्जितः ॥ २३४ ॥
शुभ्रमार्गेण नेता नॄन् तद्विष्णोः परमं पदम् ।
शेलुगुरुकुलेवासी शेषशायी तथैव च ॥ २३५ ॥
श्रीकण्ठः श्रीकरः श्रीमान् श्रेष्ठः श्रेयोविधायकः ।
श्रुतिस्मृतिशिरोरत्नविभूषितपदाम्बुजः ॥ २३६ ॥
श्रेयान् स्वधर्म इत्युक्त्वा स्वेस्वेधर्मनियोजकः ।
सखारामसशिष्यश्च सकलाश्रयकामदुक् ॥ २३७ ॥
सगुणोनिर्गुणश्चैव सच्चिदानन्दमूर्तिमान् ।
सज्जनमानसव्योमराजमानसुधाकरः ॥ २३८ ॥
सत्कर्मनिरतश्चासौ सत्सन्तानवरप्रदः ।
सत्यव्रतश्च सत्यं च सत्सुलभोऽन्यदुर्लभः ॥ २३९ ॥
सत्यवाक् सत्यसङ्कल्पः सत्यधर्मपरायणः ।
सत्यपराक्रमश्चासौ सत्यद्रष्टा सनातनः ॥ २४० ॥
सत्यनारायणश्चासौ सत्यतत्त्वप्रबोधकः ।
सत्पुरुषः सदाचारः सदापरहितेरतः ॥ २४१ ॥
सदाक्षिप्तनिजानन्दः सदानन्दश्च सद्गुरुः ।
सदाजनहितोद्युक्तः सदात्मा च सदाशिवः ॥ २४२ ॥
सदार्द्रचित्तः सद्रूपी सदाश्रयः सदाजितः ।
सन्यासयोगयुक्तात्मा सन्मार्गस्थापनव्रतः ॥ २४३ ॥
सबीजं फलमादाय निर्बीजं परिणामकः ।
समदुःखसुखस्वस्थः समलोष्टाश्मकाञ्चनः ॥ २४४ ॥
समर्थसद्गुरुश्रेष्ठः समानरहितश्च सः ।
समाश्रितजनत्राणव्रतपालनतत्परः ॥ २४५ ॥
समुद्रसमगाम्भीर्यः सङ्कल्परहितश्च सः ।
संसारतापहार्यङ्घ्रिः तथा संसारवर्जितः ॥ २४६ ॥
संसारोत्तारनामा च सरोजदलकोमलः ।
सर्पादिभयहारी च सर्परूपेऽप्यवस्थितः ॥ २४७ ॥
सर्वकर्मफलत्यागी सर्वत्रसमवस्थितः ।
सर्वतःपाणिपादश्च सर्वतोऽक्षिशिरोमुखः ॥ २४८ ॥
सर्वतःश्रुतिमन्मूर्तिः सर्वमावृत्यसंस्थितः ।
सर्वधर्मसमत्राता सर्वधर्मसुपूजितः ॥ २४९ ॥
सर्वधर्मान् परित्यज्य गुर्वीशं शरणं गतः ।
सर्वधीसाक्षिभूतश्च सर्वनामाभिसूचितः ॥ २५० ॥
सर्वभूतान्तरात्मा च सर्वभूताशयस्थितः ।
सर्वभूतादिवासश्च सर्वभूतहितेरतः ॥ २५१ ॥
सर्वभूतात्मभूतात्मा सर्वभूतसुहृच्च सः ।
सर्वभूतनिशोन्निद्रः सर्वभूतसमादृतः ॥ २५२ ॥
सर्वज्ञः सर्ववित् सर्वः सर्वमतसुसम्मतः ।
सर्वब्रह्ममयं द्रष्टा सर्वशक्त्युपबृंहितः ॥ २५३ ॥
सर्वसङ्कल्पसन्यासी तथा सर्वसङ्गविवर्जितः ।
सर्वलोकशरण्यश्च सर्वलोकमहेश्वरः ॥ २५४ ॥
सर्वेशः सर्वरूपी च सर्वशत्रुनिबर्हणः ।
सर्वैश्वर्यैकमन्त्रं च सर्वेप्सितफलप्रदः ॥ २५५ ॥
सर्वोपकारकारी च सर्वोपास्यपदाम्बुजः ।
सहस्रशिर्षमूर्तिश्च सहस्राक्षः सहस्रपात् ॥ २५६ ॥
सहस्रनामसुश्लाघी सहस्रनामलक्षितः ।
साकारोऽपि निराकारः साकारार्चासुमानितः ॥ २५७ ॥
(*- साधुजनपरित्राता साधुपोषकस्तथैव च । -*)
सायीति सज्जानैः प्रोक्तः सायीदेवः स एव हि ।
सायीरां सायिनाथश्च सायीशः सायिसत्तमः ॥ २५८ ॥
सालोक्यसार्ष्टिसामीप्यसायुज्यपददायकः ।
साक्षात्कृतहरिप्रीत्या सर्वशक्तियुतश्च सः ॥ २५९ ॥
साक्षात्कारप्रदाता च साक्षान्मन्मथमर्दनः ।
सिद्धेशः सिद्धसङ्कल्पः सिद्धिदः सिद्धवाङ्मुखः ॥ २६० ॥
सुकृतदुष्कृतातीतः सुखेषुविगतस्पृहः ।
सुखदुःखसमश्चैव सुधास्यन्दिमुखोज्वलः ॥ २६१ ॥
स्वेच्छामात्रजडद्देहः स्वेच्छोपात्ततनुस्तथा ।
स्वीकृतभक्तरोगश्च स्वेमहिम्निप्रतिष्ठितः ॥ २६२ ॥
हरिसाठे तथा नानां कामादेः परिरक्षकः ।
हर्षामर्षभयोद्वेगैर्निर्मुक्तविमलाशयः ॥ २६३ ॥
हिन्दुमुस्लिंसमूहानां मैत्रीकरणतत्परः ।
हूङ्कारेणैव सुक्षिप्रं स्तब्धप्रचण्डमारुतः ॥ २६४ ॥
हृदयग्रन्थिभेदी च हृदयग्रन्थिवर्जितः ।
क्षान्तानन्तदौर्जन्यः क्षितिपालादिसेवितः ।
क्षिप्रप्रसाददाता च क्षेत्रीकृतस्वशिर्डिकः ॥ २६५ ॥
इति श्री सायि सहस्रनाम स्तोत्रम् ॥
Found a Mistake or Error? Report it Now