कालपुरुषकृतं श्रीकृष्णस्तोत्रम्

|| कालपुरुषकृतं श्रीकृष्णस्तोत्रम् || कालपुरुष उवाच । को वाऽहं को यमः का च मृत्युकन्या च व्याधयः । वयं भ्रमामः सततमीशाज्ञापरिपालकाः ॥ ४३॥ यस्य सृष्टा च प्रकृतिर्ब्रह्मविष्णुशिवादयः । सुरा मुनीन्द्रा मनवो मानवाः सर्वजन्तवः ॥ ४४॥ ध्यायन्ते तत्पदाम्भोजं योगिनश्च विचक्षणाः । जपन्ति शश्वन्नामानि पुण्यानि परमात्मनः ॥ ४५॥ यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् । स्रष्टा ब्रह्माऽऽज्ञया यस्य पाता विष्णुर्यदाज्ञया…

इन्द्रकृतं श्रीकृष्णस्तोत्रम्

|| इन्द्रकृतं श्रीकृष्णस्तोत्रम् || श्रीगणेशाय नमः ॥ इन्द्र उवाच । अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम् । गुणातीतं निराकारं स्वेच्छामयमनन्तजम् ॥ १॥ भक्तध्यानाय सेवायै नानारूपधरं वरम् । शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ॥ २॥ शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम् । त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा ॥ ३॥ द्वापरे पीतवर्णं च शोभितं पीतवाससा । कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥ ४॥…

अनन्तकृतं श्रीकृष्णस्तोत्रम्

|| अनन्तकृतं श्रीकृष्णस्तोत्रम् || अनन्त उवाच । त्वमनन्तो हि भगवन्नाहमेव कलांशकः । विश्वैकस्थे क्षुद्रकूर्मे मशकोऽहं गजे यथा ॥ २४॥ असङ्ख्यशेषाः कूर्माश्च ब्रह्मविष्णुशिवात्मकाः । असङ्ख्यानि च विश्वानि तेषामीशः स्वयं भवान् ॥ २५॥ अस्माकमीदृशं नाथ सुदिनं क्व भविष्यति । स्वप्नादृष्टश्च यश्चेशः स दृष्टः सर्वजीविनाम् ॥ २६॥ नाथ प्रयासि गोलोकं पूतां कृत्वा वसुन्धराम् । तामनाथां रुदन्तीं च निमग्नां…

अष्टावक्रकृतं श्रीकृष्णस्तोत्रम्

|| अष्टावक्रकृतं श्रीकृष्णस्तोत्रम् || अष्टावक्र उवाच । गुणातीत गुणाधार गुणबीज गुणात्मक । गुणीश गुणिनां बीज गुणायन नमोऽस्तु ते ॥ ४०॥ सिद्धिस्वरूप सिद्ध्येश सिद्धिबीज परात्पर । सिद्धिसिद्धिगुणाधीश सिद्धानां गुरवे नमः ॥ ४१॥ हे वेदबीज वेदज्ञ वेदिन्वेदविदां वर । वेदाज्ञाताद्यरूपेश वेदाज्ञेश नमोऽस्तु ते ॥ ४२॥ ब्रह्मानन्तेश शेषेन्द्र धर्मादीनामधीश्वर । सर्व सर्वेश शर्वेश बीजरूप नमोऽस्तु ते ॥ ४३॥…

अदितिकृतं श्रीकृष्णस्तोत्रम्

|| अदितिकृतं श्रीकृष्णस्तोत्रम् || अदितिरुवाच । नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर । सनातनात्मन्भूतात्मन्सर्वात्मन्भूतभावन ॥ ६॥ प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक । सितदीर्घादिनिःशेषकल्पनापरिवर्जित ॥ ७॥ जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित । सन्ध्यारात्रिरहर्भूमिर्गगनं वायुरम्बु च ॥ ८॥ हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युत । सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ॥ ९॥ ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वरः । मायाभिरेतद्व्याप्तं ते जगत्स्थावरजङ्गमम् ॥ १०॥ अनात्मन्यात्मविज्ञानं सा ते माया जनार्दन । अहं ममेति भावोऽत्र यया…

अक्रूरकृतं श्रीकृष्णस्तोत्रम्

|| अक्रूरकृतं श्रीकृष्णस्तोत्रम् || प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना । किं भविष्यति लोकेषु चरेषु स्थावरेषु च ॥ १॥ तत्राश्चर्यं मया दृष्टं यत्कृष्ण भुवि दुर्लभम् । तदिहापि यथा तत्र पश्यामि च रमामि च ॥ २॥ संगतश्चास्मि लोकानामश्चर्येणेह रूपिणा । अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे ॥ ३॥ को वायं त्रिषु लोकेषु विस्मयं भवता विना । नमः…

अक्रूरकृतं १ श्रीकृष्णस्तोत्रम्

|| अक्रूरकृतं १ श्रीकृष्णस्तोत्रम् || अक्रूर उवाच । तन्मात्ररूपिणेऽचिन्त्यमहिम्ने परमात्मने । व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥ ४८॥ शब्दरूपाय तेऽचिन्त्यहविर्भूताय ते नमः । नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो ॥ ४९॥ भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ ५०॥ प्रसीद सर्वधर्मात्मन् क्षराक्षर महेश्वर । ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरितः ॥ ५१॥ अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन…

श्रीकृष्णसहस्रनामस्तोत्रम्

|| श्रीकृष्णसहस्रनामस्तोत्रम् || ॐ श्री कृष्णाय परमात्मने नमः । ध्यानं अनन्तनामकं कृष्णं कृपावर्षं कृपार्णवम् । भक्त्या नामसहस्रेण स्तोतुमिच्छामि सर्वदा ॥ १॥ श्री कृष्णचन्द्र! सर्वेश! स्त्रव्यरूप! स्तुतिप्रिय । वेणुगोपाल! राधेश! स्तोतुं त्वां देहि मे वरम् ॥ २॥ प्रेमार्पितमनोबुद्धिं, देहि मे करुणानिधे! । नीलसुन्दररूपस्य, देहि मे दिव्यदर्शनम् ॥ ३॥ अथ श्रीकृष्णसहस्रनामस्तोत्रं प्रारभ्यते । हरिः ॐ – ॐ…

गोपबालैः कृतं श्रीकृष्णरामस्तोत्रम्

|| गोपबालैः कृतं श्रीकृष्णरामस्तोत्रम् || अवरुह्य तरुभ्यश्च बालका बलशालिनः । फलान्यादाय गच्छन्तो ददृशुर्दैत्यपुङ्गवम् ॥ १८॥ महाबलं महाकायं घोरं गर्दभरूपिणम् । आगच्छन्तं महावेगात्कुर्वन्तं शब्दमुल्बणम् ॥ १९॥ तं दृष्ट्वा रुरुदुः सर्वे फलानि तत्यजुर्भिया । कृष्णकृष्णेति शब्दं च प्रचक्रुर्बहुधा भृशम् ॥ २०॥ (गोपबाला ऊचुः ।) अस्मान् रक्ष समागच्छ हे कृष्ण करुणानिधे । हे सङ्कर्षण नो रक्ष प्राणा नो…

देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम्

|| देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम् || देवा ऊचुः । कुलिशध्वजपद्मगदाङ्कुशाभं चरणं तव नाथ महाभरणम् । रमणं मुनिभिर्विधिशम्भुयुतं प्रणमाम वयं भवभीतिहरम् ॥ २७॥ दरचक्रगदाम्बुजमानधरः सुरशत्रुकठोरशरीरहरः । सचराचरलोकभरश्चपलः खलनाशकरस्सुरकार्यकरः ॥ २८॥ नमस्ते शचीनन्दनानन्दकारिन्महापापसन्तापदुर्लापहारिन् । सुरारीन्निहत्याशु लोकाधिधारिन्स्वभक्त्याघजाताङ्गकोटिप्रहारिन् ॥ २९॥ त्वयाहं स्वरूपेण सत्यं प्रपाल्य त्वया यज्ञरूपेण वेदः प्ररक्ष्यः । स वै यज्ञरूपो भवाँल्लोकधारी शचीनन्दनः शक्रशर्मप्रसक्तः ॥ ३०॥ अनर्पितचरो चिरात्करुणयावतीर्णः कलौ…

वेणुगोपालस्तोत्रम्

|| वेणुगोपालस्तोत्रम् || कारुण्यादेव देव प्रवरयदुकुलाम्भोधिभास्वच्छशाङ्क- लीलाकैवल्यमेतज्जगति विजयते वेणुगानं मनोज्ञम् । पीयूषानन्दनादाश्रवणहृतभवध्वान्ततान्ताः परस्मिन् तत्त्वे विश्रान्तभावाः स्थिरचरनिकराः लिल्यिरे प्राकृताश्च ॥ १॥ गोपा गोप्यश्च गावो जडतरमतयः श्यामधामाभिरामे नानाकामप्रपूरे कलिकृतदुरितश्रेणिकानां विरामे । यन्नादाकृष्टचित्ताः परमसुखमये वेणुगानैकलोले संसारध्वान्तहन्त्रीं यमिजननिवहैर्दुर्लभां भक्तिमापुः ॥ २॥ कर्मव्रातैः प्रजाभिर्धनततिभिरपि प्राप्नुयुर्नैव मोक्षं त्यागेनैके भजन्ते परमपदमिति प्रोच्यते वेदशीर्षैः । त्यागः कामं जनानां भवविकलधियं दुष्करोऽप्यञ्जसैव त्यक्त्वा पादं भजन्ते…

श्रीमुकुन्दस्तोत्रम्

|| श्रीमुकुन्दस्तोत्रम् || श्रीधाम्नि दुग्धोदधिपुण्डरीके यश्चञ्चरीकद्युतिमातनोति । नीलोत्पलश्यामलदेहकान्तिः स वोऽस्तु भूत्यै भगवान्मुकुन्दः ॥ १॥ वृन्दारका यस्य भवन्ति भृङ्गाः मन्दाकिनी यन्मकरन्दबिन्दुः । तवारविन्दाक्ष पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥ २॥ जयत्युपेन्द्रः स चकार दूतो बिभित्सया यः क्षणलब्धलक्ष्यया । दृशेव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्रपाटलम् ॥ ३॥ सकलभुवनबन्धोर्वैरमिन्दोः सरोजैः अनुचितमिति मत्वा यः स्वपादारविन्दम् । घटयितुमिव मायी योजयत्याननेन्दौ वटदलपुटशायी मङ्गलं…

श्रीभक्तिवैजयन्तीस्तोत्रम्

|| श्रीभक्तिवैजयन्तीस्तोत्रम् || श्रीकृष्णाय नमः समस्तहृदयाम्भोजावदातत्विषे भक्तौघस्मयमानमानसवते दैत्यावलीविद्विषे । गोपीवल्लविकाय नायकगुणग्रामप्रणालीजुषे लीलावैणविकाय कायसुषमानीलाम्बुजश्रीजुषे ॥ १॥ अव्यक्तं श्रुतिशेखरान्तरवने व्यक्तं च वृन्दावने गूढं वेदविचारचारुवदनैगूढं च गोपीजनैः । अस्पष्टं हृदि योगिनामपिः पुनः स्पष्टं च सेवावतां श्रीकृष्णं कमनीयकान्तिकुहकं ब्रह्माद्भुतं संश्रये ॥ २॥ पद्मापीनपयोधरप्रणिहितं प्राणप्रदं प्राणिनां पिजञ्छाडम्बरपीवरं प्रणायिनीप्रेमाप्रियं भावुकम् । पीतं पद्मविलोचनापरिषदा प्रत्यक्षतः प्रीतया पायाद्वः प्रतिमाभिनापिहितं पीताम्बरं प्राभवम् ॥ ३॥…

श्रीशास्ताकेशादिपादान्त वर्णनस्तोत्रम्

|| श्रीशास्ताकेशादिपादान्त वर्णनस्तोत्रम् || आशानुरूपफलदं चरणारविन्द भाजामपारकरुणार्णवपूर्णचन्द्रम् । नाशाय सर्वविपदामपि नौमि नित्य- मीशानकेशवभवं भुवनैकनाथम् ॥ १॥ पिञ्छावली वलयिताकलितप्रसून- सञ्जातकान्तिभरभासुरकेशभारम् । शिज्ञान मञ्जुमणिभूषण रञ्जिताङ्गं चन्द्रावतंसहरिनन्दनमाश्रयामि ॥ २॥ आलोलनीलललिताळुकहाररम्य माकम्रनासमरुणाधरमायताक्षम् । आलम्बनं त्रिजगतां प्रमथाधिनाथं मानम्रलोक हरिनन्दनमाश्रयामि ॥ ३॥ कर्णावलम्बिमणिकुण्डलभासमान गण्डस्थलं समुदिताननपुण्डरीकम् । अर्णोजनाभहरयोरिव मूर्तिमन्तं पुण्यातिरेकमिव भूतपतिं नमामि ॥ ४॥ उद्दण्डचारुभुजदण्डयुगाग्रसंस्थं कोदण्डबाणमहितान्तमतान्तवीर्यम् । उद्यत्प्रभापटलदीप्रमदभ्रसारं नित्यं प्रभापतिमहं प्रणतो भवामि…

धर्मशास्तासहस्रनामस्तोत्रम्

|| धर्मशास्तासहस्रनामस्तोत्रम् || ॐ पूर्णपुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः । श्रीधर्मशास्तासहस्रनामस्तोत्रम् । अस्य श्रीहरिहरपुत्रसहस्रनामस्तोत्रमालामन्त्रस्य अर्धनारीश्वर ऋषिः । अनुष्टुप्छन्दः । श्रीहरिहरपुत्रो देवता । ह्रां बिजं, ह्रीं शक्तिः, ह्रूं कीलकम् । श्रीहरिहरपुत्रप्रसादसिध्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः…

रमास्तोत्रम्

|| रमास्तोत्रम् || जय कोल्हापुरनिलये भजदिष्टेतरविलये । तव पादौ हृदि कलये रत्नरचितवलये ॥ १॥ जय जय सागरजाते कुरु करुणां मयि भीते । जगदम्बाभिधया ते जीवति तव पोते ॥ २॥ जय जय सागरसदना जय कान्त्या जितमदना । जय दुष्टान्तककदना कुन्दमुकुलरदना ॥ ३॥ सुररमणीनुतचरणे सुमनःसङ्कटहरणे । सुस्वररञ्जितवीणे सुन्दरनिजकिरणे ॥ ४॥ भजदिन्दीवरसोमा भवमुख्यामरकामा । भयमूलाळिविरामा भञ्जितमुनिभीमा ॥ ५॥…

श्रीमेनकानन्दिनीस्तोत्रम्

|| श्रीमेनकानन्दिनीस्तोत्रम् || गीर्वाणाखिलसम्पदम्बुजवनप्रोन्मूलनाकौतुकि प्रौढोन्मत्तकरीन्द्रसैरिभवधक्रीडाप्रसन्नानना । देवैराप्तमनोरथैरतिगतक्लेशैर्मुहुर्वन्दिता विश्वत्राणपरायणा विजयते श्रीमेनकानन्दिनी ॥ १॥ निःशेषामरवाहिनीकरिघटाशार्दूलविक्रीडित- प्रौढाहङ्कृतिचण्डमुण्डहननेनाह्लादयन्ती सुरान् । भक्ताभीष्टविधानकल्पलतिका कारुण्यवारान्निधिः श्रीश्रीकण्ठगृहप्रभा विजयते श्रीमेनकानन्दिनी ॥ २॥ लीलोन्मूलितदानवारिनिकराखण्डप्रतापोन्मदो- द्गर्जच्छुम्भनिशुम्भदैत्यमृगयाहर्षस्मितास्याम्बुजा । इन्द्रोपेन्द्रसमर्चिताङ्घ्रिकमला वन्दारुचिन्तामणिः श्रीमच्छम्भुकुटुम्बिनी विजयते श्रीमेनकानन्दिनी ॥ ३॥ या शक्तिर्मधुकैटभादिहनने विष्णुं चकारास्पदं गीर्वाणाधिपतिं निलिम्पबलभिद्वृत्रादिकोन्मूलने । देवद्रावणविश्रुतासुरवधे दैत्यारिसेनापतिं सा बाधौघविनाशिनी विजयते श्रीमेनकानन्दिनी ॥ ४॥ श्रद्धा तर्कवतां क्षमा बलवतां सम्पद्वतां नम्रता शान्तिः…

श्रीभवानीसहस्रनामस्तोत्रम्

|| श्रीभवानीसहस्रनामस्तोत्रम् || श्रीगणेशाय नमः । कैलास शिखरे रम्ये देवदेवं महेश्वरम् । ध्यानोपरतमासीनं प्रसन्नमुखपङ्कजम् ॥ १॥ सुरासुरशिरोरत्नरञ्जिताङ्घ्रियुगं प्रभुम् । प्रणम्य शिरसा नन्दी बद्धाञ्जलिरभाषत ॥ २॥ श्रीनन्दिकेश्वर उवाच । देवदेव जगन्नाथ संशयोऽस्ति महान्मम । रहस्यमेकमिच्छामि प्रष्टुं त्वां भक्तवत्सल ॥ ३॥ देवतायास्त्वया कस्याः स्तोत्रमेतद्दिवानिशम् । पठ्यते निरतं नाथ त्वत्तः किमपरं महत् ॥ ४॥ इति पृष्टस्तदा देवो नन्दिकेन…

भगवतीस्तोत्रम्

|| भगवतीस्तोत्रम् || जय भगवति देवि नमो वरदे जय पापविनाशिनि बहुफलदे । जय शुम्भ-निशुम्भ कपालधरे प्रणमामि तु देवि नरार्तिहरे ॥ १॥ जय चन्द्रदिवाकर-नेत्रधरे जय पावकभूषितवक्त्रवरे । जय भैरवदेहनिलीनपरे जय अन्धकदैत्यविशोषकरे ॥ २॥ जय महिषविमर्दिनिशूलकरे जय लोकसमस्तकपापहरे । जय देवि पितामहविष्णुनुते जय भास्करशक्रशिराऽवनते ॥ ३॥ जय षण्मुख-सायुध-ईशनुते जय सागरगामिनि शम्भुनुते । जय दुःख-दरिद्र-विनाशकरे जय पुत्रकल त्रविवृद्धिकरे…

प्रद्युम्नकृतं पार्वतीस्तोत्रम्

|| प्रद्युम्नकृतं पार्वतीस्तोत्रम् || प्रद्युम्न उवाच । ॐ नमः कात्यायन्यै गुहस्य जनन्यै नमः । नमस्त्रैलोक्यमायायै कात्यायन्यै नमो नमः ॥ १॥ नमः शत्रुविनाशिन्यै नमो गार्ग्यै गिरीशये । नमस्ये शुम्भहननीं निशुम्भहृदिदारणीम् ॥ २॥ कालरात्रिं नमस्येऽहं कुमारीं चापि नित्यशः । कान्तारवासिनीं देवीं नमस्यामि कृताञ्जलिः ॥ ३॥ विन्ध्यवासिनीं दुर्गघ्नीं रणदुर्गां रणप्रियाम् । नमस्यामि महादेवीं जयां च विजयां तथा ॥…

पितृशर्मकृतं पार्वतीस्तोत्रम् ६

|| पितृशर्मकृतं पार्वतीस्तोत्रम् ६ || पितृशर्मोवाच । नमः प्रकृत्यै सर्वायै कैवल्यायै नमो नमः । त्रिगुणैक्यस्वरूपायै तुरीयायै नमो नमः ॥ १०॥ महत्तत्त्वजनन्यै च द्वन्न्द्वकर्त्र्यै नमो नमः । ब्रह्ममातर्नमस्तुभ्यं साहङ्कारपितामहि ॥ ११॥ पृथग्गुणायै शुद्धायै नमो मातर्नमो नमः । विद्यायै शुद्धसत्त्वायै लक्ष्म्यै सत्त्वरजोमयि ॥ १२॥ नमो मातरविद्यायै ततः शुद्ध्यै नमो नमः । काल्यै सत्त्वतमोभूत्यै नमो मातर्नमो नमः ॥…

जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५

|| जैमिनिमुनिकृतं पार्वतीस्तोत्रम् ५ || जैमिनिरुवाच । नमः शिवायै जगदम्बिकायै शिवप्रियायै शिवविग्रहायै । समुद्बभूवाद्रिपतेः सुता या चतुष्कपर्दा युवतिः सुपेशाः ॥ १३४॥ हिरण्यवर्णां मणिनूपुराङ्घ्रिं प्रसन्नवक्त्रां शुकपद्महस्ताम् । विशालनेत्रां प्रणमामि गौरीं वचोविदं वाचमुदीरयन्तीम् ॥ १३५॥ नमामि मेनातनयाममेयामिमामुमां कान्तिमतीममेयाम् । करोति या भूतिसितौ स्तनौ द्वौ प्रियं सखायं परिषस्वजाना ॥ १३६॥ कान्तामुमां कान्तनिभाङ्गकान्तिं भान्तामुपात्तानतहर्यजेन्द्राम् । नतोऽस्मि यास्ते गिरिशस्य पार्श्वे…

अन्धककृतं पार्वतीस्तोत्रम्

|| अन्धककृतं पार्वतीस्तोत्रम् || अथान्धको महेश्वरीं ददर्श देवपार्श्वगाम् । पपात दण्डवत्क्षितौ ननाम पादपद्मयोः ॥ अन्धकोवाच । नमामि देववल्लभामनादिमद्रिजामिमाम् । यतः प्रधानपूरुषौ निहन्ति याऽखिलं जगत् ॥ १॥ विभाति या शिवासने शिवेन साकमव्यया हिरण्मयेऽतिनिर्मले नमामि तां हिमाद्रिजाम् । यदन्तराखिलं जगज्जगन्ति यान्ति सङ्क्षयं नमामि यत्र तामुमामशेषभेदवर्जिताम् ॥ २॥ न जायते न हीयते न वर्द्धते च तामुमां नमामि या…

श्रीपार्वतीसहस्रनामस्तोत्रम्

|| श्रीपार्वतीसहस्रनामस्तोत्रम् || (दुर्गासहस्रनामस्तोत्रमिति स्कान्दे क्वचित्कचिद्भिन्नम् ।) हिमवानुवाच । का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते । न जाने त्वामहं वत्से यथावद् ब्रूहि पृच्छते ॥ १॥ गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी । व्याजहार महाशैलं योगिनामभयप्रदा ॥ २॥ देव्युवाच । मां विद्धि परमां शक्तिं परमेश्वरसमाश्रयाम् । अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ३॥ अहं वै सर्वभावानामात्मा सर्वान्तरा शिवा ।…

श्रीपार्वतीश्रीकण्ठस्तोत्रम्

|| श्रीपार्वतीश्रीकण्ठस्तोत्रम् || (श्रीगरलपुरतः प्रस्थानसमये) बहुभ्यो घस्रेभ्यस्तव पदसरोजातयुगलं निरीक्ष्याहं मोदं बहुलमगमं शैलतनये । भविष्यान्मातस्त्वत्पदयुगसरोजातविरहा- द्भवेद्यः खेदस्तं शमय हृदयाब्जे विलसनात् ॥ १॥ प्रभोऽष्टमूर्ते मम चित्तमध्ये संस्थाप्य चैकां तव मूर्तिमारात् । अपि स्थितस्य प्रमुदं विधेहि का ते क्षतिस्तेन कृपापयोधे ॥ २॥ मन्मूर्तिमेकां तव पादमूले दधासि यस्माच्छशिबालमौले । तस्माच्च मन्मानसपङ्कजाते त्वया विधेया तव मूर्तिरेका ॥ ३॥ आकाशस्य विभुत्वात्तत्रस्थत्वाच्च…

श्रीदेवी ताण्डवस्तोत्रम्

|| श्रीदेवी ताण्डवस्तोत्रम् || अथ श्रीदेवी ताण्डवं । ॐ तत् सत् । अमरतापसभूपसुरयोगिभिर्नुतपदाबुरुहे प्रणमास्पदे निगममूर्धिनि नित्यविनोदिनि भवभयाभवमां परमेश्वरी । ॐ तत् सत् । अथ कुदाचित् । अकारोकारमकारबिन्दुनादस्वरूपिणी । अखिलजगदैककारिणी । अखण्डपरिपूर्ण सच्चिदानन्दस्वरूपिणी । अरुणकोटिकोटि प्रकाशदर्शिताश्रयाशार्कसोममण्डला नामुपरि । श्रीसादाख्य कलारूपत्वेनसाक्षिरूपतया । अनेककोटि ब्रह्माण्डानां । देवमनुश्यतिर्यग्योनिजातीनां । स्तापरजङ्गमाण्डजाति चतुर्विधयोनि जातानां । तेशुत्तममध्यमाधमानां । पुण्यमिश्रपापकर्मानु जातानामपि । अतलवितलसुतलतलातल…

उमाऽक्षरमालास्तोत्रम्

|| उमाऽक्षरमालास्तोत्रम् || अक्षरं वाक्पथातीतं ऋक्षराजनिभाननम् । रक्षताद्वाम नः किञ्चिदुक्षवाहनमोहनम् ॥ १॥ आकाशकेशमहिषीं आकारविजितोर्वशीम् । आशाहिनजनध्येयां आशापालार्चितां नुमः ॥ २॥ इन्द्रप्रभृतिगीर्वाणवन्दिताङ्घ्रिकुशेशया । चन्द्रस्तनन्धयापीडजाया विजयतेतराम् ॥ ३॥ ईश्वरीं सर्वभूतानां कः शिवां स्तोतुमीश्वरः । चतुर्भिरसमेतो ना वदनैरुतबाहुभिः ॥ ४॥ उमा नामादिमा भामा वामा श्यामा विमानमा । विमानमान्यमाया मा भिमा रामानुमातु मा ॥ ५॥ ऊरुं तं दक्षिणं मातुः…

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् रुद्रयामलान्तर्गतम्

|| श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् रुद्रयामलान्तर्गतम् || ॥ पूर्वपीठिका ॥ समाहूय परं कान्तं एकदा विजने मुदा । परमानन्दसन्दोहमुदितं प्राह पार्वती ॥ १॥ पार्वती उवाच श्रीमन्नाथ महानन्दकारणं ब्रूहि शङ्कर । योगीन्द्रोपास्य देवेश प्रेमपूर्ण सुधानिधे ॥ २॥ कृपास्ति मयि चेत् शम्भो सुगोप्यमपि कथ्यताम् । शिवकामेश्वरीनामसाहस्रं वद मे प्रभो ॥ ३॥ श्रीशङ्कर उवाच निर्भरानन्दसन्दोहः शक्तिभावेन जायते । लावण्यसिन्धुस्तन्नापि सुन्दरी रसकन्धरा ॥…

श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम्

|| श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् || ॥ पूर्वपीठिका ॥ यस्यास्सर्वं समुत्पन्नं चराचरमिदं जगत् । इदं नमो नटेशान्यै तस्यै कारुण्यमूर्तये ॥ कैलासाद्रौ सुखासीनं शिवं वेदान्तगोचरम् । सर्वविद्येश्वरं भूतिरुद्राक्षालङ्कृतं परम् ॥ १॥ सर्वलक्षणसम्पन्नं सनकादिमुनीडितम् । संसारारण्यदावाग्निं योगिराजं यतेन्द्रियम् ॥ २॥ मुकुटेन्दुसुधापूरलब्धजीवकशीर्षकम् । व्याघ्रचर्माम्बरधरं नीलकण्ठं कपर्दिनम् ॥ ३॥ सव्यहस्ते वह्निधरं मन्दस्मितमुखाम्बुजम् । ढक्कां च दक्षिणे हस्ते वहन्तं च त्रिलोचनम् ॥ ४॥…

विन्ध्येश्वरीस्तोत्रम्

|| विन्ध्येश्वरीस्तोत्रम् || श्रीगणेशाय नमः । निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डनीम् । वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥ १॥ त्रिशूलमुण्डधारिणीं धराविघातहारिणीम् । गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥ २॥ दरिद्रदुःखहारिणीं सतां विभूतिकारिणीम् । वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम् ॥ ३॥ लसत्सुलोललोचनां लतासदेवरप्रदाम् । var जने सदा वरप्रदाम् कपालशूलधारिणीं भजामि विन्ध्यवासिनीम् ॥ ४॥ करो मुदा गदाधरो शिवां शिवप्रदायिनीम् । var कराब्जदानदाधरां…

विन्ध्यवासिनीस्तोत्रम्

|| विन्ध्यवासिनीस्तोत्रम् || श्रीगणेशाय नमः । श्रीनन्दगोपगृहिणीप्रभवा तनोतु भद्रं सदा मम सुरार्थपरा प्रसन्ना । विन्ध्याद्रि-गह्वरगताष्टभुजा प्रसिद्धा सिद्धैः सुसेवित-पदाब्जयुगा त्रिरूपा ॥ १॥ वेदैरगम्यमहिमा निजबोधतुष्टा नित्या गुणत्रयपराऽखिलभेदशून्या । एका प्रपञ्चकरणे त्रिगुणोरुशक्तिरुच्चावचाकृतिरथोऽचलजङ्गमात्मा ॥ २॥ पीयूष-सिन्धु-सुरपादपवाटिरत्नद्वीपे सुनीपवनशालिनि दुष्प्रवेशे । चिन्तामणि-प्रखचिते भवने निषण्णा विन्ध्येश्वरी श्रियमनल्पतरां करोतु ॥ ३॥ श्रुत्वा स्तुतिं विधिकृतां करुणार्द्रचित्ता नारायणेन सबलौ मधुकैटभाख्यौ । या सञ्जहार जगतां प्रलये…

ज्ञानप्रसूनाम्बास्तोत्रम्

|| ज्ञानप्रसूनाम्बास्तोत्रम् || माणिक्याञ्चितभूषणां मणिवरां माहेन्द्रनीलोज्ज्वलां मन्दारद्रुममाल्यभूषितकचां मत्तेभकुम्भस्तनीम् । मौलिस्तोमनुतां मराळगमनां माध्वीरसानन्दिनीं ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १॥ श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् । रक्षोगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २॥ कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् । कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३॥ भावातीतमनःप्रभावभरितां ब्रह्माण्डभाण्डोदरीं बालां बालकुरङ्गनेत्रयुगलां…

अम्बास्तोत्रं स्वामी विवेकानन्दरचितम्

|| अम्बास्तोत्रं स्वामी विवेकानन्दरचितम् || का त्वं शुभकरे सुखदुःखहस्ते आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः । शांतिं विधातुमिह किं बहुधा विभग्नाम् मतः प्रयत्नपरमासि सदैव विश्वे ॥ १॥ सम्पादयत्यविरतं त्वविरामवृता या वै स्थिता कृतफलं त्वकृतस्य नेत्री । सा मे भवत्वनिदिनं वरदा भवानी जानाम्यहं ध्रुवमिदं धृतकर्मपाशा ॥ २॥ को वा धर्मः किमकृतं क्वः कपाललेखः किंवादृष्टं फलमिहास्ति हि यां विना भोः…

श्रीअन्नपूर्णासहस्रनामस्तोत्रम्

|| श्रीअन्नपूर्णासहस्रनामस्तोत्रम् || श्रीरुद्रयामले कैलासशिखरासीनं देवदेवं महेश्वरम् । प्रणम्य दण्डवद्भूमौ पार्वती परिपृच्छति ॥ १॥ श्रीपार्वत्युवाच । अन्नपूर्णा महादेवी त्रैलोक्ये जीवधारिणी । नाम्नां सहस्रं तस्यास्तु कथयस्व महाप्रभो ॥ २॥ श्रीशिव उवाच । श‍ृणु देवि वरारोहे जगत्कारणि कौलिनि । आराधनीया सर्वेषां सर्वेषां परिपृच्छसि ॥ ३॥ सहस्रैर्नामभिर्दिव्यैस्त्रैलोक्यप्राणिपूजितैः । अन्नदायास्स्तवं दिव्यं यत्सुरैरपि वाञ्छितम् ॥ ४॥ कथयामि तव स्नेहात्सावधानाऽवधारय ।…

श्रीदुर्गा पञ्जरस्तोत्रम्

|| श्रीदुर्गा पञ्जरस्तोत्रम् || विनियोगः ॐ अस्य श्रीदुर्गा पञ्जरस्तोत्रस्य सूर्य ऋषिः, त्रिष्टुप्छन्दः, छाया देवता, श्रीदुर्गा पञ्जरस्तोत्र पाठे विनियोगः । ध्यानम् । ॐ हेम प्रख्यामिन्दु खण्डात्तमौलिं शङ्खाभीष्टा भीति हस्तां त्रिनेत्राम् । हेमाब्जस्थां पीन वस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि । अपराध शतं कृत्वा जगदम्बेति चोच्चरेत् । यां गतिं समवाप्नोति नतां ब्रह्मादयः सुराः । सापराधोऽस्मि शरणं प्राप्तस्त्वां…

श्रीदाक्षायणीस्तोत्रम्

|| श्रीदाक्षायणीस्तोत्रम् || गम्भीरावर्तनाभिर्मृगमदतिलका वामबिम्बाधरोष्ठी श्रीकान्ता काञ्चिदाम्ना परिवृतजघना कोकिलालापवाणी । कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटिप्राणकान्ता रम्भोरूः सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १॥ दद्यात् कल्मषहारिणी शिवतनुः पाशाङ्कुशालङ्कृता शर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला । कारुण्यामृतपूर्णवाग्विलसिता मत्तेभकुम्भस्तनी लोलाक्षी भवबन्धमोक्षणकरी निश्रेयसं सन्ततम् ॥ २॥ मध्येसुधाब्धि मणिमण्टपरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविचित्रगात्रीं देवीं भजामि दृढबुद्धतलेडजिह्वां (?) ॥ ३॥ सन्नद्धां विविधायुधैः परिवृतामालीकुमारीगणैः ध्यायेदीप्सितदायिनीं त्रिनयनां…

तीव्रचण्डिकास्तोत्रम्

|| तीव्रचण्डिकास्तोत्रम् || अथवा श्रीमार्कण्डेयपुराणोक्त चण्डिकास्तोत्रम् । ॥ ध्यानम् ॥ चामुण्डा प्रेतगा विकृता चाऽहि भूषणा दंष्ट्रालि क्षीणदेहा च गर्ताक्षी कामरूपिणी । दिग्बाहुः क्षामकुक्षि मुशलं चक्रचामरे अङ्कुशं विभ्रती खड्गं दक्श्ःइणे चाथ वामके ॥ खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती या देवी खड्गहस्ता सकलजनपदव्यापिनी विश्वदुर्गा श्यामाङ्गी शुक्लपाशा द्विजगणगणिता ब्रह्मदेहार्थवासा । var शुक्लनासा द्विजगणनमिता ज्ञानानां साधयन्ती यतिगिरिगमनज्ञान दिव्य…

जयदुर्गास्तोत्रम्

|| जयदुर्गास्तोत्रम् || विनियोगः ॐ अस्य श्रीजयदुर्गा महामन्त्रस्य, मार्कण्डयो मुनिः, बृहती छन्दः, श्रीजयदुर्गा देवता, प्रणवो बीजं, स्वाहा शक्तिः । श्रीदुर्गा प्रसादसिद्ध्यर्थे जपे विनियोगः । हृदयादिन्यासः ॐ दुर्गे हृदयाय नमः । ॐ दुर्गे शिरसि स्वाहा । ॐ दुर्गायै शिखायै वषट् । ॐ भूतरक्षिणी कवचाय हुं । ॐ दुर्गे दुर्गे रक्षिणि नेत्रत्रयाय वौषट । ॐ दुर्गे दुर्गे…

श्री लिंगाष्टकम स्तोत्र

|| श्री लिंगाष्टकम स्तोत्र || ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम्। जन्मजदुःखविनाशकलिङ्ग तत्प्रणमामि सदाशिवलिङ्गम् ॥ देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम्। रावणदर्पविनाशन लिङ्गं तत्प्रणमामि सदाशिवलिङ्गम् ॥ सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धन कारणलिङ्गम्। सिद्धसुराऽसुरवन्दितलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम् ॥ कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गम्। दक्षसुयज्ञविनाशनलिङ्ग तत्प्रणमामि सदाशिवलिङ्गम् ॥ कुंकुमचन्दनलेपितलिङ्गं पंकजहारसुशोभितलिङ्गम्। सञ्चितपापविनाशनलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम् ॥ देवगणार्चितसेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम्। दिनकरकोटि प्रभाकरलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम् ॥ अष्टदलोपरि वेष्टितलिङ्गं सर्वसमुद्भव कारणलिङ्गम्। अष्टदरिद्र विनाशितलिङ्गं तत्प्रणमामि सदाशिवलिङ्गम्…

गायत्रीतत्त्वस्तोत्रम्

|| गायत्रीतत्त्वस्तोत्रम् || श्रीगणेशाय नमः ॥ श्रीगायत्र्यै नमः । श्रीगायत्रीतत्त्वमालामन्त्रस्य विश्वामित्र ऋषिः, अनुष्टुप्छदः, परमात्मा देवता, हलो बीजानि, स्वराः शक्तयः, अव्यक्तं कीलकम्, मम समस्तपापक्षयार्थे गायत्रीतत्त्वपाठे विनियोगः । चतुर्विशतितत्त्वानां यदेकं तत्त्वमुत्तमम् । अनुपाधि परम्ब्रह्म तत्परञ्ज्योतिरोमिति ॥ १॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य तत्परञ्ज्योतिरोमिति ॥ २॥ तत्सदादिपदैर्वाच्यं परमं पदमव्ययम् । अभेदत्वं पदार्थस्य तत्परञ्ज्योतिरोमिति…

श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम्

|| श्रीगायत्र्यष्टोत्तरशतनामस्तोत्रम् || हरिः ॐ । तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला । विचित्रमाल्याभरणा तुहिनाचलवासिनी ॥ १॥ वरदाभयहस्ताब्जा रेवातीरनिवासिनी । प्रणित्ययविशेषज्ञा यन्त्राकृतविराजित ॥ २॥ भद्रपादप्रिया चैव गोविन्दपथगामिनी । देवर्षिगणसन्तुष्टा वनमालाविभूषिता ॥ ३॥ स्यन्दनोत्तमसंस्था च धीरजीमूतनिःस्वना । मत्तमातङ्गगमना हिरण्यकमलासना ॥ ४॥ दीनजनोद्धारनिरता योगिनी योगधारिणी । नटनात्यैकनिरता प्रणवाद्यक्षरात्मिका ॥ ५॥ घोराचारा क्रियासक्ता दारिद्र्यच्छेदकारिणी । यादवेन्द्रकुलोद्भूता तुरीयपदगामिनी ॥ ६॥ गायत्री गोमती गङ्गा…

जिनदेवदर्शनस्तोत्रम्

|| जिनदेवदर्शनस्तोत्रम् || दर्शनं देवदेवस्य दर्शनं पापनाशनम् । दर्शनं स्वर्गसोपानं दर्शनं मोक्षसाधनम् ॥ १॥ दर्शनेन जिनेन्द्राणां साधूनां वन्दनेन च । न चिरं तिष्ठते पापं छिद्रहस्ते यथोदकम् ॥ २॥ वीतरागमुखं दॄष्ट्वा पद्मरागसमप्रभम् । जन्मजन्मकृतं पापं दर्शनेन विनश्यति ॥ ३॥ दर्शनं जिनसूर्यस्य संसार-ध्वान्त-नाशनम् । बोधनं चित्त-पद्मस्य समस्तार्थ-प्रकाशनम् ॥ ४॥ दर्शनं जिनचन्द्रस्य सद्धर्मामृत-वर्षणम् । जन्म-दाह-विनाशाय वर्धनं सुख-वारिधे ॥…

अर्जुनद्वादशनामस्तोत्रम्

|| अर्जुनद्वादशनामस्तोत्रम् || अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः ॥ बीभत्सुर्विजयी पार्थः सव्यसाची धनञ्जयः ॥ १॥ कपिध्वजो गुडाकेशो गाण्डीवी कृष्णसारथिः । एतान्यर्जुननामानि गवां गोष्ठे च यो लिखेत् ॥ २॥ न तत्र पशुरोगादि शुभं शीघ्रं प्रजायते ॥ इति अर्जुनद्वादशनामस्तोत्रं सम्पूर्णम् ॥

श्रीप्रणवाष्टकस्तोत्रम्

|| श्रीप्रणवाष्टकस्तोत्रम् || अचतुराननमुस्वभुवं हरिं महरमेव सुनादमहेश्वरम् । परममुज्वलबिन्दुसदाशिवम् ॥ प्रणवकारमहं प्रणमामितम् ॥ १॥ अरचनाख्यकलामुसुपाकलां मकृतिनाशकलां लयनादगाम् । परमबिन्दुरनुग्रहगां कलां प्रणवकारमहं प्रणमामितम् ॥ २॥ अगणनाथमुकारजनार्दनं मरविमेव सुनादपराम्विकाम् । परमबिन्दुशिवं परमेश्वरं प्रणवकारमहं प्रणमामि तम् ॥ ३॥ अपृथिवीमुजलं मकृशानुजं परमनादमयं परबिन्दुखम् । भुवनबीजमहापरमेश्वरं प्रणवकारमहं प्रणमामि तम् ॥ ४॥ अनिनदं क्षितिचक्रसमुद्भवं हृदयचक्रजमुध्वनिमुज्वलम् । मखमेवसहस्रदले गतं प्रणवकारमहं प्रणमामि तम्…

पूर्णब्रह्मस्तोत्रम्

|| पूर्णब्रह्मस्तोत्रम् || पूर्णचन्द्रमुखं नीलेन्दुरूपं उद्भाषितं देवं दिव्यंस्वरूपं पूर्णं त्वं स्वर्णं त्वं वर्णं त्वं देवं पिता माता बन्धु त्वमेव सर्वं जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहं जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ १॥ कुञ्चितकेशं च सञ्चितवेशं वर्तुलस्थूलनयनं ममेशं पिनाकनीनिका नयनकोशं जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहं जगन्नाथ स्वामी भक्तभावप्रेमी नमाम्यहम् ॥ २॥ नीलाचले चञ्चलया सहितं नन्दनन्दनं त्वं इन्द्रस्य इन्द्रं जगन्नाथस्वामी…

व्यासकृतं पितृस्तोत्रम्

|| व्यासकृतं पितृस्तोत्रम् || जाबालिरुवाच । गुरून् वद महाभाग वेदव्यास जगद्गुरो । गुरूणां तारतम्यञ्च कस्मात् किं फलमुच्यते ॥ १॥ व्यास उवाच । माता पिता गुरुः श्रेयान् ज्येष्ठभ्राता पितामहः । श्वशुरो मातुलश्चैव तथा मातामहः स्मृतः ॥ २॥ पितुर्ज्येष्ठः कनिष्ठश्च भ्राता ज्येष्ठा निजस्वसा । पितुःस्वसा जनन्याश्च स्वसा गुरुजनाः स्मृताः ॥ ३॥ पत्न्यः पितामहादीनां तथैव गुरवः स्मृताः ।…

पार्श्वनाथसहस्रनामस्तोत्रम्

|| पार्श्वनाथसहस्रनामस्तोत्रम् || श्रीकल्याणसागरसूरिकृत श्रीसरस्वत्यै नमः ॥ पार्श्वनाथो जिनः श्रीमान् स्याद्वादी पार्श्वनायकः । शिवतातिर्जनत्राता दद्यान्मे सौख्यमन्वहम् ॥ १॥ नमस्यन्ति नराः सर्वे शीर्षेण भक्तिभासुराः । पापस्तोममपाकर्तुं तं पार्श्वं नौमि सर्वदम् ॥ २॥ यथार्थवादिना येनोन्मूलिताः क्लेशपादपाः । तेनानुभूयते ऋद्धिधीमता सूक्ष्मदर्शिना ॥ ३॥ शम्भवे पार्श्वनाथाय श्रीमते परमात्मने । नमः श्रीवर्द्धमानाय विश्वव्याधिहराय वै ॥ ४॥ दर्वीकरः शुभध्यानाद्धरणेन्द्रमवाप सः ।…

आत्मरक्षाकरं श्रीवज्रपञ्जरस्तोत्रम्

|| आत्मरक्षाकरं श्रीवज्रपञ्जरस्तोत्रम् || ॐ परमेष्ठिनमस्कारं सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॥ १॥ ॐ नमो अरिहन्ताणं शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिधाणं मुखे मुखपटं वरम् ॥ २॥ ॐ नमो आयरियाणं अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं आयुधं हस्तयो दृढम् ॥ ३॥ ॐ नमो लोए सव्वसाहूणं मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो शिला वज्रमयी…

Join WhatsApp Channel Download App