ताम्रपर्णी स्तोत्र
|| ताम्रपर्णी स्तोत्र || या पूर्ववाहिन्यपि मग्ननॄणामपूर्ववाहिन्यघनाशनेऽत्र। भ्रूमापहाऽस्माकमपि भ्रमाड्या सा ताम्रपर्णी दुरितं धुनोतु। माधुर्यनैर्मल्यगुणानुषङ्गात् नैजेन तोयेन समं विधत्ते। वाणीं धियं या श्रितमानवानां सा ताम्रपर्णी दुरितं धुनोतु। या सप्तजन्मार्जितपाप- सङ्घनिबर्हणायैव नृणां नु सप्त। क्रोशान् वहन्ती समगात्पयोधिं सा ताम्रपर्णी दुरितं धुनोतु। कुल्यानकुल्यानपि या मनुष्यान् कुल्या स्वरूपेण बिभर्ति पापम्। निवार्य चैषामपवर्ग दात्री सा ताम्रपर्णी दुरितं धुनोतु। श्री पापनाशेश्वर…