श्रीसुन्दरभक्तस्तुतिः
|| श्रीसुन्दरभक्तस्तुतिः || गौरीशप्रतिबिम्बमद्भुततनुं चाष्टादशाब्दाकृतिं श्रीजम्बूपुरजन्मभाजमनिशं त्यागेशसेवापरम् । गानैर्ग्राहविमुक्तबालजनकानन्दप्रदं वाग्मिनं वन्दे सुन्दरमूर्तिमीशसुहृदं कैलासवासं सदा ॥ १॥ शैवब्राह्मणवंशजः शिवपरब्रह्मानुबिम्बात्मना जातो भूगतशाम्भवस्थलवरानेकानटन् सूक्तिभिः । स्तावं स्तावममर्त्यगीतविभवोऽमर्त्यात्मनैरावतं ह्यारूढो रजताद्रिशृङ्गमगमत् श्रीसुन्दरः सेव्यताम् ॥ २॥ इति श्रीसुन्दरभक्तस्तुतिः समाप्ता ।