वामदेवकृता श्रीगणेशस्तुतिः
|| वामदेवकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ वामदेव उवाच । गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने । सिद्धिबुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥ ५४॥ मूषकारूढ हेरम्ब भक्तवाञ्छाप्रपूरक । ढुण्ढिराजाय ते देव रक्ष मां ते नमो नमः ॥ ५५॥ आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु ते । आदिमध्यान्तरूपाय शङ्करप्रियसूनवे ॥ ५६॥ नानामायाधरायैव मायिभ्यो मोहदायिने । मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः…