Download HinduNidhi App
Misc

श्री सुन्दरराज स्तोत्रम्

Sundararaj Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत
Share This

|| श्री सुन्दरराज स्तोत्रम् ||

लक्ष्मीदिव्यकरारविन्दमृदुलं सम्फुल्लपद्मारुणं
ब्रह्मेशानसुरासुरेन्द्रकनकश्रीमौलिनीराजितम् ।
वज्राब्जध्वजशङ्खचक्रविलसत्कल्पाङ्कुशैर्लाञ्छितं
वन्दे सुन्दरराजपादयुगलं श्रीभूषणैर्भूषितम् ॥ १॥

श्रीमन्तः शठकोपसंयमिमुखा वैकुण्ठभक्तास्तु ये
तेषां श्रेष्ठतमो द्विजोत्तमवरः श्रीविष्णुचित्तो महान् ।
यस्मिन् श्रीमधुरापुरे त्वभिजगौ श्रीमङ्गलाशासनं
तं वन्दे मधुराधिराजममलं व्यूहात्मकं सुन्दरम् ॥ २॥

श्रीमान् श्रीपरतत्त्वनिर्णयमनाः श्रीवल्लभाख्यः प्रभुः
सम्पत्पूर्णगुरूत्तमा दिवि बुधानाहूय शुल्कं धनम् ।
सङ्कल्प्यारभते तदा तु समये श्रीविष्णुचित्तो गुरु-
स्तद् गोष्ठयां मधुरामगाद्बुधवरान् जेतुं महावैभवः ॥ ३॥

श्रीमन्तं वटपत्रशायिकृपया वेदान्तपारङ्गतं
लक्ष्मीनाथनिवासभूतहृदयं श्रीविष्णुचित्तं गुरुम् ।
दृष्ट्वोत्थाय महानुभावमनघं नम्रोऽभवत्तद्गुरु-
स्तत्काले महिमानभिज्ञविबुधाः कुर्वन्ति कोपं परम् ॥ ४॥

सम्पत्पूर्णगुरूत्तमस्तु विबुधक्ष्मापालचूडामणि-
स्तत्काले वदति स्म शास्त्रनिपुणं श्रीविष्णुचित्तं गुरुम् ।
कर्तव्यः परतत्त्वनिर्णय इह श्रीविष्णुचित्त त्वया
तेनोक्तः सदसि स्थितान् स च बुधान् संरम्भते सादरम् ॥ ५॥

वेदान्तस्मृतिशास्त्रवेद्यमहिमं श्रीपाञ्चरात्रस्तुतं
श्रीरामायणभारतादिविदितं निर्बाधमाद्यं महत् ।
श्रीनारायणनामकं च सगुणं तत्त्वं परं शाश्वतं
श्रोतव्यं विबुधा भवद्भिरमलं ज्योतिः फणामो वयम् ॥ ६॥

सत्यं ज्ञानमनन्तमव्ययमजं ज्योतिः सदा निर्मलं
तत्त्वं निर्मलदिव्यमङ्गलगुणं नारायणाद्याख्यकम् ।
वेदान्तस्मृतिपाञ्चरात्रविदितं त्रैलोक्यभूपालकं
ब्रह्मेशानमहेन्द्रदेवजनकं शान्तं महावैभवम् ॥ ७॥

वेदानामपहारदुःखितमना लोकप्रसिद्धो विधि-
स्तत्काले ह्यसुरं निहत्य भगवान् नारायणो वत्सलः ।
कारुण्येन ददाति वेदमखिलं तस्माज्जगन्नायकः
को वा शंसत पक्षपातरहिता यूयं बुधाः केवलम् ॥ ८॥

ईशानः कमलासनस्य शिरसः छेदादभूत् पातकी
प्रायश्चित्तमयं दधार शिरसा वैकुण्ठपादोदकम् ।
तस्मादेव हि पावनत्वमगमद्गङ्गाधराख्यां ततः
को वा शंसत पक्षपातरहिता यूयं बुधा ईश्वरः ॥ ९॥

ब्रह्माणं सृजति स्म वै स भगवान् श्रीनाभिपङ्केरुहात्
रुद्रं सोऽपि पितामहश्च स हरः पञ्चाननः षण्मुखम् ।
तस्माद्वेदपुराणरत्नविदितान्नारायणात् कः प्रभुः ।
यूयं शंसत पक्षपातरहिता विद्वद्वरा ईश्वरः ॥ १०॥

इत्थं वेदपुराणशास्त्रवचनैः श्रीपाञ्चरात्रादिकैः
श्रीरामायणभारतादिवचनैः श्रीविष्णुचित्तो गुरुः ।
तद्गोष्ठयां परतत्त्वनिर्णयमहो कृत्वा बुधान् पण्डितान्
जित्वा तत्र जवेन सर्वविदितं चिच्छेद शुल्कं मुदा ॥ ११॥

इत्याश्चर्यचरित्रमस्य विबुधाः सर्वे महापण्डिताः
सम्पत्पूर्णगुरूत्तमश्च जगतां राजाधिराजः प्रभुः ।
दृष्ट्वा तत्र महावबोधविभवं श्रीविष्णुचित्तं मुदा
कुर्वन्ति स्तुतिमङ्गलं पुलकिताः कल्याणशङ्खध्वनिम् ॥ १२॥

श्रीमान् भूवलयाधिराजविदितः श्रीवल्लभाख्यः प्रभुः
गोष्ठयां तत्कृततत्त्वनिर्णयमहासन्तोषपूर्णाशयः ।
सम्पत्पूर्णगुरूत्तमादिविबुधैः साकं महापण्डितैः
सम्मानं कुरुते महोत्सवमिव श्रीविष्णुचित्तप्रभोः ॥ १३॥

स्कन्धारूढमिमं गजस्य च महावीथिं वलन्तं स्तुतं
भेरीकाहलशङ्खगीतविलसत्कोलाहलप्रोज्ज्वलम् ।
श्रीश्रीवल्लभदेवमुख्यविबुधैर्लोकैः समस्तैर्वृतं
वैकुण्ठः स च वीक्षते स्म रमया श्रीविष्णुचित्तं मुदा ॥ १४॥

आकाशे गरुडे लसन्तममलं लक्ष्मीपतिं सादरं
दृष्ट्वा तत्सुकुमारविग्रहमहासौन्दर्यमालोकयन् ।
अस्थाने भयशङ्कया भगवतः श्रीविष्णुचित्तो गुरु-
र्द्यप्यद्दन्तिगलस्थ एव स जगौ श्रीमङ्गलाशासनम् ॥ १५॥

विद्वद्वृन्दसमानताङ्घ्रियुगलं सम्मानसाम्राज्यगं
विद्याशुल्कधनाढ्यकं गुणनिधिं देवादिभिर्वन्दितम् ।
श्रीश्रीवल्लभदेवराजमहितं श्रीविष्णुचित्ताह्वयं
लक्ष्मीनाथसमीक्षितं गुरुवरं वन्दे महावैभवम् ॥ १६॥

तद्गोष्ठ्याः स च निर्गतः श्रुतिशिरस्सारार्थपारङ्गतः
श्रीश्रीवल्लभदेवराजसहितः श्रीविष्णुचित्तो गुरुः ।
दिव्याष्टाङ्गविमानरत्ननिलयं व्यूहात्मकं सुन्दरं
तेजोराशिमयं महागुणगणं संसेवितुं सत्वरम् ॥ १७॥

सार्धं राजगुरूत्तमादिविबुधैः श्रीगोपुरं सुन्दरं
नत्वा श्रीबलिपीठकं च गरुडं सेनापतिं सादरम् ।
अष्टाङ्गाख्यविमानमद्भुतगुणं संसेव्य साष्टाङ्गतः
तस्यान्तः प्रविशन्तमम्बुजमुखं श्रीविष्णुचित्तं भजे ॥ १८॥

वन्दे सुन्दरराजमिन्दुवदनं वात्सल्यदिव्याद्भुत-
क्षान्त्यौदार्यदयादिसद्गुणनिधिं नारायणं श्रीपतिम् ।
मुक्तारत्नकिरीटदिव्यतुलसीमालामणीन्द्रादिक-
श्रीभूषासमलङ्कृतं रशनया भास्वत्कटीसुन्दरम् ॥ १९॥

अष्टाङ्गाख्यविमानराजनिलयं ब्रह्मादिभिर्वन्दितं
मन्दस्मेरशुभारविन्दवदनं कारुण्यवारान्निधिम् ।
सन्तानं नमतां स्वकीयचरणौ सौलभ्यभूमावधिं
वन्दे सन्ततमम्बुजाक्षममलं व्यूहात्मकं सुन्दरम् ॥ २०॥

श्रीवत्साब्धिसुतामणीन्द्रतुलसीमालालसद्वक्षसं
श्रीमद्दिव्यसुवर्णरत्नमकुटं भूषालसद्विग्रहम् ।
श्रीमद्दिव्यविमानगोपुरमणिप्राकाररत्नोज्ज्वल-
स्थूणासंवृतदिव्यसन्निधिशुभं व्यूहं भजे सुन्दरम् ॥ २१॥

दिव्याष्टाङ्गविमानदिव्यकनकस्थूणासहस्रोज्ज्वल-
श्रीमन्मण्टपगर्भगेहविलसद्दिव्यस्थलीभूषणम् ।
दिव्यश्रीमणिवत्समौक्तिकमणिश्रीहारभूषामणिं
श्रीमन्तं मधुराधिराजममलं व्यूहं भजे सुन्दरम् ॥ २२॥

दिव्याष्टाक्षरमन्त्ररत्नचरमश्लोकार्थनिष्ठावताम् ।
शिष्टानां महतां त्वदीयचरणद्वन्द्वाश्रितानां सताम् ।
पादाम्भोजविशेषभक्तिसहितं मां वीक्ष्य नित्यं स्मर
श्रीमन् सुन्दर वारिजाक्ष कमलानाथ प्रभो देहिनाम् ॥ २३॥

अस्मिन् श्रीमधुरापुरे तव कृपासन्धुक्षितज्ञानिना
गीतं येन मया तु मङ्गलकरं यन्मङ्गलाशासनम् ।
तस्मात्तेन मया समर्पितमिदं दिव्यप्रबन्धात्मकं
लक्ष्मीनाथ महाप्रभो गुणनिधे त्वत्सन्निधौ पाहि माम् ॥ २४॥

इत्थं श्रीभगवन्तमम्बुजमुखं व्यूहात्मकं सुन्दरं
स्तुत्वा तेन समीक्षितस्तु भगवान् श्रीविष्णुचित्तो गुरुः ।
श्रीश्रीवल्लभदेवमुख्यविबुधैः सर्वैरनुज्ञापित-
स्तस्माद्वै वटपत्रशायिनमगादाह्लादपूर्णाशयः ॥ २५॥

तत्रासौ वटपत्रशायिनि महादिव्यस्थले भक्तिमान्
श्रीमन्मण्टपमर्धमण्टमपि श्रीगोपुरं सुन्दरम् ।
तत्कारुण्यविशेषलब्धकनकैरित्यादिकं नित्यशः
कैङ्कर्यं कृतवन्तमद्भुतगुणं श्रीविष्णुचित्तं भजे ॥ २६॥

इत्थं श्रीभगवान् महाद्भुतगुणः श्रीविष्णुचित्तो गुरुः
भक्त्या नित्यमहाप्रभावममलं स्तौति स्म यं सुन्दरम् ।
तं वन्दे द्विजनाथवन्दितपदं व्यूहात्मकं सुन्दरं
श्रीमन्तं मधुरेश्वरस्तुतपदं सर्वात्मना सुन्दरम् ॥ २७॥

श्रियः कान्ताय जाज्वल्यश्रीवत्साङ्कितवक्षसे ।
कल्याणनिधये व्यूहसुन्दरेशाय मङ्गलम् ॥ २८॥

विमाने विश्वकर्मीये वेगवत्यास्तु दक्षिणे ।
वसते श्रीमते व्यूहसुन्दरेशाय मङ्गलम् ॥ २९॥

इति श्रीसुन्दरराजस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री सुन्दरराज स्तोत्रम् PDF

श्री सुन्दरराज स्तोत्रम् PDF

Leave a Comment