Download HinduNidhi App
Surya Dev

श्री सूर्य कवच स्तोत्रम्

Surya Kavacham Sanskrit

Surya DevKavach (कवच संग्रह)संस्कृत
Share This

॥ श्री सूर्य कवच स्तोत्रम् ॥

॥ याज्ञवल्क्य उवाच ॥

श्रृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।
शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥

देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् ।
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥

शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः ।
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥

घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः ।
जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः ॥

स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः ।
पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः ॥

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके ।
दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥

सुस्नातो यो जपेत्सम्यग्योऽधीते स्वस्थमानसः ।
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति ॥

॥ इति श्री सूर्यकवचस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री सूर्य कवच स्तोत्रम् PDF

Download श्री सूर्य कवच स्तोत्रम् PDF

श्री सूर्य कवच स्तोत्रम् PDF

Leave a Comment