|| तारावलिस्तुतिः ||
अज्ञानान्धतमो विमोहितधियां दुर्वादकोलाहलै-
रालीने सकले सनातनपथे कालेयलीलायितैः ।
क्षेमाय क्षितिमण्डले करुणया कृत्वाऽऽकृतिं प्राकृतीं
निर्धूताखिलदुर्मतो विजयते श्रीशङ्करश्शङ्करः ॥ १॥
पुण्यैर्भूतलसम्भ्रमैरुपनिषद्भाष्यादिवाग्गुम्भनैः
शिष्यैश्चाप्यफलीकृते स्वरचितत्र्यैलोक्यरक्षाक्रमे ।
जीयाच्छङ्करसद्गुरोः प्रियकृते जातावतारः पुनः
सोऽयं श्रीरमणो गुरुर्गुणगणैरध्यात्मनिष्ठो मुनिः ॥ २॥
रमणेशपदाम्भोज रजःकणमुपास्महे ।
यद्वासनापरिष्वङ्गाद्विगलन्ति कुवासनाः ॥ ३॥
आह्लादाऽऽवहमञ्जनं नयनयोरङ्गे सुधालेपनं
धैर्यं चेतसि खेदनामकगदप्रोत्सारकं भेषजम् ।
मध्याह्नार्क इव प्रसूतिजलधौ लोकप्रकाशोदयं
पुण्यैः श्रीरमणेश्वरं परिणतैर्धन्या लभन्ते नराः ॥ ४॥
शोणाद्रीशकुटीविहारसरसे दग्धाङ्गजातैधसे
कारुण्यादिगुणैकधाममनसेऽन्वर्थीकृतच्छन्दसे ।
सर्वापद्दुरितान्धसे भवभयप्रोद्धारकात्यौजसे
भक्तश्रेणिशिखादृताङ्घ्रिरजसे सेयन्नतिस्तेजसे ॥ ५॥
मोहातीतस्त्वमसि भगवन् ! मुग्धमूर्तिं दधानो
वेलालङ्घिव्यवहृतिरतो वद्धवन्नानटीषि ।
भक्तत्राणं भवजलनिधेरात्मनैव प्रणेतुं
पर्यङ्केऽस्मिन् वससि यदियं भाति ते कापि लीला ॥ ६॥
दूरीकर्तुं प्रभवति तवोपासनैव प्रजाना-
मेनोराशीनिति गुरुमणे! त्वत्समीपाश्रितानाम् ।
त्वद्भक्तानामपि बहुविधाभीष्टकामार्दितानां
भीतिं किं वा सृजसि भगवन् ! व्यर्थचिन्तानिदानम् ॥ ७॥
नानाशाखाविवृतमहिमा नाशिताशेषमोहः
मौनालम्बी प्रमुषितजटस्साधुसङ्घैरुपेतः ।
मञ्चस्थोऽयं रमणभगवान्दक्षिणामूर्तिरास्ते
प्रत्यासत्तेररुणमहसः प्राप्य सारूप्यलक्ष्मीम् ॥ ८॥
शान्तेरेकं सदनममृतासारशीतं प्रकृत्या
सौम्यं रूपं रमणभगवन् ! दर्शनीयं त्वदीयम् ।
वैराग्यात्ते तृणवदखिलत्यागकाले कराले
द्रष्टुं दृष्ट्या क इव चतुरस्त्वां त्वमेव क्षमोऽसि ॥ ९॥
साक्षात्कृत्याऽरुणधरणिभृद्वासिनं सद्गुरुं त्वां
द्रक्ष्यन्त्यन्यत्किमिव यमिनस्तावकीनोपदेशैः ।
ऐदम्पर्यं निगमशिरसां यत्र सच्चित्स्वरूपे
ब्रह्मैव त्वं तदसि भगवन्नित्यमुक्तस्वरूपम् ॥ १०॥
दारान् बन्धूनपि च तनयान् क्षेत्रवित्तानि गेहं
सन्तस्त्यक्त्वा सकलमपि ते पादपद्मं भजन्ते ।
किन्त्वेतांस्त्वं कपटवचनैर्भीषयन्नाथ ! नैवं
तत्वं ब्रूया न खलु भवतो वञ्चनां ते लभन्ताम् ॥ ११॥
शब्दाद्याख्यैर्विषयनिचयैर्व्यञ्चितं दृष्टनष्टं
सौख्यं दुःखोत्तरमपि मया बुद्ध्यते मोक्षतुल्यम् ।
भोगा एते रमण ! विरसा यस्य ते लेशलेशाः
सान्द्रानन्दस्फुरितजलधिं त्वां तमेवाश्रयामः ॥ १२॥
नाहं याचे रमणभगवन् ! लौकिकं भोगजातं
नापि स्वर्गं सुरपरिबृढाधिष्ठितं ब्रह्मलोकम् ।
याचेऽहं त्वां चरणपतितस्त्वत्पदाब्जैकसेवाऽऽ-
धीनामात्मप्रवणनिपुणां दृष्टिमान्तर्मुखीं ताम् ॥ १३॥
उर्व्यां स्वैरं कतिचन जना देवतानां नृपाणा-
मिभ्यानां वा स्तवनरचनैः कालजालं क्षिपन्तु ।
त्वत्पादाब्जाऽऽकलनजनितानन्दनिष्यन्दसिन्धो-
रन्तश्चारैर्वयमिह सदा कालमेते नयामः ॥ १४॥
गन्तव्या सा प्रभुनिवसती रञ्जनीयास्तदीया
भृत्यास्सेव्यः प्रभुरपि धनैस्सद्म मे पूरणीयम् ।
इत्थं चिन्तां चिरपरिचितां नाथ ! सन्त्यज्य सोऽहं
त्वन्निध्यानात् सफलजननस्स्यां कदा वा वद त्वम् ॥ १५॥
आढ्या दद्युर्वसु वसुमतीं हाटकं वा पटं वे-
त्येवं भ्रान्त्या धनिकसदनं त्वामुपेक्ष्याऽऽश्रयामः ।
लब्धं किन्नो रमण ! भवतोपेक्षया जायमानै-
रेनःकूटैः खलु कृपणता केवलं वर्द्धते नः ॥ १६॥
संविद्धीनस्सुरतरुगणः कामधेनुः पशुस्सा
ग्रावा चिन्तामणिरपि कवौ पक्षपाती च भोजः ।
कर्णो दुष्टाश्रयणकलुषः कालकाङ्क्षी पयोद-
स्त्वौदार्ये ते रमण ! तुलनां याति नान्यो वदान्यः ॥ १७॥
गेहो नाकः प्रणमति खलः पातकं पुण्यति द्रा-
ग्द्वेषी मित्रं विषयजसुखं मोक्षति क्ष्माधिपश्च ।
दासो मृत्युर्भिषजति महादूषणं भूषणं स्या-
द्यत्पादाब्जप्रपतनवशात्तं नमामो भवन्तम् ॥ १८॥
सर्वज्ञस्त्वं जडमतिरहं त्वं प्रभुस्त्वेष दीनः
दुःखागारः प्रतिपदमहं सौख्यपाथोनिधिस्त्वम् ।
सर्वं कर्तुं प्रभवति भवानल्पशक्तिः किलाऽहं
भिन्नावस्था किमिति जनिता मय्यभिन्ने त्वयैव ॥ १९॥
समीहासन्तानैर्हृदयमिदमाकृष्टमदयं
ततोऽन्यद्दैन्यं मे किमिव विपदस्सन्ति शतशः ।
अनाख्येया अन्या अलमलमये ! घूर्णनमिदं
भवोर्मिष्वेतासु प्रवितर गुरो ! चेतसि शमम् ॥ २०॥
त्वन्मूर्तौ मे रमणभगवन् ! मज्जतान्नेत्रयुग्मं
त्वद्ध्यानाध्वन्यपि परवशं स्वान्तमभ्येतु शान्तम् ।
त्वत्पूजार्थं वपुरपि सदा त्वत्स्तुतौ वाक् च भूयात्
इत्थं नोचेदहह ! भुवने स्वैरचारी हतस्स्याम् ॥ २१॥
वेदान्तास्ते कति कति लसन्त्येषु शाखास्त्वनन्ताः
तासामर्थप्रवचनपरं शास्त्रजालं त्वनन्तम् ।
तेषां वर्णग्रहण अपि वा नालमेकं पुमायुः
त्राता नस्त्वं यदि न गुरुराट् किं भवाब्धिं तरेम ॥ २२॥
नामं नामं रमणचरणद्वन्द्वमद्वन्द्वहेतुं
श्रावं श्रावं हृदयहितदास्सूक्तिधारास्तदीयाः ।
ध्यायं ध्यायं रमण भगवन् मूर्तिमव्याजभक्त्या
बोधं बोधं भवजलनिधिं दुस्तरं सन्तरामः ॥ २३॥
प्रसीद रमणप्रभो ! मम हृदि प्रभूतं भयं
निवारय दरिद्रतां दलय देहि बोधं स्वकम् ।
विधेहि करुणानिधे ! शिरसि मे तवाङ्घ्रिद्वयं
विदारय जरामृतिं वितर वाञ्छितं श्रीगुरो ! ॥ २४॥
दीर्घायुष्यं कथमिव जयन्तीदिने प्रार्थयामः
कर्मायत्तं भुवि जनिमता मायुराहुर्महान्तः ।
तान् मोहोत्थान् वशयति भवान् कालकर्मादिभावां-
स्तत्वज्ञानाद्गलिततमसः कालचिन्ता कथं ते ॥ २५॥
भान्वब्देऽस्मिन् सुपदयुजि ते जन्मवारे शुभंयौ
आढ्या भक्ता विलसितकरास्सूपहारैर्महार्घैः ।
सेवन्ते त्वां रमण ! कृतिनः पूज्यपादं कृतज्ञाः
क्षुद्रस्स्तोत्रं त्वदुपहृतये कल्पयंस्तात ! लज्जे ॥ २६॥
जय जय रमणेश ! दीनबन्धो !
जय जय जनतार्तिनाशहेतो ! ।
जय जय भगवन् ! प्रबोधमूर्ते !
जय जय दहनाचलैकलोल ! ॥ २७॥
जय जय करुणामयपुण्यमूर्ते !
जय जय विश्रुतलोकगीतकीर्ते ! ।
जय जय भक्तजनार्पितैकभुक्ते !
जय जय सुन्दरदम्पतीप्रसूते ! ॥ २८॥
तारावलिस्तुतिमिमां रमणेश्वरीयां
श्रुण्वन्ति ये भुवि पठन्ति च भक्तिभाजः ।
वित्तादि वैषयिकसुखेषु विरक्तिरेषां
संसक्तिरात्मनि भवेद्रमणप्रसादात् ॥ २९॥
इति तारावलीस्तोत्रं समाप्तम् ॥
Found a Mistake or Error? Report it Now