
श्री लक्ष्मी स्तोत्रम् (त्रैलोक्य मङ्गलम्) PDF संस्कृत
Download PDF of Trailokya Mangala Lakshmi Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री लक्ष्मी स्तोत्रम् (त्रैलोक्य मङ्गलम्) संस्कृत Lyrics
|| श्री लक्ष्मी स्तोत्रम् (त्रैलोक्य मङ्गलम्) ||
नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे ।
नमो भक्तिप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ १ ॥
नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे ।
सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ २ ॥
महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये ।
वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तु ते ॥ ३ ॥
उद्यद्भानुसहस्राभे नयनत्रयभूषिते ।
रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तु ते ॥ ४ ॥
विचित्रवसने देवि भवदुःखविनाशिनि ।
कुचभारनते देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ५ ॥
साधकाभीष्टदे देवि अन्नदानरतेऽनघे ।
विष्ण्वानन्दप्रदे मातर्लक्ष्मीदेवि नमोऽस्तु ते ॥ ६ ॥
षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये ।
ब्रह्माण्यादिस्वरूपे च लक्ष्मीदेवि नमोऽस्तु ते ॥ ७ ॥
देवि त्वं चन्द्रवदने सर्वसाम्राज्यदायिनि ।
सर्वानन्दकरे देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ८ ॥
पूजाकाले पठेद्यस्तु स्तोत्रमेतत्समाहितः ।
तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥ ९ ॥
इति त्रैलोक्यमङ्गलं नाम श्री लक्ष्मी स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री लक्ष्मी स्तोत्रम् (त्रैलोक्य मङ्गलम्)

READ
श्री लक्ष्मी स्तोत्रम् (त्रैलोक्य मङ्गलम्)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
