भगवत्प्रातस्स्मरण स्तोत्रम् PDF संस्कृत
Download PDF of Bhagavat Pratah Smarana Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
|| भगवत्प्रातस्स्मरण स्तोत्रम् ||
प्रातस्स्मरामि फणिराजतनौ शयानं
नागामरासुरनरादिजगन्निदानं ।
वेदैस्सहागमगणैरुपगीयमानं
कां तारकेतनवतां परमं विधानम् ॥ १ ॥
प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिवहैर्विहितोपहारं ।
सन्दृप्तदानवकदम्बमदापहारं
सौन्दर्यराशि जलराशि सुताविहारम् ॥ २ ॥
प्रातर्नमामि शरदम्बरकान्तिकान्तं
पादारविन्दमकरन्दजुषां भवान्तम् ।
नानावतारहृतभूमिभरं कृतान्तं
पाथोजकम्बुरथपादकरं प्रशान्तम् ॥ ३ ॥
श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितं ।
यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ४ ॥
इति श्रीमत्परमहंसस्वामि ब्रह्मानन्दविरचितं श्रीभगवत्प्रातस्स्मरणस्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowभगवत्प्रातस्स्मरण स्तोत्रम्
READ
भगवत्प्रातस्स्मरण स्तोत्रम्
on HinduNidhi Android App