Shri Ganesh

श्रीगणपतिस्तोत्रम् ७

Ganapati Stotram 7 Sanskrit Lyrics

Shri GaneshStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगणपतिस्तोत्रम् ७ ||

आस्ते घोरसमुद्रवासवदिशापारस्थलीगोपुरात्
बाह्ये वामकरर्थकाशविषये माद्यं महान् पिप्पलः ।
आस्थानं यदुपान्तधन्यधरणीमास्थाय देवः स्वयं
दन्तीन्द्राननविग्रहस्त्रिभुवनं पुष्णाति तैस्तैर्व रैः ॥ १॥

पुरप्रसरदद्भुतं प्रथितदानतिभ्यत्करं
विभोरभिनवात्मजं वटतरुस्थलावासितम् ।
मुहुः फलितपिप्पलद्रुमतटीनिरूढास्पदं-
महागजमदाननं मणिनिधानमाराधये ॥ २॥

परिमलपरिणम्रैः कम्रनानाप्रसूनै-
रविरतमभिरामैरात्तभूषाविशेषम् ।
अपि च निचितलीलाकल्पशिल्पोपचारै-
रुपचितमभिवन्दे दैवतं दन्तिवक्त्रम् ॥ ३॥

चलदलतटभूमिभूषणं
मदकलकुञ्जरमञ्जुलाननम् ।
भजत भजत वृष्टिभि —-
र्हरितहरेण करेण भूषितम् ॥ ४॥

आलोकय महाश्चर्यं मूले पिप्पलशाखिनः ।
लीलाकल्पतरुः कोऽपि खेलामुखगजायते ॥ ५॥

निष्पतन्निबिडामृतदिवमुदितेषु कलाङ्कितम् (निष्पतन्निबिडामृतद्रवपूरितेन्दु)
शिल्पभारधुराधुरन्धरचित्रभूषणभूषितं
कल्पमानकृपाकटाक्षनिरीक्षिताखिलवैभवं
पिप्पलद्रुमविद्रुमस्थलकल्पकद्रुममाद्रिये ॥ ६॥

वन्दे बहुलमाधुर्यकन्दलीललिताद्भुतम् ।
मन्देतरमहैश्वर्यमन्दिरं सिन्धुराननम् ॥ ७॥

मदजलविलुलितकटतटविलुठित-
मधुकरपरिकरमुखरितपरिमलम् ।
अभिमतवरभरवितरणपरिणत-
मदकलकरतलगजमुख जय जय ॥ ८॥

मन्देतरैश्वर्यमहाभिषेक-
सन्दोहधार —। -। -पप्रवाहम् ।
भिन्दानमन्तत्तिमिरं दशाननं
वन्दामहे मत्तगजेन्द्रवक्त्रम् ॥ ९॥

वितरतु विजयोत्सवे —–
विजयमहानिधिरोजसां निधिः ।
अभिनवमदगन्धिसिन्धुराननं
नम्रविपद्धनं महत् —-॥ १०॥

–। -। -सुधारानदाम्बुभारैः
करम्बितं वः क —रम्पिराबन् ।
अभीष्टवृष्टिं —-ष्टगाढं
निधिर्गुणानां च पतिर्गणानाम् ॥ ११॥

निरवधिमदधारानिर्झरोभ्राम्यमाण-
भ्रमरसमरलीलाधोरणीदत्तदृष्टिः ।
अभिमतवरदानव्यग्रहस्ताराविन्दो
करिकलभमुखी नः कामधेनुं धिनोति ॥ १२॥

कल्पितानल्पभूषेण वेषेण बहुलश्रियम् ।
कल्पशाखिनमालम्बे करीन्द्रकलभाननम् ॥ १३॥

कारणं किमपि जन्मभागिनां
पूरणं पुलकिताद्भुतश्रियाम् ।
पारणं भुवनसर्वसम्पदां
वारणेन्द्रवदनं भजेमह ॥ १४॥ (भजे महः)

मदोत्कटकटाङ्गणभ्रमितमत्त भृङ्गाङ्गना-
कलध्वनितधोरणीकलकलोत्सवास्वादिने ।
नमस्त्रिदशमण्डलीमुकुटकोटिकोटीतट-
स्खलच्चरणपल्लवल्लमसहायधाम्ने नमः ॥ १५॥

मदपरिमलक्रीडाक्रोडीकृतभ्रमरच्चटा
निबिडनिबिडश्रीमच्छुण्डातरङ्गितताण्डवम् ।
त्रिदशपरिषत्सेवादिव्याञ्जलिक्रमरञ्जितं
द्विरदवदनं वेषं वन्दामहे भुवनश्रियः ॥ १६॥

विपल्लवान् चः पदपल्लवेन
विधूनुतादानतकल्पशाखी ।
शिखामणिः शिल्पितसिन्धुरश्रीः
श्वश्रेयसानां च गणश्रियां च ॥ १७॥

मददुर्दिननिर्दयादरव्यसनारूढमधुव्रजप्रजाम् । (व्रतप्रजाम्)
शिवयोरयि लोचनादृतां शिशिरां पश्यत विश्वतः श्रियम् ॥ १८॥

दृढमल्लिदलफुड्मलाग्रमालाभिरालिङ्गिननीलगात्रम् ।
विराजते धाम गजेन्द्रवक्त्रं नक्षत्रमालाभिरिवान्तरिक्षम् ॥ १९॥

मङ्गल्यदो हि मदसिन्धुमहाप्रवाहमङ्गीनिरर्गलपरिष्कृतपुष्कराग्रम् ।
तुङ्गानुभावमनुभावशतानुविद्धश‍ृङ्गारभारमवताच्छिचवैभवं वः ॥ २०॥

आलोकयालोकय लोचनाभ्यामाभ्यामुभाभ्यामभिरामसीमम् ।
धामाङ्कुरं कुञ्जरराजवीथिसमुल्लसद्वक्त्रविचित्रभावम् ॥ २१॥

नमो नम्रजगज्जन्तुचिन्तामणिनखाङ्घ्रये ।
मत्तहस्तीन्द्रवक्त्राय चित्राय महसे मुहुः ॥ २२॥

अविसरद्भ्मरीनिकरोद्भटं कटतटे कमनीयमदोत्कटे ।
गजमुखं गहनं भुवनश्रियामभिमतं भवतामभिवर्षतु ॥ २३॥

सर्वतः कुसुमसम्प्लवधारानिर्वृतेन महसा निरवद्यम् ।
गर्वहारि महसां गजवक्त्रं स्वर्वधूसततगीतमुपासे ॥ २४॥

अविरलमदधारं क्रीडाकडारमधुव्रत-
व्रजविलुलितव्यक्तामोदप्रमोदितदिङ्मुखम् ।
हरिपुरवधूहस्तोद्वान्तप्रसूनपरम्परा-
परिमलदिशे दत्तव्रीडं भजामि गजाननम् ॥ २५॥

सर्वगर्जितमदद्विपच्छटानिर्विवादगजराजसम्पदे ।
निर्वृतिप्रियतमाय तेजसे सर्वलोकसुहृदे नमो नमः ॥ २६॥

नमस्त्रिलोकीतिलकाङ्कुराय कराग्रविन्यस्तसमस्तलक्ष्मै ।
करीन्द्रवक्त्राय सुरेन्द्रमौलिमालावलीढप्रपदाय धाम्ने ॥ २७॥

सिन्धुरबन्धुरवदनं सीमश्यामाभिरामशिशिररुचाम् ।
बन्धुरबन्धुजनानां बहुमुखमभिमुखमहो महो जयति ॥ २८॥

दिनकरकरपरिरम्भाविजृम्भाविलसितं शिल्पविकल्पम् ।
समदृशि दृशि सुतरामभिरामं मदगजमुखमधिदैवमुदीयाम् ॥ २९॥

त्वामेकमवलम्ब्यैव स्वाराज्यं गमिता वयम् ।
मामेकमवलम्ब्यैव कारुण्यं गमितो भवान् ॥ ३०॥

अविकलकृपापाङ्गक्रीडातरङ्गितदिङ्मुखं
मदागजमुखाकारं मन्देतरस्फुटदैभवम् ।
भवतु निभृताशेषश्रेयश्श्रयां नियतास्पदं
त्रिभुवनदृशां दृप्तं भाग्याद्भुतं विजयाय वः ॥ ३१॥

भ्रमद्भ्रमरमण्डलीकलकलारवाडम्बर-
स्फुरत्पुलकभूषणं श्रवणशूर्पदर्पोद्धतम् ।
जगज्जयजयध्वनितवैभवोज्जृम्भि —–
प्रियप्रसरनिर्भरं भज गजाननक्रीडितम् ॥ ३२॥

आर्द्रचन्दनरसानुलिप्तयोराविभाति तव कुम्भयोर्द्वयम् ।
भुक्तिमुक्तिसुधयेव निर्भरं पूर्णयोः क्षरणवेगशङ्कया ॥ ३३॥

मत्तहस्तिमुखमस्ति वस्तु वो वाञ्छितानि वितरीतुमुद्यतम् ।
वाञ्छितं ललितकान्तिसम्पदां राशिना च मम मानसेन च ॥ ३४॥

कामात्कि रतु वः कामं धाम सामोद्भवाननम् । (कामान् कि रतु)
रामणीयकसर्वस्वं सर्वस्वं सर्वसम्पदाम् ॥ ३५॥

अयमस्मदीयसुकृताङ्कुरोऽगमो
हरिदङ्गनाः शिशिरयन् दृशां श्रिया ।
विजयत्स्वयं विजयसिन्धुराननो
विजयश्रियं दिशति विश्वतोमुखी ॥ ३६॥ (मुखीं)

शेषाभिरशेषाणामैश्वर्यविशेषबहुधाराणाम् ।
धुरि रचितपट्टबन्धं दैवं दन्तीन्द्रमुखमिदं जीयात् ॥ ३७॥

देव त्वदालोकनधन्यवृत्ति नेत्रद्वयं गात्रमिदं च मन्ये ।
किञ्चान्यदावेदयते जनोऽयं कृतार्थतां केलिकटाक्षलक्ष्म्या ॥ ३८॥

परिपूर्णमनोरथा वयं भवदालोकनकेलिसम्पदा ।
किमिवापरमत्र कीर्त्यते करुणासागरगर्भकिङ्करैः ॥ ३९॥

अथापि कथयामस्ते विस्तरेण गिरां विना ।
भगवन् करुणापाङ्गैः पाहि पाहीति पाहि माम् ॥ ४०॥

इति श्रीकृष्णलीलाशुकमुनिविरचितं श्रीगणपतिस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीगणपतिस्तोत्रम् ७ PDF

श्रीगणपतिस्तोत्रम् ७ PDF

Leave a Comment

Join WhatsApp Channel Download App