Shri Ganesh

श्रीमहालक्ष्मिकृतम् गणपतिस्तोत्रम्

Ganapati Stotram Mahalakshmi Sanskrit Lyrics

Shri GaneshStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीमहालक्ष्मिकृतम् गणपतिस्तोत्रम् ||

॥ श्रीगणेशाय नमः ॥

श्रीमहालक्ष्मीरुवाच ।
नमो महाधरायैव नानालीलाधराय ते ।
सदा स्वानन्दसंस्थाय भक्तिगम्याय वै नमः ॥ १॥

अनन्ताननदेहाय ह्यनन्तविभवाय ते ।
अनन्तहस्तपादाय सदानन्दाय वै नमः ॥ २॥

चराचरमयायैव चराचरविवर्जित ।
योगशान्तिप्रदात्रे ते सदा योगिस्वरूपिणे ॥ ३॥

अनादये गणेशायादिमध्यान्तस्वरूपिणे ।
आदिमध्यान्तहीनाय विघ्नेशाय नमो नमः ॥ ४॥

सर्वातिपूज्यकायैव सर्वपूज्याय ते नमः ।
सर्वेषां कारणायैव ज्येष्ठराजाय ते नमः ॥ ५॥

विनायकाय सर्वेषां नायकाय विशेषतः ।
ढुण्ढिराजाय हेरम्ब भक्तेशाय नमो नमः ॥ ६॥

सृष्टिकर्त्रे सृष्टिहर्त्रे पालकाय नमो नमः ।
त्रिभिर्हीनाय देवेश गुणेशाय नमो नमः ॥ ७॥

कर्मणां फलदात्रे च कर्मणां चालकाय ते ।
कर्माकर्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ ८॥

योगेशाय च योगिभ्यो योगदाय गजानन ।
सदा शान्तिघनायैव ब्रह्मभूताय ते नमः ॥ ९॥

किं स्तौमि गणनाथं त्वां सतां ब्रह्मपतिं प्रभो ।
अतश्च प्रणमामि त्वां तेन तुष्टो भव प्रभो ॥ १०॥

धन्याहं कृतकृत्याहं सफलो मे भवोऽभवत् ।
धन्यौ मे जनकौ नाथ यया दृष्टो गजाननः ॥ ११॥

एवं स्तुतवती सा तं भक्तियुक्तेन चेतसा ।
साश्रुयुक्ता बभूवाथ बाष्पकण्ठा युधिष्ठिर ॥ १२॥

तामुवाच गणाधीशो वरं वृणु यथेप्सितम् ।
दास्यामि ते महालक्ष्मि भक्तिभावेन तोषितः ॥ १३॥

(फलश्रुतिः ।)
गजानन उवाच ।
त्वया कृतं च मे स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
पठतां श‍ृण्वतां देवि नानाकार्यकरं तथा ॥ १४॥

पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः ।
धनधान्यादिसम्भूतं सुखं विन्दति मानवः ॥ १५॥

इति श्रीमहालक्ष्मिकृतम् गणपतिस्तोत्रं सम्पूर्णम् ।
महोदरस्तुतिः

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीमहालक्ष्मिकृतम् गणपतिस्तोत्रम् PDF

श्रीमहालक्ष्मिकृतम् गणपतिस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App