|| ईशान स्तुतिः ||
व्यास उवाच ।
प्रजापतीनां प्रथमं तेजसां पुरुषं प्रभुम् ।
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥ १ ॥
ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् ।
तं गच्छ शरणं देवं वरदं भुवनेश्वरम् ॥ २ ॥
महादेवं महात्मानमीशानं जटिलं शिवम् ।
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ॥ ३ ॥
महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् ।
जगत्प्रधानमधिकं जगत्प्रीतमधीश्वरम् ॥ ४ ॥
जगद्योनिं जगद्द्वीपं जयिनं जगतो गतिम् ।
विश्वात्मानां विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥ ५ ॥
विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम् ।
शम्भुं स्वयम्भुं भूतेशं भूतभव्यभवोद्भवम् ॥ ६ ॥
योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम् ।
सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम् ॥ ७ ॥
लोकत्रयविधातारमेकं लोकत्रयाश्रयम् ।
सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम् ॥ ८ ॥
ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम् ।
दातारं चैव भक्तानां प्रसादविहितान् वरान् ॥ ९ ॥
तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः ।
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ॥ १० ॥
महाकाया महोत्साहा महाकर्णास्तथापरे ।
अननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥ ११ ॥
ईदृशैः स महादेवः पूज्यमानो महेश्वरः ।
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ १२ ॥
तस्मिन् घोरे सदा पार्थ सङ्ग्रामे लोमहर्षणे ।
द्रौणिकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥ १३ ॥
कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् ।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ १४ ॥
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते ।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ १५ ॥
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः ।
विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ १६ ॥
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि ।
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥ १७ ॥
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् ।
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥ १८ ॥
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा ।
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥ १९ ॥
कपर्दिने करालाय हर्यक्ष वरदाय च ।
याम्यायारक्तकेशाय सद्वृत्ते शङ्कराय च ॥ २० ॥
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च ।
हरिकेशाय मुण्डाय कनिष्ठाय सुवर्चसे ॥ २१ ॥
भास्कराय सुतीर्थाय देवदेवाय रंहसे ।
बहुरूपाय शर्वाय प्रियाय प्रियवाससे ॥ २२ ॥
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ।
गिरिशाय सुशान्ताय पतये चीरवाससे ॥ २३ ॥
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ।
पर्जन्यपतये चैव भूतानां पतये नमः ॥ २४ ॥
वृक्षाणां पतये चैव गवां च पतये तथा ।
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ॥ २५ ॥
श्रुवहस्ताय देवाय धन्विने भार्गवाय च ।
बहुरूपाय विश्वस्य पतये मुञ्जवाससे ॥ २६ ॥
सहस्रशिरसे चैव सहस्रनयनाय च ।
सहस्रबाहवे चैव सहस्रचरणाय च ॥ २७ ॥
शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम् ।
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ॥ २८ ॥
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ।
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ॥ २९ ॥
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ।
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् ॥ ३० ॥
वृषायुधं वृषशरं वृषभूतं महेश्वरम् ।
महोदरं महाकायं द्वीपिचर्मनिवासिनम् ॥ ३१ ॥
लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ।
त्रिशूलपाणिं वरदं खड्गचर्मधरं शुभम् ॥ ३२ ॥
पिनाकिनं खण्डपर्शुं लोकानां पतिमीश्वरम् । [खड्गधरं]
प्रपद्ये देवमीशानं शरण्यं चीरवाससम् ॥ ३३ ॥
नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा ।
सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥ ३४ ॥
धनुर्धराय देवय प्रियधन्वाय धन्विने ।
धन्वन्तराय धनुषे धन्वाचार्याय ते नमः ॥ ३५ ॥
उग्रायुधाय देवय नमः सुरवराय च ।
नमोऽस्तु बहुरूपाय नमस्ते बहुधन्विने ॥ ३६ ॥
नमोऽस्तु स्थाणवे नित्यं नमस्तस्मै सुधन्विने ।
नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ॥ ३७ ॥
वनस्पतीनां पतये नराणां पतये नमः ।
मातॄणां पतये चैव गणानां पतये नमः ॥ ३८ ॥
गवां च पतये नित्यं यज्ञानां पतये नमः ।
अपां च पतये नित्यं देवानां पतये नमः ॥ ३९ ॥
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च ।
हराय नीलकण्ठाय स्वर्णकेशाय वै नमः ॥ ४० ॥
इति श्रीमहाभारते द्रोणपर्वणि त्र्यधिकद्विशतोऽध्याये ईशान स्तुतिः ॥
Found a Mistake or Error? Report it Now