Padma Puran (पद्म पुराण)

Padma Puran (पद्म पुराण)

पद्म पुराण हिंदू धर्म के अठारह महापुराणों में से एक महत्वपूर्ण और विशाल पुराण है। इस पुराण का नाम कमल (पद्म) के नाम पर रखा गया है, जो भगवान विष्णु के प्रतीक रूप में देखा जाता है। पद्म पुराण में धर्म, नीति, भक्ति, तीर्थ यात्रा, और पौराणिक कथाओं का विस्तृत वर्णन मिलता है। इसे धार्मिक…

Agni Puran (अग्नि पुराण)

Agni Puran (अग्नि पुराण)

अग्नि पुराण हिंदू धर्म के अठारह महापुराणों में से एक प्रमुख पुराण है। इसे वैदिक साहित्य के हिस्से के रूप में माना जाता है और यह अग्निदेव के नाम पर आधारित है। यह पुराण कई धार्मिक, सामाजिक और सांस्कृतिक विषयों पर विस्तृत जानकारी प्रदान करता है। अग्नि पुराण का पाठ हर हिंदू के लिए अत्यंत…

गणाधिपाष्टकम्

|| गणाधिपाष्टकम् || श्रियमनपायिनीं प्रदिशतु श्रितकल्पतरुः शिवतनयः शिरोविधृतशीतमयूखशिशुः । अविरतकर्णतालजमरुद्गमनागमनै- रनभिमतं (धुनोति च मुदं) वितनोति च यः ॥ सकलसुरासुरादिशरणीकरणीयपदः करटिमुखः करोतु करुणाजलधिः कुशलम् । प्रबलतरान्तरायतिमिरौघनिराकरण- प्रसृमरचन्द्रिकायितनिरन्तरदन्तरुचिः ॥ द्विरदमुखो धुनोतु दुरितानि दुरन्तमद- त्रिदशविरोधियूथकुमुदाकरतिग्मकरः । नतशतकोटिपाणिमकुटीतटवज्रमणि- प्रचुरमरीचिवीचिगुणिताङ्ग्रिनखांशुचयः ॥ कलुषमपाकरोतु कृपया कलभेन्द्रमुखः कुलगिरिनन्दिनीकुतुकदोहनसंहननः । तुलितसुधाझरस्वकरशीकरशीतलता- शमितनताशयज्वलदशर्मकृशानुशिखः ॥ गजवदनो धिनोतु धियमाधिपयोधिवल- त्सुजनमनःप्लवायितपदाम्बुरुहोऽविरतम् । करटकटाहनिर्गलदनर्गलदानझरी- परिमललोलुपभ्रमददभ्रमदभ्रमरः ॥ दिशतु शतक्रतुप्रभृतिनिर्जरतर्जनकृ- द्दितिजचमूचमूरुमृगराडिभराजमुखः…

श्री गणेश पञ्चरत्न स्तोत्रम्

|| श्रीगणेशपञ्चरत्नस्तोत्रम् || श्रीगणेशाय नमः ॥ मुदाकरात्तमोदकं सदाविमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं कपोलदानवारणं…

श्री कृष्ण स्तुति

|| श्री कृष्ण स्तुति || वंशीवादनमेव यस्य सुरुचिङ्गोचारणं तत्परं वृन्दारण्यविहारणार्थ गमनं गोवंश सङ्घावृतम् । नानावृक्ष लतादिगुल्मषु शुभं लीलाविलाशं कृतं तं वन्दे यदुनन्दनं प्रतिदिनं भक्तान् सुशान्तिप्रदम् ॥ एकस्मिन् समये सुचारू मुरलीं संवादयन्तं जनान् स्वानन्दैकरसेन पूर्णजगतिं वंशीरवम्पाययन् । सुस्वादुसुधया तरङ्ग सकललोकेषु विस्तारयन् तं वन्दे यदुनन्दनं प्रतिदिनं स्वानन्द शान्ति प्रदम् ॥ वर्हापीड सुशोभितञ्च शिरसि नृत्यङ्करं सुन्दरं ॐकारैकसमानरूपमधुरं वक्षस्थलेमालिकाम्…

अनामय स्तोत्रम्

|| अनामय स्तोत्रम् || तृष्णातन्त्रे मनसि तमसा दुर्दिने बन्धुवर्ती मादृग्जन्तुः कथमधिकरोत्यैश्वरं ज्योतिरग्र्यम् । वाचः स्फीता भगवति हरेस्सन्निकृष्टात्मरूपा- स्स्तुत्यात्मानस्स्वयमिवमुखादस्य मे निष्पतन्ति ॥ वेधा विष्णुर्वरुणधनदौ वासवो जीवितेश- श्चन्द्रादित्ये वसव इति या देवता भिन्नकक्ष्या । मन्ये तासामपि न भजते भारती ते स्वरूपं स्थूले त्वंशे स्पृशति सदृशं तत्पुनर्मादृशोऽपि ॥ तन्नस्थाणोस्स्तुतिरतिभरा भक्तिरुच्चैर्मुखी चेद् ग्राम्यस्तोता भवति पुरुषः कश्चिदारण्यको वा । नो…

वृन्दादेव्यष्टकम्

|| वृन्दादेव्यष्टकम् || विश्वनाथचक्रवर्ती ठकुरकृतम् । गाङ्गेयचाम्पेयतडिद्विनिन्दिरोचिःप्रवाहस्नपितात्मवृन्दे । बन्धूकबन्धुद्युतिदिव्यवासोवृन्दे नुमस्ते चरणारविन्दम् ॥ बिम्बाधरोदित्वरमन्दहास्यनासाग्रमुक्ताद्युतिदीपितास्ये । विचित्ररत्नाभरणश्रियाढ्ये वृन्दे नुमस्ते चरणारविन्दम् ॥ समस्तवैकुण्ठशिरोमणौ श्रीकृष्णस्य वृन्दावनधन्यधामिन् । दत्ताधिकारे वृषभानुपुत्र्या वृन्दे नुमस्ते चरणारविन्दम् ॥ त्वदाज्ञया पल्लवपुष्पभृङ्गमृगादिभिर्माधवकेलिकुञ्जाः । मध्वादिभिर्भान्ति विभूष्यमाणाः वृन्दे नुमस्ते चरणारविन्दम् ॥ त्वदीयदौत्येन निकुञ्जयूनोः अत्युत्कयोः केलिविलाससिद्धिः । त्वत्सौभगं केन निरुच्यतां तद्वृन्दे नुमस्ते चरणारविन्दम् ॥ रासाभिलाषो वसतिश्च वृन्दावने त्वदीशाङ्घ्रिसरोजसेवा ।…

श्री अघोराष्टकम्

|| श्री अघोराष्टकम् || कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम् । रक्ताकोरकरक्तमाल्यरचितं(रुचिरं)रक्तानुलेपप्रियं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं (दक्षान्त्रं)डमरुं पिशाचमनिशं शूलं च मूलं करैः । घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ नागेन्द्रावृतमूर्ध्निज(र्धज) स्थित(श्रुति)गलश्रीहस्तपादाम्बुजं श्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम् । लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि(यत्कृन्तति)प्राणिनां पाशान्ये क्षुरिकास्त्रपाशदलितग्रन्थिं शिवास्त्राह्वयं (?) । विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं प्राज्यां(ज्यं)नृत्तसुरूपकं चटचटज्वालाग्नितेजःकचम् । (जानुभ्यां)प्रचटत्कृता(रिनिकरं)स्त्रग्रुण्डमालान्वितं वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥…

श्री अमरनाथाष्टकम्

|| श्री अमरनाथाष्टकम् || भागीरथीसलिलसान्द्रजटाकलापम् शीतांशुकान्ति-रमणीय-विशाल-भालम् । कर्पूरदुग्धहिमहंसनिभं स्वतोजम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ गौरीपतिं पशुपतिं वरदं त्रिनेत्रम् भूताधिपं सकललोकपतिं सुरेशम् । शार्दूलचर्मचितिभस्मविभूषिताङ्गम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ गन्धर्वयक्षरसुरकिन्नर-सिद्धसङ्घैः संस्तूयमानमनिशं श्रुतिपूतमन्त्रैः । सर्वत्रसर्वहृदयैकनिवासिनं तम् नित्यं भजाम्यऽमरनाथमहं दयालुम् ॥ व्योमानिलानलजलावनिसोमसूर्य होत्रीभिरष्टतनुभिर्जगदेकनाथः । यस्तिष्ठतीह जनमङ्गलधारणाय तं प्रार्थयाम्यऽमरनाथमहं दयालुम् ॥ शैलेन्द्रतुङ्गशिखरे गिरिजासमेतम् प्रालेयदुर्गमगुहासु सदा वसन्तम् । श्रीमद्गजाननविराजित दक्षिणाङ्कम् नित्यं भजाम्यऽमरनाथमहं…

गिरीश स्तोत्रम्

|| गिरीश स्तोत्रम् || शिरोगाङ्गवासं जटाजूटभासं मनोजादिनाशं सदादिग्विकासम् । हरं चाम्बिकेशं शिवेशं महेशं शिवं चन्द्रभालं गिरीशं प्रणौमि ॥ सदाविघ्नदारं गले नागहारं मनोजप्रहारं तनौभस्मभारम् । महापापहारं प्रभुं कान्तिधारं शिवं चन्द्रभालं गिरीशं प्रणौमि ॥ शिवं विश्वनाथं प्रभुं भूतनाथं सुरेशादिनाथं जगन्नाथनाथम् । रतीनाथनाशङ्करन्देवनाथं शिवं चन्द्रभालं गिरीशं प्रणौमि ॥ धनेशादितोषं सदाशत्रुकोषं महामोहशोषं जनान्नित्यपोषम् । महालोभरोषं शिवानित्यजोषं शिवं चन्द्रभालं गिरीशं…

महालक्ष्मी सुप्रभात स्तोत्र

|| महालक्ष्मी सुप्रभात स्तोत्र || ओं श्रीलक्ष्मि श्रीमहालक्ष्मि क्षीरसागरकन्यके उत्तिष्ठ हरिसम्प्रीते भक्तानां भाग्यदायिनि। उत्तिष्ठोत्तिष्ठ श्रीलक्ष्मि विष्णुवक्षस्थलालये उत्तिष्ठ करुणापूर्णे लोकानां शुभदायिनि। श्रीपद्ममध्यवसिते वरपद्मनेत्रे श्रीपद्महस्तचिरपूजितपद्मपादे। श्रीपद्मजातजननि शुभपद्मवक्त्रे श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्। जाम्बूनदाभसमकान्तिविराजमाने तेजोस्वरूपिणि सुवर्णविभूषिताङ्गि। सौवर्णवस्त्रपरिवेष्टितदिव्यदेहे श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्। सर्वार्थसिद्धिदे विष्णुमनोऽनुकूले सम्प्रार्थिताखिलजनावनदिव्यशीले। दारिद्र्यदुःखभयनाशिनि भक्तपाले श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम्। चन्द्रानुजे कमलकोमलगर्भजाते चन्द्रार्कवह्निनयने शुभचन्द्रवक्त्रे। हे चन्द्रिकासमसुशीतलमन्दहासे श्रीलक्ष्मि भक्तवरदे तव…

महालक्ष्मी कवच

|| महालक्ष्मी कवच || अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य। ब्रह्मा-ऋषिः। गायत्री छन्दः। महालक्ष्मीर्देवता। महालक्ष्मीप्रीत्यर्थं जपे विनियोगः। इन्द्र उवाच। समस्तकवचानां तु तेजस्विकवचोत्तमम्। आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते। श्रीगुरुरुवाच। महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः। चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम्। ब्रह्मोवाच। शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा। चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा। घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी। मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी। स्कन्धौ मे जानकी पातु…

हिमालय स्तुति

|| हिमालय स्तुति || ॐ हिमालयाय विद्महे । गङ्गाभवाय धीमहि । तन्नो हरिः प्रचोदयात् ॥ हिमालयप्रभावायै हिमनद्यै नमो नमः । हिमसंहतिभावायै हिमवत्यै नमो नमः ॥ अलकापुरिनन्दायै अतिभायै नमो नमः । भवापोहनपुण्यायै भागीरथ्यै नमो नमः ॥ सङ्गमक्षेत्रपावन्यै गङ्गामात्रे नमो नमः । देवप्रयागदिव्यायै देवनद्यै नमो नमः ॥ देवदेवविनूतायै देवभूत्यै नमो नमः । देवाधिदेवपूज्यायै गङ्गादेव्यै नमो नमः ॥…

श्री सरस्वती स्तोत्रम्

|| श्री सरस्वती स्तोत्रम् || रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम् मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम् ॥ शशिशुद्धसुधाहिमधामयुतं शरदम्बरबिम्बसमानकरम् । बहुरत्नमनोहरकान्तियुतं तव नौमि सरस्वति पादयुगम् ॥ कनकाब्जविभूषितभूतिभवं भवभावविभावितभिन्नपदम् । प्रभुचित्तसमाहितसाधुपदं तव नौमि सरस्वति पादयुगम् ॥ भवसागरमज्जनभीतिनुतं प्रतिपादितसन्ततिकारमिदम् । विमलादिकशुद्धविशुद्धपदं तव नौमि सरस्वति पादयुगम् ॥ मतिहीनजनाश्रयपारमिदं सकलागमभाषितभिन्नपदम् । परिपूरितविश्वमनेकभवं तव नौमि सरस्वति पादयुगम् ॥ परिपूर्णमनोरथधामनिधिं परमार्थविचारविवेकविधिम् । सुरयोषितसेवितपादतलं तव नौमि…

श्री दुर्गा नक्षत्र मालिका स्तुति

|| श्री दुर्गा नक्षत्र मालिका स्तुति || विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥ यशोदागर्भसम्भूतां नारायणवरप्रियाम् । नन्दगोपकुलेजातां मङ्गल्यां कुलवर्धनीम् ॥ 2 ॥ कंसविद्रावणकरीं असुराणां क्षयङ्करीम् । शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ॥ 3 ॥ वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् । दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥ 4 ॥ भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् ।…

लक्ष्मी आरती

|| लक्ष्मी आरती || जय लक्ष्मी माता, ( मैया ) जय लक्ष्मी माता | तुमको निशदिन सेवत हर-विष्णु-विधाता || ॐ जय ….. उमा रमा बब्रह्माणी तुम ही जगमाता | सूर्य-चँद्रमा ध्यावत नारद ऋषि जाता || ॐ जय ….. दुर्गारूप निरञ्जिनी सुख-सम्पति-दाता जो कोई तुमको ध्यावत रिद्धि-सिद्धि-धन पाता || ॐ जय ….. तुम पाताल निवासिनी तुम…

ॐ जय जगदीश हरे

|| ॐ जय जगदीश हरे || ॐ जय जगदीश हरे स्वामी जय जगदीश हरे भक्त जनों के सङ्कट, दास जनों के सङ्कट, क्षण में दूर करे, ॐ जय जगदीश हरे ॥ 1 ॥ जो ध्यावे फल पावे, दुख बिनसे मन का स्वामी दुख बिनसे मन का सुख सम्मति घर आवे, सुख सम्मति घर आवे, कष्ट…

अर्धनारीश्वर स्तुति

|| अर्धनारीश्वर स्तुति || ॥ श्रीः ॥ वन्देमह्यमलमयूखमौलिरत्नं देवस्य प्रकटितसर्वमङ्गलाख्यम् । अन्योन्यं सदृशमहीनकङ्कणाङ्कं देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ तद्वन्द्वे गिरिपतिपुत्रिकार्धमिश्रं श्रैकण्ठं वपुरपुनर्भवाय यत्र । वक्त्रेन्दोर्घटयति खण्डितस्य देव्या साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ एकत्र स्फटिकशिलामलं यदर्धे प्रत्यग्रद्रुतकनकोज्ज्वलं परत्र । बालार्कद्युतिभरपिञ्जरैकभाग- प्रालेयक्षितिधरश‍ृङ्गभङ्गिमेति ॥ यत्रैकं चकितकुरङ्गभङ्गि चक्षुः प्रोन्मीलत्कुचकलशोपशोभि वक्षः । मध्यं च ऋशिमसमेतमुत्तमाङ्गं भृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥ स्राभोगं घननिबिडं नितम्बबिम्बं पादोऽपि स्फुटमणिनूपुराभिरामः ।…

शिव आरती

|| शिव आरती || सर्वेशं परमेशं श्रीपार्वतीशं वन्देऽहं विश्वेशं श्रीपन्नगेशम् । श्रीसाम्बं शम्भुं शिवं त्रैलोक्यपूज्यं वन्देऽहं त्रैनेत्रं श्रीकण्ठमीशम् ॥ 1॥ भस्माम्बरधरमीशं सुरपारिजातं बिल्वार्चितपदयुगलं सोमं सोमेशम् । जगदालयपरिशोभितदेवं परमात्मं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 2॥ कैलासप्रियवासं करुणाकरमीशं कात्यायनीविलसितप्रियवामभागम् । प्रणवार्चितमात्मार्चितं संसेवितरूपं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 3॥ मन्मथनिजमददहनं दाक्षायनीशं निर्गुणगुणसम्भरितं कैवल्यपुरुषम् । भक्तानुग्रहविग्रहमानन्दजैकं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 4॥…

सर्व देवता गायत्री मन्त्राः

|| सर्व देवता गायत्री मन्त्राः || शिव गायत्री मन्त्रः ॐ तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ गणपति गायत्री मन्त्रः ॐ तत्पुरु॑षाय वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ नन्दि गायत्री मन्त्रः ॐ तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ नन्दिः प्रचो॒दया᳚त् ॥ सुब्रह्मण्य गायत्री मन्त्रः ॐ तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि । तन्नः…

श्रीमन् न्यायसुधा स्तोत्रम्

|| श्रीमन् न्यायसुधास्तोत्रम् || यदु तापसलभ्यमनन्तभवैस्दुतो परतत्त्वमिहैकपदात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ १॥ विहितं क्रियते ननु यस्य कृते स च भक्तिगुणो यदिहैकपदात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ २॥ वनवासमुखं यदवाप्तिफलं तदनारतमत्र हरिस्मरणम् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ३॥ निगमैरविभाव्यमिदं वसु यत् सुगमं पदमेकपदादपि तत् । जयतीर्थकृतौ…

हनुमान् माला मन्त्रम्

|| हनुमान् माला मन्त्रम् || ॐ ह्रौं क्ष्रौं ग्लौं हुं ह्सौं ॐ नमो भगवते पञ्चवक्त्र हनूमते प्रकट पराक्रमाक्रान्त सकलदिङ्मण्डलाय, निजकीर्ति स्फूर्तिधावल्य वितानायमान जगत्त्रितयाय, अतुलबलैश्वर्य रुद्रावताराय, मैरावण मदवारण गर्व निर्वापणोत्कण्ठ कण्ठीरवाय, ब्रह्मास्त्रगर्व सर्वङ्कषाय, वज्रशरीराय, लङ्कालङ्कारहारिणे, तृणीकृतार्णवलङ्घनाय, अक्षशिक्षण विचक्षणाय, दशग्रीव गर्वपर्वतोत्पाटनाय, लक्ष्मण प्राणदायिने, सीतामनोल्लासकराय, राममानस चकोरामृतकराय, मणिकुण्डलमण्डित गण्डस्थलाय, मन्दहासोज्ज्वलन्मुखारविन्दाय, मौञ्जी कौपीन विराजत्कटितटाय, कनकयज्ञोपवीताय, दुर्वार वारकीलित लम्बशिखाय, तटित्कोटि…

श्री सूर्य नमस्कार मन्त्रं

|| श्री सूर्य नमस्कार मन्त्रं || ॐ ध्यायेस्सदा सवितृमण्डलमध्यवर्ती नारायणस्सरसिजासन सन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥ ॐ मित्राय नमः । ॐ रवये नमः । ॐ सूर्याय नमः । ॐ भानवे नमः । ॐ खगाय नमः । ॐ पूष्णे नमः । ॐ हिरण्यगर्भाय नमः । ॐ मरीचये नमः । ॐ आदित्याय नमः ।…

धन्वन्तरी मन्त्रः

|| धन्वन्तरी मन्त्रः || ध्यानं अच्युतानन्त गोविन्द विष्णो नारायणाऽमृत रोगान्मे नाशयाऽशेषानाशु धन्वन्तरे हरे । आरोग्यं दीर्घमायुष्यं बलं तेजो धियं श्रियं स्वभक्तेभ्योऽनुगृह्णन्तं वन्दे धन्वन्तरिं हरिम् ॥ शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः । सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमम्भोजनेत्रम् । कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारुपीताम्बराढ्यम् । वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥ धन्वन्तरेरिमं श्लोकं भक्त्या नित्यं पठन्ति ये । अनारोग्यं न तेषां स्यात् सुखं जीवन्ति…

श्री हनुमत्कवचम्

|| श्री हनुमत्कवचम् || अस्य श्री हनुमत् कवचस्तोत्रमहामन्त्रस्य वसिष्ठ ऋषिः अनुष्टुप् छन्दः श्री हनुमान् देवता मारुतात्मज इति बीजं अञ्जनासूनुरिति शक्तिः वायुपुत्र इति कीलकं हनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ उल्लङ्घ्य सिन्धोस्सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ 1 मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥…

कृष्ण कवचं

|| कृष्ण कवचं || त्रैलोक्य मङ्गल कवचम् श्री नारद उवाच भगवन्सर्वधर्मज्ञ कवचं यत्प्रकाशितम् । त्रैलोक्यमङ्गलं नाम कृपया कथय प्रभो ॥ 1 ॥ सनत्कुमार उवाच शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् । नारायणेन कथितं कृपया ब्रह्मणे पुरा ॥ 2 ॥ ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि ते । अति गुह्यतरं तत्त्वं ब्रह्ममन्त्रौघविग्रहम् ॥ 3 ॥ यद्धृत्वा पठनाद्ब्रह्मा सृष्टिं…

श्री नरसिंह कवचम्

|| श्री नरसिंह कवचम् || नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा । सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ 1 ॥ सर्वसम्पत्करं चैव स्वर्गमोक्षप्रदायकम् । ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ 2 ॥ विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् । लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ 3 ॥ चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् । सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ 4 ॥ [रत्नकेयूरशोभितम्] तप्तकाञ्चनसङ्काशं पीतनिर्मलवासनम् । इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ 5 ॥ विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः…

बृहस्पति कवच

|| बृहस्पति कवच || करन्यासः ॥ गां अङ्गुष्ठाभ्यां नमः । गीं तर्जनीभ्यां नमः । गूं मध्यमाभ्यां नमः । गैं अनामिकाभ्यां नमः । गौं कनिष्ठिकाभ्यां नमः । गः करतलकरपृष्ठाभ्यां नमः ॥ अंगन्यासः ॥ गां हृदयाय नमः । गीं शिरसे स्वाहा । गूं शिखायै वषट् । गैं कवचाय हुम् । गौं नेत्रत्रयाय वौषट् । गः अस्त्राय फट्…

नारायण कवचम्

|| नारायण कवचम् || न्यासः अङ्गन्यासः ॐ ॐ पादयोः नमः । ॐ नं जानुनोः नमः । ॐ मों ऊर्वोः नमः । ॐ नां उदरे नमः । ॐ रां हृदि नमः । ॐ यं उरसि नमः । ॐ णां मुखे नमः । ॐ यं शिरसि नमः । करन्यासः ॐ ॐ दक्षिणतर्जन्यां नमः । ॐ नं दक्षिणमध्यमायां…

दत्तात्रेय वज्र कवचम्

|| दत्तात्रेय वज्र कवचम् || ऋषय ऊचुः । कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौयुगे । धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ 1 ॥ व्यास उवाच । शृण्वन्तु ऋषयस्सर्वे शीघ्रं सङ्कल्पसाधनम् । सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥ 2 ॥ गौरीशृङ्गे हिमवतः कल्पवृक्षोपशोभितम् । दीप्ते दिव्यमहारत्न हेममण्डपमध्यगम् ॥ 3 ॥ रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम् । मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥ 4 ॥ श्रीदेवी उवाच…

महाशाश्ता अनुग्रह कवचम्

|| महाशाश्ता अनुग्रह कवचम् || श्रीदेव्युवाच भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक । प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ 1 महाव्याधि महाव्याल घोरराजैः समावृते । दुःस्वप्नशोकसन्तापैः दुर्विनीतैः समावृते ॥ 2 स्वधर्मविरतेमार्गे प्रवृत्ते हृदि सर्वदा । तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषद्वज ॥ 3 ईश्वर उवाच शृणु देवि महाभागे सर्वकल्याणकारणे । महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम्…

पञ्चमुख हनुमत्कवचम्

|| पञ्चमुख हनुमत्कवचम् || ॥ पञ्चमुख हनुमत्कवचम् ॥ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्रीछन्दः पञ्चमुखविराट् हनुमान् देवता ह्रीं बीजं श्रीं शक्तिः क्रौं कीलकं क्रूं कवचं क्रैं अस्त्राय फट् इति दिग्बन्धः । श्री गरुड उवाच । अथ ध्यानं प्रवक्ष्यामि शृणु सर्वाङ्गसुन्दरि । यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ 1 ॥ पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम्…

अङ्गारक कवचम्

|| अङ्गारक कवचम् || ध्यानम् रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ॥ अथ अङ्गारक कवचम् अङ्गारकः शिरो रक्षेत् मुखं वै धरणीसुतः । श्रवौ रक्तम्बरः पातु नेत्रे मे रक्तलोचनः ॥ 1 ॥ नासां शक्तिधरः पातु मुखं मे रक्तलोचनः । भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥2 ॥ वक्षः…

कन्द षष्टि कवचम्

|| कन्द षष्टि कवचम् || काप्पु तुदिप्पोर्‍क्कु वल्विनैपों तुन्बं पों नॆञ्जिल् पदिप्पोर्कु सॆल्वं पलित्तु कदित्तोङ्गुम् निष्टैयुं कैकूडुं, निमलररुल् कन्दर् षष्ठि कवचन् तनै । कुऱल् वॆण्बा । अमरर् इडर्तीर अमरं पुरिन्द कुमरन् अडि नॆञ्जे कुऱि । नूल् षष्ठियै नोक्क शरवण भवनार् शिष्टरुक्कुदवुं शॆङ्कदिर् वेलोन् पादमिरण्डिल् पन्मणिच् चदङ्गै गीतं पाड किङ्किणि याड मैय नडनं चॆय्युं मयिल् वाहननार्…

वाराही कवचम्

|| वाराही कवचम् || ध्यात्वेन्द्रनीलवर्णाभां चन्द्रसूर्याग्निलोचनाम् । विधिविष्णुहरेन्द्रादि मातृभैरवसेविताम् ॥ 1 ॥ ज्वलन्मणिगणप्रोक्तमकुटामाविलम्बिताम् । अस्त्रशस्त्राणि सर्वाणि तत्तत्कार्योचितानि च ॥ 2 ॥ एतैः समस्तैर्विविधं बिभ्रतीं मुसलं हलम् । पात्वा हिंस्रान् हि कवचं भुक्तिमुक्तिफलप्रदम् ॥ 3 ॥ पठेत्त्रिसन्ध्यं रक्षार्थं घोरशत्रुनिवृत्तिदम् । वार्ताली मे शिरः पातु घोराही फालमुत्तमम् ॥ 4 ॥ नेत्रे वराहवदना पातु कर्णौ तथाञ्जनी । घ्राणं…

श्री मीनाक्षी स्तुति

|| श्री मीनाक्षी स्तुति || अद्राक्षं बहुभाग्यतो गुरुवरैः सम्पूज्यमानां मुदा पुल्लन्मल्लिमुखप्रसूननिवहैर्हालास्यनाथप्रियाम् । वीणावेणुमृदङ्गवाद्यमुदितामेणाङ्क बिम्बाननां काणादादिसमस्तशास्त्रमतिताम् शोणाधरां श्यामलाम् ॥ मातङ्गकुम्भविजयीस्तनभारभुग्न मध्यां मदारुणविलोचनवश्यकान्ताम् । ताम्राधरस्फुरितहासविधूततार राजप्रवालसुषुमां भज मीननेत्राम् ॥ आपादमस्तकदयारसपूरपूर्णां शापायुधोत्तमसमर्चितपादपद्माम् । चापयितेक्षुममलीमसचित्ततायै नीपाटविविहर्णां भज मीननेत्रम् ॥ कन्दर्प वैर्यपि यया सविलास हास नेत्रावलोकन वशीकृत मानसोऽभूत् । तां सर्वदा सकल मोहन रूप वेषां मोहान्धकार हरणां भज मीननेत्राम् ॥…

श्री मीनाक्ष्यष्टकम्

|| श्री मीनाक्ष्यष्टकम् || माधुर्ये महिमे महागिरिसुते मल्लादि संहारिणि मूलाधारकृते महामरकते शोभे महासुन्दरि । मातङ्गि महिमे महासुरवधे मन्त्रोत्तमे माधवि मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥ नानारत्नविभूषणे नवगणे शोभे महासुन्तरि नित्यानन्दवरे निरूपणगुणे निम्नोन्नते पङ्कजे । नाट्ये नाटकवेषधारिणि शिवे नादे कालनर्तकि मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥ कामक्रोधनिवारणे करुणालये कात्यायनि सन्मते कारुण्याकृतिके किरातवरदे कं गं…

बिल्वाष्टक

|| बिल्वाष्टक || त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः । शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥ अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥ शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् । सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥ दन्तिकोटि सहस्राणि वाजपेय शतानि च । कोटिकन्या महादानं एकबिल्वं…

राघवेन्द्र अष्टोत्तर शत नामावलि

|| राघवेन्द्र अष्टोत्तर शत नामावलि || ॐ स्ववाग्दे व तासरि द्ब क्तविमली कर्त्रे नमः ॐ राघवेन्द्राय नमः ॐ सकल प्रदात्रे नमः ॐ भ क्तौघ सम्भे दन द्रुष्टि वज्राय नमः ॐ क्षमा सुरॆन्द्राय नमः ॐ हरि पादकञ्ज निषेव णालब्दि समस्ते सम्पदे नमः ॐ देव स्वभावाय नमः ॐ दि विजद्रुमाय नमः ॐ इष्ट प्रदात्रे नमः ॐ भव्य…

श्री सुब्रह्मण्यहृदय स्तोत्रम्

|| श्री सुब्रह्मण्य हृदय स्तोत्रम् || ॥ करन्यासः ॥ ॐ सुब्रह्मण्याय अङ्गुष्टाभ्यां नमः । षण्मुखाय तर्जनीभ्यां नमः । शक्तिधराय मध्यमाभ्यां नमः । षड्त्रिंशत्कोणाय अनामिकाभ्यां नमः । सर्वतोमुखाय कनिष्ठिकाभ्यां नमः । तारकान्तकाय करतल करपृष्ठाभ्यां नमः ॥ ॥ हृदयादि न्यासः ॥ ॐ सुब्रह्मण्याय हृदयाय नमः । षण्मुखाय शिरसे स्वाहा । शक्तिधराय शिखायै वषट् । षड्त्रिंशत्कोणाय कवचाय हुम्…

स्कन्द षष्ठि कवचम्

|| स्कन्द षष्ठि कवचम् || काप्पु तुदिपोर्क्कु वल्विणैपोम् तुन्बम् पोम् नॆन्जिल् पदिपोर्कु सॆल्वम् पलितु कथित्तु ओन्गुम् निष्टैयुङ् कैकूडुम् निमलर् अरुल् कन्दर् शष्ठि कवचन् तनै अमरर् इडर् तीर अमरम् पुरिन्द कुमरनडि नॆन्जे कुऱि नूल् षष्टियै नोक्क शरवन भवनार् सिश्टरुक् कुडवुम् सॆन्कदिर् वेलोन् पादम् इरण्डिल् पन्मणि चदन्गै गीतम् पाड किङ्किणि याड मैय नडन्चॆयुम् मयिल् वाहननार् कैयिल् वेलाल्…

मुरुकाष्टकम्

|| मुरुकाष्टकम् || ॐ श्री गणेशाय नमः मुरुकष्षण्मुखस्स्कन्दः सुब्रह्मण्यश्शिवात्मजः । वल्लीसेनापतिः पातु विघ्नराजानुजस्सदा ॥ मुरुक श्रीमतान्नाथ भोगमोक्षप्रद प्रभो । देवदेव महासेन पाहि पाहि सदा विभो ॥ मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् । मोचकं सर्वदुःखानां मोहनाशं सदा नुमः ॥ मुरुकेण मुकुन्देन मुनीनां हार्दवासिना । वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥ मुरुकाय नमः प्रातः मुरुकाय नमो निशि…

श्री वासवी कन्यका परमेश्वरी अष्टोत्तर शत नामावलि

|| श्री वासवी कन्यका परमेश्वरी अष्टोत्तर शत नामावलि || ॐ श्रीवासवांबायै नमः । ॐ श्रीकन्यकायै नमः । ॐ जगन्मात्रे नमः । ॐ आदिशक्त्यै नमः । ॐ देव्यै नमः । ॐ करुणायै नमः । ॐ प्रकृतिस्वरूपिण्यै नमः । ॐ विद्यायै नमः । ॐ शुभायै नमः । ॐ धर्मस्वरूपिण्यै नमः । 10 । ॐ वैश्यकुलोद्भवायै नमः ।…

श्री जयस्कन्द स्तोत्रम्

|| श्री जयस्कन्द स्तोत्रम् || ॥ श्रीः ॥ जय देवेन्द्रजाकान्त जय मृत्युञ्जयात्मज । जय शैलेन्द्रजासूनो जय शम्भुगणावृत ॥ जय तारकदर्पघ्न जय विघ्नेश्वरानुज । जय देवेन्द्र-जामातः जय पङ्कजलोचन ॥ जय शङ्करसम्भूत जय पद्मासनार्चित । जय दाक्षायणीसूनो जय काशवनोद्भव ॥ जय भागीरथीसूनो जय पावकसम्भव । जय पद्मजगर्वघ्न जय वैकुण्ठपूजित ॥ जय भक्तेष्टवरद जय भक्तार्तिभञ्जन । जय भक्तपराधीन…

श्रीस्वामिनाथ षट्पदीस्तोत्रम्

|| श्रीस्वामिनाथ षट्पदीस्तोत्रम् || श्रीसुब्रह्मण्याय नमः । श्रीस्वामिनाथं सुरवृन्दवन्द्यं भूलोकभक्तान् परिपालयन्तम् । श्रीसह्यजातीरनिवासिनं तं वन्दे गुहं तं गुरुरूपिणं नः ॥ श्रीस्वामिनाथं भिषजां वरेण्यं सौन्दर्यगाम्भीर्यविभूषितं तम् । भक्तार्तिविद्रावणदीक्षितं तं वन्दे गुहं तं गुरुरूपिणं नः ॥ श्रीस्वामिनाथं सुमनोज्ञबालं श्रीपार्वतीजानिगुरुस्वरूपम् । श्रीवीरभद्रादि गणैस्समेतं वन्दे गुहं तं गुरुरूपिणं नः ॥ श्रीस्वामिनाथं सुरसैन्यपालं शूरादि सर्वासुरसूदकं तम् । विरिञ्चि विष्ण्वादि सुसेव्यमानं…

श्री स्वर्णाकर्षण भैरव अष्टोत्तर शत नामावलि

|| श्री स्वर्णाकर्षण भैरव अष्टोत्तर शत नामावलि || ॐ भैरवेशाय नमः . ॐ ब्रह्मविष्णुशिवात्मने नमः ॐ त्रैलोक्यवन्धाय नमः ॐ वरदाय नमः ॐ वरात्मने नमः ॐ रत्नसिंहासनस्थाय नमः ॐ दिव्याभरणशोभिने नमः ॐ दिव्यमाल्यविभूषाय नमः ॐ दिव्यमूर्तये नमः ॐ अनेकहस्ताय नमः ॥ 10 ॥ ॐ अनेकशिरसे नमः ॐ अनेकनेत्राय नमः ॐ अनेकविभवे नमः ॐ अनेककण्ठाय नमः ॐ…

मङ्गलगौरी अष्टोत्तर शतनामावलि

|| मङ्गलगौरी अष्टोत्तर शतनामावलि || ॐ गौर्यै नमः । ॐ गणेशजनन्यै नमः । ॐ गिरिराजतनूद्भवायै नमः । ॐ गुहाम्बिकायै नमः । ॐ जगन्मात्रे नमः । ॐ गङ्गाधरकुटुम्बिन्यै नमः । ॐ वीरभद्रप्रसुवे नमः । ॐ विश्वव्यापिन्यै नमः । ॐ विश्वरूपिण्यै नमः । ॐ अष्टमूर्त्यात्मिकायै नमः (10) ॐ कष्टदारिद्य्रशमन्यै नमः । ॐ शिवायै नमः । ॐ शाम्भव्यै…

Join WhatsApp Channel Download App