Download HinduNidhi App
Shiva

शिव आरती

Shiv Aarti Sanskrit

ShivaAarti (आरती संग्रह)संस्कृत
Share This

|| शिव आरती ||

सर्वेशं परमेशं श्रीपार्वतीशं वन्देऽहं विश्वेशं श्रीपन्नगेशम् ।
श्रीसाम्बं शम्भुं शिवं त्रैलोक्यपूज्यं वन्देऽहं त्रैनेत्रं श्रीकण्ठमीशम् ॥ 1॥

भस्माम्बरधरमीशं सुरपारिजातं बिल्वार्चितपदयुगलं सोमं सोमेशम् ।
जगदालयपरिशोभितदेवं परमात्मं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 2॥

कैलासप्रियवासं करुणाकरमीशं कात्यायनीविलसितप्रियवामभागम् ।
प्रणवार्चितमात्मार्चितं संसेवितरूपं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 3॥

मन्मथनिजमददहनं दाक्षायनीशं निर्गुणगुणसम्भरितं कैवल्यपुरुषम् ।
भक्तानुग्रहविग्रहमानन्दजैकं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 4॥

सुरगङ्गासम्प्लावितपावननिजशिखरं समभूषितशशिबिम्बं जटाधरं देवम् ।
निरतोज्ज्वलदावानलनयनफालभागं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 5॥

शशिसूर्यनेत्रद्वयमाराध्यपुरुषं सुरकिन्नरपन्नगमयमीशं सङ्काशम् ।
शरवणभवसम्पूजितनिजपादपद्मं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 6॥

श्रीशैलपुरवासं ईशं मल्लीशं श्रीकालहस्तीशं स्वर्णमुखीवासम् ।
काञ्चीपुरमीशं श्रीकामाक्षीतेजं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 7॥

त्रिपुरान्तकमीशं अरुणाचलेशं दक्षिणामूर्तिं गुरुं लोकपूज्यम् ।
चिदम्बरपुरवासं पञ्चलिङ्गमूर्तिं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ 8॥

ज्योतिर्मयशुभलिङ्गं सङ्ख्यात्रयनाट्यं त्रयीवेद्यमाद्यं पञ्चाननमीशम् ।
वेदाद्भुतगात्रं वेदार्णवजनितं वेदाग्रं विश्वाग्रं श्रीविश्वनाथम् ॥ 9॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download शिव आरती PDF

शिव आरती PDF

Leave a Comment