नव दुर्गा स्तोत्र PDF

Download PDF of Nava Durga Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| नव दुर्गा स्तोत्र || चन्द्रार्धधारकतनूं च वरां चराणां वाचालवाङ्मयकरां च विभवां विभूषाम्। विद्याज्ञवन्दितवरां व्रतपर्वपुण्यां वन्दे शुभां शिवसखीं हिमशैलपुत्रीम्। ॐ शैलपुत्र्यै नमः। दोर्भ्यां कमण्डलुसितस्फटिके दधानां ब्रह्मप्रचारनियुतां सुरसेव्यमानाम्। वेदेषु वर्णितवरां विकटस्वरूपां वन्दे हि चोत्तमगुणां श्रुतिवादिनीं ताम्। ॐ ब्रह्मचारिण्यै नमः। कोपप्रतापशरमौर्वियुतां पुराणां चन्द्रप्रकाशसदृशानलभालयुक्ताम्। वीराभिवाञ्छितसमस्तवरप्रदां तां वन्दे विशालवसनां श्रुतचन्द्रघण्टाम्। ॐ चन्द्रघण्टायै नमः। सत्त्वां सुवर्णवदनां सततं सुतप्तां यज्ञक्रियासु वरदां...

READ WITHOUT DOWNLOAD
नव दुर्गा स्तोत्र
Share This
Download this PDF