|| श्रीपूर्णत्रयीशस्तोत्रम् ||
पूर्णत्रय्याख्यपुर्यां हरिभवननिभे स्वालये सन्निषण्णः
पीठे हैमे स कृष्णः फणिवरलसितो हारकोटीरधारी ।
केयूरैः कुण्डलैस्तैर्मणिवरकटकैर्भूषणैर्भासुराङ्गो
माटश्रीरामभूपं कठिनकवचधृक् पातु पूर्णत्रयीशः ॥ १॥
पूर्वं यः कंसहेतोर्निजपितृजननीभ्यां स्तुतो बालकृष्णो
जातः पित्रा निशायां व्रजपतिरमणीसूतिकागेहमध्यम् ।
सन्नीतः स्वीयताते व्रजपतितनयां सम्प्रयाते गृहीत्वा
माटश्रीरामभूपं मृदुहसनपरः पातु पूर्णत्रयीशः ॥ २॥
बालघ्नी पूतना सा शिशुहननकृते प्रेषिता नन्दगेहं
कंसेन क्रूरबुद्ध्या यदुपतितनयं शङ्कमानेन कृष्णम् ।
सम्प्राप्य स्तन्यदुग्धं निजमुखकमले दातुकामां सजीवं
स्तन्यं पीत्वाहनत्तां नृपकुलतिलकं पातु पूर्णत्रयीशः ॥ ३॥
हेमाढ्ये तल्पवर्ये व्रजपतिसुदृशा शायितो जातनिद्रः
तत्काले चागतं तं शकटदितिसुतं योगदृष्टया निशाम्य ।
स्तन्यार्थी रुद्यमानो निजचरणयुगेनोक्षिपन् दैत्यहेयं (दैत्यदेहं)
च्छिन्नाभिन्नाङ्गसन्धिं त्वतनुत स नृपं पातु पूर्णत्रयीशः ॥ ४॥
कंसेन प्रेषितं तं निजहननविधौ चक्रवातस्वरूपा-
दात्मानं सङ्गृहीत्वा गतमपि च तृणावर्त नामानमाशु ।
कण्ठे निष्पीड्य कोपाद्विगलितरसनं शीर्णनेत्रं व्यधाद्यः
सोऽयं तं रामभूपं गुणनिधिमनिशं पातु पूर्णत्रयीशः ॥ ५॥
कस्मिन् काले तु गोपैर्यदुपतितनयो रामकृष्णौ च पांसु-
क्रीडां सञ्चक्रतुस्ते मृदुमिति बुभुजे चीचिरे नन्दपत्न्यै ।
दृष्ट्वा पुत्रस्य वक्त्रं त्रिभुवनसहितं नन्दपत्नी सुभीता
तां पश्यन मन्दहासं बहुतरमतनोत् पातु पूर्णत्रयीशः ॥ ६॥
बालोऽसौ गोपगेहे व्रजकुलरमणीष्वन्यरोहं गतासु
पीठे पीठं विनिक्षिप्य च शिशुमपरं पृष्ठभागेऽस्य तिष्ठन् ।
भित्त्वा शिक्यस्थभाण्डं त्वमृतरससमं पीतवानाशु दुग्धं
माटश्रीरामभूपं शशिनिभवदनं पातु पूर्णत्रयीशः ॥ ७॥
अङ्क त्वारुह्य मातुर्द्रुततरमथनं चावरुध्य प्रवृत्तं
स्तन्यं पातुं निजाङ्कात् ॥ जननीं स्थापयित्वा च चुल्ल्याम् ।
क्षिप्तं दुग्धं ग्रहीतुं त्वगमदथ दृषद्भिन्नपात्रः प्रयातो
हृत्वा हैयङ्गवीनं नृपगणिमपि यः पातु पूर्णत्रयीशः ॥ ८॥
सम्प्राप्योलूखलाग्रं निभृतपदमदं तं च हैयङ्गवीनं
मर्केभ्यः सम्प्रदाय द्रुततरनयनं वीक्ष्य तिष्ठन्तमारात् ।
भिन्नं दध्नोऽपि भाण्डं निजकरमथ सङ्गृह्य बद्धस्तु दाम्ना
गोपस्त्रीभिः स कृष्णो नृपममलधियं पातु पूर्णत्रयीशः ॥ ९॥
आकृष्योलूखलं यः करचरणयुगैश्चङ्क्र्मन् बालकृष्णः
सन्दृष्ट्वा शापहेतोर्धनपतितनयौ भूरुहत्वं प्रपन्नौ ।
भित्वा चोलूखलात्तौ धृतनिजवपुषौ प्रेष्य पश्चात् स्वलोकं
वृक्षस्थो मन्दहासं बहुतरमतनोत् पातु पूर्णत्रयीशः ॥ १०॥
गोप्यस्ता नन्दपत्नीं निजगदुरथ ते पुत्र आगत्य गेहं
वत्सान् बद्धान विमुञ्चत्यथ पिबति पयस्तक्रभाण्डं भिनत्ति ।
पश्चाद्धैयङ्गवीनं हरति परिहसन् बालमुन्मर्द्य याती-
त्येवं चाक्रुश्य याता हसति स च वधूः पातु पूर्णत्रयीशः ॥ ११॥
वीथ्यां क्रीडन् स रामो निजपितृजननीभ्यां मुदालङ्कृताङ्गः
क्रीणीध्वं सत्फलानीत्यथ वचनमहो क्रीणयित्र्या निशम्य ।
धान्यान्यादाय दत्त्वा त्ववददथ स तां मानय त्वं फलानि
धान्यानीत्थं गृहीत्वा फलमथ बुभुजे पातु पूर्णत्रयीशः ॥ १२॥
दृष्ट्वा ह्युत्पातसङ्घान् व्रजपतिरभितो तत्र वस्तुं हि नालं
निश्चित्यैवं स गोपैर्व्रजकुलरमणीभिश्च गोभिः समेतः ।
वृन्दारण्यं प्रपेदे त्वथ हरिरभजत् गोपवत्सैर्घनान्ते
तिष्ठन् गच्छन् हसन् यो मुदमिममल पातु पूर्णत्रयीशः ॥ १३॥
वृन्दाकान्तारमध्ये पशुगणमभितश्चारयन् रामयुक्तो
दृष्ट्वा दैत्यं बकं स्वग्रसनपरमथो हासयित्वात्मदेहम् ।
दग्ध्वा गत्वा तत्तालुमूलं तदनु दितिसुतं छिद्यमानस्तमेनं
द्वेधा कृत्वा सतुण्डात् मुदमगमदुं पातु पूर्णत्रयोशः ॥ २४॥
कस्मिन् काले दु गोपा वनभुवमगमन् चारयन्तोऽथ वत्सान्
लीलार्थं भूषयन्तः स्तबकफलसुमैः काचगुञ्जाफलैः स्वान् ।
दध्मुः शृङ्गाणि वेणून् पिकरुतमपरे चक्रिरे कीशचेष्टां
गायन्तस्तांश्च पश्यन् मुदमगमदसौ पातु पूर्णत्रयीशः ॥ १५॥
तस्मिन् वृन्दावनान्ते व्रजकुलतिलकोऽघासुर भोगिरूपं
तद्वत् क्रान्तः प्रविष्टान् ब्रजशिशुपशुकान् वीक्ष्य चान्तः प्रविश्य ।
वृद्धिं गत्वा तदास्ये तदुदरवसतः प्राणवातान्निरस्या-
रक्षत्तान् गोपवत्सानमृतमयदृशा पातु पूर्णत्रयीशः ॥ १६॥
गास्तास्ता वत्सयुक्ता वनभुवमभितश्चारयन् गोपबालै-
र्वेणुं शृङ्गं च कूजन् श्रममगमदिने मध्यकालं प्रपन्ने ।
बद्ध्वा तद्भानुपुत्रीतटभुवि पुलिने चाधिनिक्षिप्य गोपैः
भुञ्जन नृत्यन् हसन् यो मुदमगमदमुं पातु पूर्णत्रयीशः ॥ १७॥
तत्काले लोककर्ता पशुकुलमनयच्चान्यदेशं तदानीं
याते कृष्णे विचेतुं त्वनयदपि शिशून् गाश्च गोपांश्च दृष्टा ।
कृत्वात्मान द्विधा यः पशुशिशुवपुषं गोत्रवर्णस्वरूपं
तत्तद्गेहं प्रविष्टः स्मितमुखकमलः पातु पूर्णत्रयीशः ॥ १८॥
मुञ्ज … न्नृण परीतो गोकुलै गोपसङ्घा
गावस्तास्ते न दृष्ट्वा यदुकुलपतये प्रोचुराराद्भ्रमन्तः ।
तच्छ्रुत्वाहूयमाना यदुकुलतिलकेनाययुस्ताः स्वनाम्ना
दृष्ट्वा यः प्राप मोदं नरवरमनघं पातु पूर्णत्रयीशः ॥ २६॥
मुञ्जारण्ये समन्ताद्विपिनमुखभको धूमकेतुर्दवाग्निः
सर्वान् वृक्षान परीत्य द्रुततरमुदभूज्जिह्वया लेलिहानः ।
दृष्ट्वा गा वत्रायुक्ता व्रजकुलतनयाश्चुक्रुशुः कृष्णरामौ
तद्दृष्टिं मीलयित्वा स्वयमपिबदमुं पातु पूर्णत्रयीशः ॥ २७॥
कृष्णायाः कूलदेशे निशि पशुपसुता भूरि सम्भूय कृष्णं
गायन्त्यः प्रार्थयानाः पतिमिति नितरां कामतप्ता जगुस्ताः ।
त्वन्नाथास्त्वां भजामः कृणु पदमयि नः कामतप्तस्तनेषु
चेत्येवं प्रार्थितस्तास्त्वभजत कृपया पातु पूर्णत्रयीशः ॥ २८॥
चापस्थेऽर्केऽर्कपुत्र्यास्तटभुवि वसनान्याशु सङ्क्षिप्य नीरं
संयाता गोपिकास्ता द्रुततरमपहृत्यांशुकान्याप वृक्षम् ।
गृह्णीध्वं चेत्यनुक्त्वा (चैनमद्धा) वसनगणमथेत्युक्तवन्तं समीक्ष्य
मुग्धास्ता भूरिलज्जास्त्वपगतमतयो नम्रमुल्यो बभूवुः ॥ २९॥
भूयस्तास्त्वेत्य शीघ्रं करतलबसनैर्यो निमाच्छाद्य नेमुः
नालं कृष्णेन चोक्ताः प्रणमनमिति ताः स्निग्धमुख्यस्तदानीम् ।
साञ्जल्यस्तं प्रणेमुर्विकसितवदनो वस्त्रपूगं ददौ यः
स्वीकृत्यैतद्दधुस्ताः स्मितमुखकमलाः पातु पूर्णत्रयीशः ॥ ३०॥
गोवृन्दैर्गोपवृन्दैर्वनभुवमगमत्तत्र वृक्षान् स दृष्टा
प्राहेत्थं गोपवत्सानमृतनिभफलैः पुष्पवृन्दैर्लताभिः ।
सुच्छायाभिर्नितान्तं पथिकजनकृते चोपकुर्वन्ति वृक्षाः
प्रेक्षव्वं पुण्यवृक्षानिति यदुतनयः पातु पूर्णत्रयीशः ॥ ३१॥
वृन्दारण्येऽथ गास्तास्तृणगणमशितं भक्षितुं चारयन्तो
गोपालाः क्षुत्पिपासाश्रममुषितधियस्तत्र तत्र स्थितास्ते ।
तान् दृष्ट्वा गोपवर्यः श्रमजलमलिनान् गोपवत्सान्नितान्तं
तेषां रक्षाविधौ यो मतिममुमतनोत् पातु पूर्णत्रयीशः ॥ ३२॥
गोपानां भोजनार्थं मखयजनपरान् ब्राह्मणान् पृष्टवन्तो
भिक्षां देहीति गोपा न तु ददुरथ ते कृष्णवाक्याच्च पत्नीः ।
ता दत्त्वा पूर्णमन्नं यदुकुलपतये मोदमापुस्तदन्नैः
योऽरक्षद्गोपवत्सानमुमपि कृपया पातु पूर्णत्रयीशः ॥ ३३॥
यागान् सन्धातुकामं ब्रजपतिमवदद्देवनाथेन किं न
स्त्वस्मद्गोरक्षकाय त्वगकुलपतये यागवर्याः क्रियन्ताम् ।
इत्युक्त्वा चाद्ये तान् व्रजकुलपतिना कारयित्वा मुदा तान्
नन्दादीन् प्राह तुष्टस्त्वहमिति स नृपं पातु पूर्णत्रयीशः ॥ ३४॥
गोपेन्द्रात् स्वीययागप्रतिहतिकुपितेनाशु देवाधिपेन
सन्दिष्टैर्मेघवृन्दैर्व्रजभुवि नितरां वर्षवत्यां कृतायाम् ।
गोपालैः प्रार्थितो यः सरभसमचलं छत्रवद्वामहस्तात्
धत्ते गोवर्धनाख्यं नृपवरमनघं पातु पूर्णत्रयीशः ॥ ३५॥
गोपास्ते नन्दमूचुस्तव शिशुरिति कः पूतनाजीवहन्ता
धून्वानोऽहन् स्वपादं शकटमपि तृणावर्तमालिङ्ग्य कण्ठम् ।
हृत्वा हैयङ्गवीनं व्रजपतिरमणीबन्धितोलूखलेऽन्तः
गच्छन्तौ वृक्षभूतौ धनपतितनयौ भूतलेऽपातयच्च ॥ ३६॥
आत्मानं हन्तुकामं बकमपि मुखतो पाटयद्दैत्यहेयं
नागेशः सूर्यपुत्र्याः पदकमलयुगोन्मन्ध्यनीतोऽन्यदेशम् ।
शृण्वन् गोपालवाक्यान्यवदथ हसन् गर्गवाक्यानि नन्द-
स्त्वित्थं चाश्रर्यकारी व्रजपतितनयः पातु पूर्णत्रयीशः ॥ ३७॥
आसारादक्षितायां व्रजभुवि सुरराट् कामधेन्वा समेत-
स्त्वागत्यारात् सुभीत्या पदयुगमनमत् क्षाम्यतामित्यमुष्य ।
स्तुत्वाथो भक्तिपूर्वं सुरसुरभियुतः प्राविषिय्यावदत्तं
गोविन्देति प्रसिद्धोऽभवदमुमपि यः पातु पूर्णत्रयीशः ॥ ३८॥
एकादश्यां स नन्दस्त्वनशनवशतस्तद्दिने मध्यरात्रे
कालिन्द्यां स्नातुमारादगमदपहरत्पाशिदूतोऽसुरोऽमुम् ।
श्रुत्वा चातः स कृष्णो जलपतिभवनं पूजितस्तेन भक्त्या
तातं स्वीकृत्य तुष्टो व्रजमगमदमुं पातु पूर्णत्रयीशः ॥ ३९॥
नन्दो गोपानवोचत् प्रहसितवदनः पाशिलोकेऽस्य पूजां
श्रुत्वा भक्त्या प्रणेमुस्तदनु मुररिपुः स्वीयभक्त्या प्रहृष्टः ।
वैकुण्ठं त्वानयित्वा निजपितृसविधे दर्शयित्वा च तेभ्यः (तांश्च नीत्वा)
स्वं रूपं नीतवान् यः स्वभुवनमपि तं पातु पूर्णत्रयीशः ॥ ४०॥
कस्मिंश्चिद्रात्रिकाले शरदि वनभुवं सङ्गतः केलिहेतो-
स्तस्मिन् काले सुधांशुर्दिवमगमदथो वेणुगानं स चक्रे ।
तच्छ्रुत्वा गोपिकास्ता द्रुततरमगमन् यत्र कृष्णोऽवतस्थे
हित्वा कार्याण्यहेतोर्निजभवनभवान्याशु कामाभितप्ताः ॥ ४१॥
काश्चिद्धित्वाथ वत्सान् घटमथ पयसः स्थापितं चुल्लिकायां
हित्वा दोहं दुहेन्त्यस्त्वशनमथ पराः पाययन्त्यः शिशूंश्च ।
शुश्रूषन्त्योऽथ भर्तॄन सुमगणमपरा धारयन्त्योऽङ्गरागम् ।
त्वञ्जन्त्यस्स्वक्षियुग्मं विलुलितचिकुरा लोलवस्त्राङ्गभूषाः ॥ ४२॥
भर्त्रा पित्रा च मात्रा स्वसृतसखिभिर्भ्रातृभिर्वृन्धुवर्गैः
सम्प्रेत्यावार्यमाणा हरिहृतमतयः प्रापुराराद्धारिं ताः ।
कृष्णो दृट्वावदत्ताः कुहननरवपुः भर्तृपुत्राः श्वसख्यः
कुप्यन्ति भ्रातरस्ते निजभवनमतो गम्यतां मा चिरं वः ॥ ४३॥
इत्युक्ताः शुष्ककण्ठास्त्वथ हरिमवदन् मन्दमन्दस्वरास्ताः
पृष्टा धर्मस्त्विदानीं न च पितृसहना मातरः कोपमीयुः ।
त्वन्नाथास्त्वां भजन्तीर्भुज मदनहतास्त्वेवमुक्तोऽभजद्यः (भजन्तीस्त्वयि)
तां रात्रिं क्रीडमानो मुदभगमदमुं पातु पूर्णत्रयीशः ॥ ४४॥
इत्येवं क्रीडमानो व्रजकुलरमणीभिः सतोषं तदानीं
दृष्ट्वा गर्वं स तासां नरवरसदृशश्शीघ्रमन्तर्धिमाप ।
कृष्णं नालोकमाना द्रुततरमबलास्तत्र तत्र प्रचेलु-
स्त्वन्देषन्त्यो नितान्तं वनभुवमभितः क्लिष्टबुद्ध्या प्रतप्ताः ॥ ४५॥
वृक्षान् दृष्ट्वालपन्त्यः किमु यदुतनयं दृष्टवांश्चूत वृक्ष (नाली)-
केर त्वं वा कपित्थानस पनसवराश्वत्थ नीपार्जुन त्वम् ।
सिंह त्वं पुण्डरीक त्वमपि करिवर त्वं हि पक्षिप्रवीर
हंस त्वं चक्रवाक त्वमपि च कृपया नन्दसूनुं वदेति ॥ ४६॥
गच्छन्त्योऽन्यत्र देशे पदयुगयुगलं वीक्ष्य काचित्तु गोपी
नाथेनान्यत्र नीता शुभगुणसहितेत्यूचिरे तां च दृष्ट्वा ।
पृच्छन्त्यो गोपवर्यं पुनरपि पुलिनं प्राप्य सर्वाश्च गोप्य-
स्तिष्ठन्त्यश्वालपन्त्यो हरिमथ नितरां मुक्तलज्जाः प्रलेपुः ॥ ४७॥
वल्लव्यः प्रोचुरन्याः स्मरमुषितधियो भाति ते जन्मनामा
नित्यं नृत्तं करोति व्रजभुवि नितरां वर्धते गोकुलं नः ।
पाहि त्वं कामतप्ता द्रुततरमधुनालिङ्ग्य मोदं कुरुष्वे-
त्येवं सम्प्रार्थितो यः पशुपवरसुतः पातु पूर्णत्रयीशः ॥ ४८॥
प्रोचुरता गोपदाराः पुलिनतलगताः पूर्णचन्द्राननं तं
हित्वास्मान् कुत्र यातो मनसिजनिभ हे नः पुरस्तात् त्वमेहि ।
धम्मिल्लेऽस्मान् गृहीत्वा विगलितवसनास्त्वाशु चुम्बस्व गण्डे
वक्षोजौ मर्दय त्वं कनकघटनिभौ नाथ किं वाद्य कुर्मः ॥ ४९॥
धेनुस्वामिन्न याहि द्रुततरमधुना कामतप्तस्तनीनां
त्वस्माकं बिम्बतुल्यं त्वमृतरसयुतं चाधरोष्ठं पिब त्वम् ।
इत्येवं प्रार्थितो यो व्रजकुलरमणीभिस्तदा प्रादुरासीत्
तासां प्रीतिं च कुर्वन् स्मितकमलमुखः पातु पूर्णत्रयीशः ॥ ५०॥
कृष्णं दृष्ट्वा तु गोप्यः स्मितमुखकमलाः शीघ्रमाश्लिष्य सत्यः
रासक्रीडां प्रचक्रुस्त्वथ हरिसहिता गानपूर्वं सनृत्तम् ।
कृष्णो गोपी च कृष्णस्त्वथ पशुपसुतेत्येवमावृत्य हस्तान्
आश्लिष्य प्रेमयुक्ताः स तु मुदमगमत् पातु पूर्णत्रयीशः ॥ ५१॥
कृष्णो नन्दादिगोपा वनमुखमगमन् सेवितुं चाम्बिकां तां
स्नात्वा सारस्वतेऽशोऽम्बुनि मुनिकुसुमैरर्चयन्तः शिवौ तौ ।
गोवस्त्रादीन् द्विजेभ्यो ददुरुदकमथो प्राश्य भक्त्या नितान्तं
देवौ सम्प्रार्थ्य भूयस्त्वभिमतमपि ते भक्तभक्तौ विजह्रुः ॥ ५२॥
तस्यां रात्र्यां तु नन्दं त्वजगरजरठस्त्वग्रहीद्भक्षणार्थं
चुक्रोश त्राहि कृष्णेत्यजगरमुखतो नन्दवाक्यं निशम्य ।
गत्वा पादेन हित्वोरगपरिबृढकं को भवानित्यपृच्छत्
श्रुत्वा कृष्णस्य वाक्यं द्रततरमवदद्भक्तिपूर्व विनम्रः ॥ ५३॥
स्वामिन् मे श्रूयतां भो जगति मम गतिस्त्वङ्गिरोब्राह्मणेन्द्रं
विद्याद्ध्रुक् प्राहसं सत्ववददिति रुषा चोरगत्वं प्रयाहि ।
त्वत्पादस्पर्शमुक्तोऽभवमनुजानीहि गन्तुं सुदर्शं
त्वित्युक्तोऽयं हि चोक्त्वा मुदमगमदमुं पातु पूर्णत्रयीशः ॥ ५४॥
कस्यां रात्र्यां स रामो वनमगमदसौ गोपनारीजनौघै-
र्गायंश्चिक्रीड तस्यां निधिपसहचरः शङ्खचूडोऽभ्युपेत्य ।
तन्नाथं स्त्रीसमूहं भयरहितमनाः प्रैरयद्दिश्युदीच्यां
क्रोशन्तं कृष्ण रामेत्यथ निजसुहृदा गायमानौ वनान्ते ॥ ५५॥ (काल्यमानौ)
तच्छ्रुत्वा रोदनं तौ जगदतुरभयं सालहस्तौ प्रयातौ
तौ दृष्ट्वा विद्रतोऽसौ युवतिजनमवन् सीरपाणिर्व्यतिष्ठन् ।
कृष्णो हत्वा च हृत्वा तमपि मणिवरं दत्तवानग्रजाय
प्रीतास्ता गोपवध्वः स च मुदमगमत् पातु पूर्णत्रयीशः ॥ ५६॥
गोप्यः कृष्णं ह्यदृष्ट्वा निजगदुरथ ताः कार्यमन्यद्विहाय
चान्योन्यं वेदयुक्ता निजहनुममलां वामभागांसदेशे ।
क्षिप्त्वा वेणुं सरन्ध्रं त्वधरपरिसरे चाङ्गुलीभिः पिधाय
सभ्रूभङ्गं त्वपोह्य त्वमृतरससमं यत्र गानं करोति ॥ ५७॥
हे गोप्यो नन्दसूनुर्निजचरणगतान् गोपनारीजनौघा-
नस्मान् हित्वा प्रयातः क्व नु भुवनतले वेणुगानं प्रकुर्वन् ।
श्रुत्वा यद्वेणुगानं गगनमनुगताः सिद्धपत्न्योऽथ सिद्धान्
हित्वा तान्ता अभूवन स्मरमुषितधियो मूर्छिता मुक्तलज्जाः ॥ ५८॥
हे गोप्यो हन्त हन्त स्वकरजलभवेनाथ सङ्गृह्य शृङ्गं
कच्छे धृत्वा च वेणुं ह्युरसि मणियुतां हारवल्लीं प्रधार्य ।
ध्मानं कुर्वन् प्रयातः सुरवरसुदृशो यस्य नादं निशम्य
देवान् हित्वा स्मरार्ता मुमुहुरथ मुहुः स्निग्धमुख्यो नितान्तम् ॥ ५९॥
हे गोप्यो नन्दपत्नी वदनवनभुवोन्मेषकारी दिनेशः
सालिर्बर्हावतंसः स्मिआकमलमुखः पुण्डरीकायताक्षः ।
वेणुं गायन् क्व यातो वृषमृगपशवो वेणुनादं यदीयं
श्रुत्वा तद्दत्तकर्णा विगलितकबलाश्चित्रभूता भवन्ति ॥ ६०॥
वल्लव्यो गोपचोरो द्रुततरमपहृत्याथ यातः क्व वासौ-
यास्माकं चित्तरत्नं हृदयपिठरगं वेणुगानं प्रकुर्वन् ।
गन्धर्व्यो यस्य गानं स्वरवरसहितं प्रीतिपूर्वं गृणन्त्यो
निन्दन्त्यः स्वीयगानं सुमृदुकलगिरः कामतप्तास्त्वभूवन् ॥ ६१॥
हे गोप्यो गोपवेषो निजकरकमले धारयन् यष्टिमेकां
संयुक्तो गोपवत्सैर्वनभुवि रणयन् वेणुनादं क्व यातः ।
व्यत्यस्ता ङ्घ्रिर्यदीयं मृदुतरनिनदं सर्पवर्यास्तु पीत्वा
संश्लाघन्ते शिरोभिर्मणिवरसहितैर्दीर्घजिह्वे प्रसार्य ॥ ६२॥
इत्थं गोपीजनैर्यो निजविरहवशाद्दूयमानान्तरङ्गैः
भूयः प्रस्विन्नगात्रैर्विगलितवसनैर्भूयसाक्रुश्यमानः ।
वत्सान् सम्प्रेर्यमाणः पशुपसुतगणैर्गीयमानात्मकीर्तिः
तं कुर्वन् वेणुनादं व्रजकुलमगमत् पातु पूर्णत्रयीशः ॥ ६३॥
गोष्ठं प्राप्तस्त्वरिष्टः खरतरमतुलं रम्भमाणः सुशृङ्गः
तं दृष्ट्वा कृष्ण कृष्णेत्यव तव सुहृदः शृङ्गिणो भीतभीतान् ।
इत्येवं चुक्रुशुस्तं वृषमवनितले शृङ्गयोः सम्प्रगृह्णन्
निष्पिष्यारादरक्षद्धरिरथ सुहृदः पातु पूर्णत्रयीशः ॥ ६४॥
केशी कंसस्य मित्रं व्रजमगमदसौ वाजिरूपोऽतिकायो
धून्वन् बभ्रूः सटाः स्वाः खुरदलितमहीरेणुभिश्छन्नगात्रः ।
पद्भ्यां हत्वा हरिं तं व्यनददथ रुषा कम्पयन् गोपसङ्घान्
धून्वानः स्वीयपुच्छं त्वतिकुपितमनाश्चण्डवेगोऽञ्जनाभः ॥ ६५॥
तत्क्षेपं वञ्चयित्वा हरिरथ जगृहे पादयोर्भ्रामयित्वा
चिक्षप क्रोशमात्रं पुनराप स रुषा लब्धसज्ञस्तमाप ।
तस्यास्ये स्वीयबाहुप्रसरणमतनोत्तेन दग्धोऽपतत् सः
गोपास्ते मोदमापुः स्वयमपि नृवरं पातु पूर्णत्रयीशः ॥ ६६॥
लीलां नीलायनाख्यां पशुपसुतवराश्चक्रुरन्योन्यमेत्य
केचित् पालास्तु चोरास्त्वजकुलमिति तान् योऽहरच्चोररूपी ।
व्योमो नीत्वाद्रिकुञ्ज पुनरपि हरणे चोद्यतं वीक्ष्य वक्षो-
देशं भित्त्वा वरक्षत् पशुपशिशुगणान् पातु पूर्णत्रयीशः ॥ ६७॥
अक्रूरः कंसवाचा व्रजमगमदथो रामकृष्णौ ननाम
ताभ्यां सम्पूज्य पश्चान्निजपितृचरितं कंसवाक्यं निशम्य ।
नन्देनालोच्य राज्ञे करमपि च घृतं क्षीरमादाय गोपैः
नन्दाद्यौ रामकृष्णौ ययतुरथ रथपृष्ठमारुह्य शीघ्रम् ॥ ६८॥
तत्काले गोपकन्या निजगुणमनुसृत्यादराद्दुःखितास्ताः
वाचा स प्रेमष्ट्यामृतकरनिभया प्रेरयन्नाप कृष्णाम् ।
तस्यां स्नातुं प्रविष्टो यदुवरतनयौ वीक्ष्य चोन्मज्ज्य याने
दृष्ट्वा क्रूरः स कृष्णं फणिवरशयितं प्राप मोदं नितान्तम् ॥ ६९॥
नत्वा स्तुत्वा जलौघे फणिवरशयनं कृष्णमुन्मज्ज्य यानं
सम्प्राप्तः कृष्णरामौ निजनुतिमुदितौ नन्दगोपाद्यनेकैः ।
नीत्वा कंसपुरीं नितान्तमधुरामावेद्य कंसाय तौ
प्राप्तौ स्वीयगृहं जगाम स हरे राज्ञां प्रगृह्यानमन् ॥ ७०॥
द्रष्टुं तां मधुरां ययौ बलमुतो गोपैर्वृतः सर्वतो
हृत्वा वस्त्राणि पुष्पाण्यपि बहुरुचिरं कुङ्कुमं चन्दनं च ।
कुब्जां तामतनोन्नितान्तरमणीं तद्याचितः प्राह यः
कृत्वा कार्यं व्रजे ते सदनमिति मुदा पातु पूर्णत्रयीशः ॥ ७१॥
पृष्दा शालां प्रयातं वन्धिमपि गजं वीक्ष्य मार्गे स्थितं तं
मार्गादानात् स कृष्णो गजमथ तरसोन्मथ्य चोत्पाट्य दन्तम् ।
अम्बष्ठं चापि हृत्वा करिवररदनात् युद्धरङ्गं प्रयातौ
दृष्ट्वा चाणूर ऊचे स्मितमुषितमना मुष्टिकश्चाब्जनाभौ ॥ ७२॥
मल्लोन्मल्लौ युवां तौ नृपसद इदमप्यत्र युद्धं च कुर्मः
चाणूरो मुष्टिकोऽसौ निजकरयुगमारफाल्य चोरुप्रदेशम् ।
बद्ध्वा चान्योन्यहस्तान् द्रुतपदयुगलं चिक्षिपुर्दूरदूरं
वक्षोभिर्मुष्टिभिस्तेत्युयुधुरथ पुनर्जानुभिश्चोत्तमाङ्गैः ॥ ७३॥
चाणूरं सम्प्रगृह्णन् युधि यदुतिलको भ्रामयित्वा कुपृष्ठे
चास्फाल्यापेषयन्तं द्रुतमथ स बलो मुष्टिकं मुष्टिहत्या ।
कूटं चापेषयत्तं शलमथ कुपितस्तोसलं गोपवर्यो
मल्लास्त्वन्येऽथ रङ्गाद्द्रुततरमगमन् भीतभीताः समन्तात् ॥ ७४॥
दृष्ट्वाथो रामकृष्णावतिकुपितमनाः प्राह निःसार्य तान्ता-
वित्युक्ते मातुले स्वे द्रुतमगपदसौ मञ्चवर्यं सभायाम् ।
रोषात् केशान् प्रगृह्य स्वकरकमलतोऽपातयद्युद्धरङ्गे
तस्मिन् कंसे पतित्वाख्यनुमतनुत यः पातु पूर्णत्रयीशः ॥ ७५॥
हत्वा युद्धे च कंसं त्वथ बलसहितो मोचयित्वा स बन्धा-
दम्बां तातं च नत्वा सविनयमनघौ तस्थतुः साञ्जली तौ ।
तावाश्लिष्य स्वपुत्रौ प्रमुदमगमतामुग्रसेनाय राज्यं
दत्त्वा यः प्राप मोदं नृपममलधियं पातु पूर्णत्रयीशः ॥ ७६॥
नन्दं प्रत्यर्च्य गोपान् धनवसनवरैः प्रेषयित्वा व्रजं तान्
सम्प्राप्तौ ब्रह्मचर्यं स्वकुलगुरुमुखाद्गर्गसंज्ञां श्रुतिं तौ ।
काश्यां सान्दीपिनेश्च प्रथितगुरुवरालब्धविद्यौ प्रभास-
क्षेत्रे नष्टं समुद्रे स्वतनयमवृणोत् निष्क्रियार्थं गुरुस्तौ ॥ ७७॥
तौ गत्वा याम्यगेहं गुरुसुतमधुना चानयेत्युक्तमात्रौ
नेतारं च जनं ततोन्बुधिजले हत्वा तदङ्गोद्भवम् ।
शङ्खं हृत्वाथ गत्वा यमपुरिशयनात् प्राप्य पुत्रं गुरोस्तौ
दत्त्वा देशिकपुङ्गवाय तदनुज्ञातौ पुरीं जग्मतुः ॥ ७८॥
कृष्णोऽयं चोद्धवं तं निजसखमवदद्गच्छ शीघ्रं व्रजं तं
तातं नन्दं यशोदां व्रजकुलरमणीः सान्त्वसन्देशतो मे ।
आयाहि (हीति) प्रयुक्तो व्रजमगमदथो स्यन्दनेन प्रपूज्य
नन्दोऽयं यस्य लीलाश्रवणलसितधीः पातु पूर्णत्रयीशः ॥ ७९॥
गोप्यो दृष्ट्वोद्धवं तं भ्रमर इति धिया चाब्रुवन् वञ्चकस्य
बन्धुस्त्वं मा स्पृशाघ्रिं त्वितरयुवतिभिर्दत्तमाल्याङ्गरागः ।
बिम्बाभं चाधरोष्ठं सकृदपि हृदयं वल्लवीनां वनान्ते
क्रूरेणाक्रूरनाम्ना पुरमनुगमितस्तस्य दूतो हि तस्मात् ॥ ८०॥
भृङ्गास्मत्सन्निधौ तं यदुपतिमगुणं गायसि त्वं किमर्थं
स्त्रीणां वक्षोजयुग्मग्रहणपटुतरं धूर्तलोकाग्रगण्यम् ।
तासां स्त्रीणां पुरस्ताद्विजयसखममुं गीयतां तास्तदानीं
इष्टं ते कल्पयन्ति व्रजपतिशिशुना भुज्यमानास्त्रयो याः ॥ ८१॥
ऊचुर्गोप्यः षडङ्घ्रिं कपटयदुपतेर्भूतले वा रसायां
स्वर्लोके वा दुरापाः किमिति युवतयो हासशृङ्गारभूम्नः ।
हित्वा बन्धून पतीन् तान् यमनिशमगमामास्य वाक्याद्वयं नः
कुर्यात् किं प्रेमदृष्टिं बहुतरमलपंश्चोद्धवाग्रे हि कृष्णम् ॥ ८२॥
श्रुत्वा गोपीविलापं यदुवरसचिवः प्राह गोपीरथायं
प्रोष्ठो युष्मत्कृते मां व्रजकुलमधुना प्राहिणोत् सान्त्वयेति ।
अत्रागत्याथ शीघ्रं भजति च भवतीरित्थमुक्त्वा प्रयातो
श्रुत्वा सर्वं च सख्युर्मुदमगादसौ पातु पूर्णत्रयीशः ॥ ८३॥
सैरन्धया मन्दिरं तत् प्रययतुरनघश्चोद्धवश्चक्रपाणिः
तत्पूजां प्राप्य पश्चाच्छयनवरनथो प्राप्तवान् कामतप्ताम् ।
आलिङ्ग्याहो स्त्रियं तामभजत विमलां भूयसामन्त्र्य यातो
माटश्रीरामभूपं स्वभवनमथ यः पातु पूर्णत्रयीशः ॥ ८४॥
कृष्णो रामोद्धवाभ्यां द्रुतमगमदथाक्रूरगेहं वरिष्ठं
दृष्ट्वा तौ रामकृष्णौ प्रणमनमकरोद्भक्तिपूर्वं स ताभ्याम् ।
पूजाभिः पूजयित्वा पदयुगमनयोरभ्यषिञ्चत् स तोयैः
पीत्वा पूतोऽभवत्तन्मृदुहसनपरोऽक्रूरमूचे तदानीम् ॥ ८५॥
दाशार्हाक्रूर गत्वा पुरवरमधुना हस्तिनाख्यं तु कुन्तीं
तत्पुत्रांस्तातहीनान् कुरु नरपतिना पत्तनं सम्प्रणीतान् ।
दृष्ट्वा वृत्तान्तमेषां कुरु नगरपतेरन्धनेत्रस्य भूयो
ज्ञात्वा चायाहि शीघ्रं त्विति यदुपतिना प्रेषितस्तत्र यातः ॥ ८६॥
गत्वा कुन्तीं सपुत्रां त्वनुनयवचसा सान्त्वयित्वान्धनेत्रं
दृष्ट्वान्यान् द्रोणभीष्मप्रभृतिकुरुवरान् पाण्डुपुत्रास्त्वदीयाः ।
पोष्यास्ते तातहीनास्तव पदशरणा यामि राष्ट्रं त्विदानी-
मित्युक्त्वागत्य यस्मादवददमुमसौ पातु पूर्णत्रयीशः ॥ ८७॥
श्रुत्वा कंसं हतं तं रथकरिहरिभिः पत्तिसङ्घैर्जराया
अत्रायं मागधाख्यो यदुपुरमगमत् कंसहन्त्रा नियोद्धुम् ।
कृत्वा युद्धं स रामान्निहतनिजबलो बन्धितः कृष्णमुक्तो
दुःखार्तोऽगात्तदानीं सुरगणनुदितः पातु पूर्णत्रयीशः ॥ ८८॥
इत्थं त्वक्षोहिणीभिर्दश च पुनरसौ सप्तवारं च युद्ध्वा
भग्नो भूत्वाथ यातस्तदनु यवनपः स्वीयसैन्यैर्निरुद्धः ।
तत्काले द्वारकायां निजजनमनयद्योगमायाप्रभावात्
तद्रक्षायै बलं चागमयदथ हरिः पातु पूर्णत्रयीशः ॥ ८९॥
पुर्या निष्क्रान्तमेनं स तु यवनवरः प्राद्रवन्निद्रितं तं
अद्रेरन्तर्गुहाया नृपतिमथ पदाहत्य तद्दृष्टिदग्धः ।
भस्मीभूतस्तदानीं यदुपतिरगमत्तत्पुरस्तात् स दृष्ट्वा
नत्वा सम्प्राप्य चेष्टं तपसि कृतमनाः प्रापयाद्रिं नृपेन्द्रः ॥ ९०॥
प्रत्यावृत्याथ राज्यं यवनगणवृतं संहरन् म्लेच्छसङ्घान्
हृत्वा द्रव्यं प्रयातौ यदुवरतनयो मार्गमध्ये स दृष्ट्वा ।
अक्षोहिण्या वृतस्तौ द्रुततरमगमच्चेलतुर्दूरदूरं
पादाभ्यां पर्वताग्रं हरिवरसदृशौ प्रापतू रामकृष्णौ ॥ ९१॥
सोऽप्यावृत्य स्वसैन्यै र्गिरिवरमभितस्तावदृष्ट्वा कृशानुं
दत्त्वा सद्यो गिरीन्द्रं त्वदहदथ जवाद्रामकृष्णौ गिरीन्द्रात् ।
तस्माच्चाधो निपत्य स्वपुरमगमतां सिंहशार्दूलवेगौ
निर्यातो मागधोऽसौ निजपुरमथ तौ यादवेन्द्रावदृष्ट्वा ॥ १२॥
आनर्तो रैवताख्यो निजवरतनयां रेवतीं दत्तवांस्तां
रामायाथो स कृष्णो द्विजवरवचनात् कुन्डिनं प्राप सद्यः ।
हृत्वासौ रुक्मिणीं तां यदुवरतनयश्चैद्यराजाय क्लृप्तां
भूपानां पश्यतां तद्रथवरमगमत् पातु पूर्णत्रयीशः ॥ ९३॥
राजानः क्रोधयुक्ता द्रुततरमगमन् योद्धुमावृत्य सैन्यैः
वीराः सम्प्रापुरेते यदुबलपतयः सम्प्रचुक्रुर्मृघं तैः ।
कृष्णश्चापं विधून्वंस्त्वरिषु बहुशरान् प्रैरयत्तेऽपि भग्नाः
याताश्चैद्यं निमग्नं व्यसनजलनिधौ सान्त्वयामासुरेनम् ॥ ९४॥
रुक्मी कोपाद्रथस्थो हरिमवददसौ चोर किं यासि हृत्वा
कन्यामेनां विसृज्य व्रज यदि तु न चेत्त्वां निहन्यां शरौघैः ।
इत्युक्त्वा भल्लबाणानमुचदथ हरिर्बाणवर्षै रथं तं
छित्त्वा केशांश्च चापं व्यसृजदमुमसौ मुन्डयन् रामवाक्यात् ॥ ९५॥
वाद्यानुद्घुष्य चारात् पुरमगमदसौ ब्राह्मणैर्बन्धुवर्गैः
मात्रा पित्रा च राज्ञा निजसहजवरेणाशु सङ्गम्य पुर्याम् ।
रुक्मिण्याः पाणिपद्मं परिणयविधिना तद्गृहीत्वा हसन् यो
भेजे मोदं नितान्तं स्मितवदन इमं पातु पूर्णत्रयीशः ॥ ९६॥
प्रद्युम्नं चाम्बुधौ तं व्यसृजदथ रुषा शम्बरस्त्वग्रसीत्तं
मत्स्यः कैवर्तसङ्घा ददुरथ झषमस्मै पुनः सोऽपि तस्यै ।
मायावत्यै तदन्तःस्थितममुमथ सारक्षदारब्धकामा
ज्ञातार्थं यौवने तं यदुवरतनयं चाकरोत् कामपत्नी ॥ ९७॥
श्रुत्वा पन्याः सकाशान्निजरिपुमसुरं शम्बरं युध्यमानं
खड्गेनापाहरत्तद्गलमथ निजया भार्यया नीयमानः ।
गत्वा स्वीयगृहं नितान्तमहितं मात्रा च पित्रा स्वकैः
देवक्यानकदुन्दुभिप्रभृतिभिः संलाल्यमानोऽवसत् ॥ ९८॥
सत्राजित्त्वेककाले मणिवरमनुजो धारयन् काननान्तं
यातो जग्राह रत्नं त्ववददिति हरिस्तच्छ्रुतं शौरिणाथ ।
तन्मार्ष्टुं स्वीयसङ्घैर्वनमविशदसौ सिंहशग्नं प्रसेनं
सिंहं चर्क्षेण भग्नं बिलमविशदवस्थाप्य बन्धून निशाम्य ॥ ९९॥
तं दृष्ट्वा भल्लराजस्त्वगमदविनयाद्योद्धुमासीच्च युद्धं
त्वष्टाविंशद्दिनान्तं त्वनवरतमथो तन्निशाम्य स्वनाथम् ।
दत्त्वासौ स्वीयकन्यां मणिवरमपि तौ जाम्बवान् प्रेष्य पश्चात्
मोदं भेजे हरिस्तौ युवतिमणिवरौ पातु पूर्णत्रयीशः ॥ १००॥
लब्ध्वा स्त्रीरत्नवर्यं मणिवरमपि सम्प्राप्य राज्ञः सभां तां
नीत्वा सत्राजितं तं स मणिवरमदान् पश्यतां चादवानाम् ।
सत्राजित् स्वीयकन्यां मणिवरमपि तद्रोषशान्त्यै ददौ तत्
रत्नं नो सत्यभामामभजत स हरिः पातु पूर्णत्रयीशः ॥ १०१॥
श्रीकृष्णे हस्तिनाख्यं गतवति च पुरं प्राप्य सम्भाजितं तं
हत्वा सङ्गृह्म रत्नं शतधनुरगमत्तत्सुता सत्यभामा ।
दृष्ट्वा वृत्तं स्वतातं कुरुपुरमगमत् स्वीयनाथाय चोचे
श्रुत्वा तद्रामकृष्णौ निजपुरमनुसम्प्रापतुः स्यन्दनेन ॥ १०२॥
ज्ञात्वायान्तं च कृष्णं तदनु सकृतवर्मान्विताक्रूरमेत्य
द्राक्र्ँ साहाय्ये निराशः शतधनुरथ तद्रत्नमक्रूरसंज्ञे ।
निक्षिप्यागादुदूचीं हरिवरमधिरुह्याथ रामेण कृष्णो
गत्वा तं दूरदूरं हरिरमुमकरोत् कृत्तकण्ठं स्वचक्रात् ॥ १०३॥
कृष्णो रत्नं विमृश्यालभत न तु यदागात् पुरीं द्वारकाख्यां
उक्त्वा भार्यासुहृद्भिः सह निजगुरवे चोर्ध्वकृत्यं विधाय ।
आनाय्याक्रूरसंज्ञं मणिमथ सुहृदां दर्शयित्वा निवृत्य
स्वस्मिंल्लोकोक्तिदोषं मुदमगमदमुं पातु पूर्णत्रयीशः ॥ १०४॥
इन्द्रप्रस्थं स गत्वा विजयसखयुतः सूर्यपुत्रीतटान्ते
कालिन्दीं तत्र दृष्ट्वा रथवरमधिरोप्याययौ द्वारकां ताम् ।
तामुद्वाह्याथ तात स्वसृवरतनयां मित्रविन्दामवन्ती-
नाथस्याथोपयेमे नृपमतुलयशाः पातु पूर्णत्रयोशः ॥ १०५॥
सत्यां कौसल्यपुत्रीं गिरिवरसदृशान् सप्त तान् गोवृषान् सः
जित्वा चोद्वाह्य पश्चात् परिणयमकरोत् केकयास्यात्मजायाः ।
भद्रायामाद्रपुत्रीं गुणगणसहितां लक्ष्मणां चोपयेमे
चाष्टौ ताः पट्टनारीरुदवहदपि यः पातु पूर्णत्रयीशः ॥ १०६॥
गत्वा प्राग्ज्योतिषाख्यं पुरमथ स हरिर्भेदयित्वा च दुर्गा-
ण्यायान्तं पञ्चशीर्षं मुरमतिनिगदन् युध्यमानं स्वचक्रात् ।
हृत्वा तत्कण्ठसङ्घं नरकमपि तदा शूरशूरं शतेन
युक्तं नारीजनाष्टद्वितयदशशतं नीतवान् द्वारकां ताम् ॥ १०७॥
गत्वा स्वर्लोकमिन्द्रं सुरगणसहितं युध्यमानं नितान्तं
जित्वा तत्कल्पवृक्षं हरिरथ गरडेनोह्य नीतं गृहान्ते ।
सत्राजित्कन्यकाया विकसितवदनायास्तु शृङ्गारभूमौ
निक्षिप्यासां गृहस्थो मदन इव बभौ पातु पूर्णत्रयीशः ॥ १०८॥
तासां स्त्रीणां गृहस्थः स सुखमनुभवन् मोदमानोऽथ धर्मान्
गार्हस्थ्यान् सम्प्रकुर्वन् त्वथ वररमणीं रुक्मिणीं नर्मवाक्यैः ।
प्रीत्या संलालयन् तां बहुतनयवरान् ताभ्य उत्पाद्य कृष्णः
प्रद्युम्नादींश्च पौत्रानपि मुदमगमत् पातु पूर्णत्रयीशः ॥ १०९॥
प्रद्युम्नो रुक्मिपुत्रीं परिणयविधिना चोपयेमेऽनिरुद्धो
रुक्मीपौत्र्या विवाहं स्वयमपि कृतवान् रोचनाया रमण्याः ।
द्यूते रामोऽजयत्तं स च कपटयुतस्त्वं जितो नाहमूचे
श्रुत्वा शक्त्याहनत्तं निजपुरमगमद्रुक्मिणं पुत्रपौत्रैः ॥ ११०॥
स्वप्राप्तं बाणपुत्री हरिसुततनयं चित्रलेखाख्यसख्या
चानीतं सौधमध्ये त्वरमत सततं गर्भवत्या सयोषा ।
श्रुत्वा रोषात् स बाणो यदुवरतनयं स्वीयपाशैर्बवन्ध
योद्धारं स्वीयसङ्घान् परिघवरकर कोपसंरक्तनेत्रम् ॥ १११॥
ज्ञात्वा तं नारदोक्त्या यदुवरतनया रामकृष्णाववाप्य
राज्यं बाणस्य युद्धं द्रततरमभवत् कृष्णरुद्रास्तराणाम् ।
शान्तं कृत्वा ज्वरं तं करगणमभिनद्द्रुद्रवाक्याच्चतुर्भिः
हस्तैः संस्थाप्य बाणं पुरमगमदसौ पौत्रतद्दारयुक्तः ॥ ११२॥
प्रद्युम्नाद्या वनान्तं ययुरथ तृषिताः श्वभ्रमन्तस्तु जन्तुं
दृष्ट्वा चोद्धर्तुमेते त्वथ न परिबृढाः प्राप्य कृष्णाय चोचुः ।
कृष्णस्तूद्धृत्य हस्तादमुमवददतो मुक्तजन्तुस्वरूपं
कोपात् त्वं चेति पृष्टस्त्ववददमुमसौ देवरूपी स राजा ॥ ११३॥
ऐक्ष्वाकोऽहं नृगाख्यो पशुनिवहमदां तत्र काचिद्द्विजातेः ।
तत्स्वामी गां च दृष्ट्वा द्विजमपि च गृहीत्वोचतुर्मां द्विजेन्द्रौ ।
तौ नत्वा सान्त्ववादैरवदमनुनयन् नैच्छतां गां विमोक्तुं
तच्छापात् प्राप्तमेतत् तदपि तव करस्पर्शनादाशु मुक्तम् ॥ ११४॥
इत्युक्त्वा तं च नत्वा दिवमनुगतवान् प्राप्तदेवस्वरूपो
राजा कृष्णस्त्ववादीच्छ्रुतमिदमधुना राजवाक्यं हि पुत्राः ।
ब्रह्मस्वं यो हरेद्वो मम रिपुन्थ मत्सन्निधौ नैव तिष्टेत्
इत्युक्त्वा पुत्रपौत्रैः पुरमगमदमुं पातु पूर्णत्रयीशः ॥ ११५॥
रामोऽगाद्गोव्रजं तं यदुगणसहितस्तत्र नन्दं यशोदां
नत्वा तल्लालितः सन् दिनकरतनयातीरकान्तारमध्ये ।
गोपीभिः क्रीडमानो जलपतितनयां वारुणीं चापि पीत्वा
कृष्णामाकृष्य कोपान्निजहलमुखतो वन्दितश्चोत्ससर्ज ॥ ११६॥
तत्काले पौण्ड्रकोऽयं यदुकुलपतये प्राहिणोद्दूतमुक्त्वा
बालैः सङ्कथ्यसे त्वं गतनिजमतिभिर्वासुदेवोऽहमस्मि ।
तच्छ्रुत्वा दूतवाक्यं यदुगणसहीतः प्राप्य काशी तु पौण्ड्रं
हत्वा तं स्वीयवेषं हरिरथ नगरीं प्राप पूर्णेन्दुवक्त्रः ॥ ११७॥
काशीनाथं च हत्वा यदुवरतनयो मित्रभूतं दुरीहं
तत्पुत्रस्याभिचारोद्भवमनलमथो स्वीयराज्यं दहन्तम् ।
दृष्ट्वा तं चुक्रुशुस्ते यदुपतितनयं कृष्ण रक्षेति तुष्टो
हत्वा चक्रेण काशीपतिसुतमपि यः पातु पूर्णत्रयीशः ॥ ११८॥
रामोऽसौ रैवताख्यं गिरिमगमदतः स्वीयनारीजनोघैः
पीत्वाथो वारुणीं तामरमत हलिनं हेलयन् प्राप कीशः ।
तं दृष्टा युद्धमासीद्द्विदमुसलिनो वृक्षपूगैरनेकैः
अन्योन्यं तं च हत्वा पुरवरममलः प्राप नारीजनौधैः ॥ ११९॥
साम्बो दुर्योधनस्य त्वहरदथ सुतां लक्षणां तां गृहीत्वा
कर्णाद्यास्तं बबन्धुः सुरमुनिवचनाद्यादवान् क्रोधयुक्तान् ।
शान्तान् कृत्वा बलोऽगात् कुरुपुरमनु ते द्रोणभीष्मप्रमुख्याः
सत्कारैः पूजयित्वातुलमुदमगमन् सोद्धवं सीरपाणिम् ॥ १२०॥
साम्बोऽयं बन्धमाप श्रुतमयमधुना नीयतां मत्पुरस्तात्
इत्युक्ताः क्रोधयुक्ता बलमनु नितरां हेलयन्तोऽथ जग्मुः ।
रामः क्षेप्तुं पुरीं तां निजहलमुखतश्चोद्यतो गाङ्गतोये
भीताः साम्बं सदारं ददुरथ नगरं प्राप रामः सपुत्रः ॥ १२१॥
देवर्षिर्नारदोऽसौ हरिगृहमगमत् तत्र भैष्मीसमेतः
पर्यङ्के तिष्ठतीशः पुनरपि च गृहं स्नाति भुक्तिं करोति ।
अक्षैर्दीव्यत्यथायं द्विजगणसहितः कुत्रचिच्छास्त्रसङ्घान्
शृण्वन्नास्ते स दृष्ट्वा मुनिरगमदहो मोदमन्यैरलभ्यम् ॥ १२२॥
कृत्वा गार्हस्थ्यधर्मान् युवतिगमयुतं मोदमानं निशान्ते
तिष्ठन्तं राजदूतो ह्यवददिति जरापुत्ररद्धा नृपौघैः ।
पार्थेनाहूयमानो मखमनु हलिना चोद्धवेन स्वयम्भू-
पुत्रेणालोच्य कृष्णः परिजनसहितः पार्थराज्यं प्रपेदे ॥ १२३॥
कृष्ण्णाभीमेन युक्तौ मगधमनुगतौ व्याजभूदेवरूपं
कृत्वोचुर्मागधं तं यदि पटुरधुना द्वन्द्वयुद्धं प्रदेहि ।
श्रुत्वा भीमेन युद्धं बहुतरमकरोन्मुष्टियष्टिप्रहारैः
पादेनाक्रम्य भीमस्तमथ स गुदतः पाटयामास शूरः ॥ १२४॥
भूपान् दुर्गेषु रुद्धान् हरिरथ कृपया मोचयित्वा समस्तान्
सुस्नातान् भोजयित्वा निजपुरमनु तान् प्रेष्य तस्यैव पुत्रम् ।
तत्पुर्यामभ्यषिञ्चन्नृपमथ सहदेवाख्यमाशु प्रयातः
शक्रप्रस्थं सुहृद्भ्यां सुरगणसहितः पातु पूर्णत्रयीशः ॥ १२५॥
यज्ञार्थं भूसुराद्या मुनिगणसहिता भूपसङ्घास्त्ववाप्ताः
चक्रुर्यागं सुमृष्टं तदनु नृपवरस्त्वग्रपूजां स चक्रे ।
कृष्णायातः स चैद्यः सदसि हरिमधिक्षिप्तवान् निन्द्यवाक्यैः
छित्त्वा चक्रेण कण्ठं मुदमगमदसौ पातु पूर्णत्रयीशः ॥ १२६॥
तत्काले साल्वभूपः शिवभजनवशात् प्राप्य सौभाल्ययानं
गत्वाथो द्वारकां तां स यदुबलवरैर्युद्धमारात् स चक्रे ।
प्रद्युम्नप्रेषितास्त्रप्रहतनिजबलं वीक्ष्य मन्त्री द्युमास्तं
यष्ट्या गुर्व्या प्रजघ्ने तमथ निहतवान् कार्ष्णिर्स्त्रैः स्वकीयैः ॥ १२७॥
इन्द्रप्रस्थात् स कृष्णो निजपुरमगमद्वीक्ष्य साल्वं प्रकोपात्
अस्त्रैः शस्त्रैः प्रजघ्ने करमथ स हरेः शार्ङ्गयुक्तं न्यकृन्तत् ।
पश्यन् मायाहतं तं निजपितरमथो सौभमुन्मर्द्य शक्त्या
तत्कण्ठं चापि चक्रान्मुदमगमदमुं पातु पूर्णत्रयीशः ॥ १२८॥
युद्धार्थं दन्तवक्रस्त्वगमदथ रुषा यष्टिमुद्यम्य पद्भ्यां
कृष्णो यष्टीधरस्त्वगात् स समितिं तौ चक्रतुर्भीषणाम् ।
कौमोदक्याहनत्तं व्यसुरपतदथो भ्रातरं तस्य चक्रात्
प्रख्यातं च विडूरथं हृतगलं चक्रे स गोपालकः ॥ १२९॥
रामोऽसौ नैमिशाख्यं वनमगमदथो ब्राह्मणाः सत्रयागे
स्तुत्वा सम्पूज्य नेमुर्हलिनमथ स तं सूतमालोक्य पीठे ।
तिष्ठन्तं प्राहरत्तैः किमिति कृतमिदं चोक्तमात्रस्तदानीं
चोन्मथ्याथो करे तं पुनरपि जनयामास योगाधिनाथः ॥ १३०॥
तद्यागे विघ्नकारी बटुगजबलवानिल्वलस्यात्मजोऽयं
पर्वण्यागत्य भूयस्त्वशुचिमनुदिनं बिल्वलाख्यः करोति ।
सीरेणाकृष्य जन्ने शिरसि च मुसलेनापतत् सोऽपि भूम्यां
स्नात्वा तीर्थेषु पश्चात् पुरमगमदसौ मोदमानः प्रकामम् ॥ १३१॥
कृष्णं दृष्टुं कुचेलः पृथुकमपि गृहीत्वाप्तवास्तस्य गेहं
दृष्ट्वा कृष्णः प्रमोदात् प्रणमनयुतमाश्लिष्य पर्यङ्कमध्ये ।
संस्थाप्यादाद्गृहीत्वा पृथुकमपि मुदा तस्य दत्त्वा धनानि
स्वेच्छं सम्प्रेरयद्यो गृहमगसदसौ पातु पूर्णत्रयोशः ॥ १३२॥
भूलोकस्थास्तु भूपा ग्रहणमनु रवेः कृष्णरामादयस्ते
चाजग्मुर्वृष्णयस्ते कुरुपदसहितं क्षेत्रमन्योन्यमत्र ।
दृष्ट्वा तुष्टाः कथास्ता जगदुरथ मुदा नन्दमन्यांश्च गोपान्
गोपीराश्लिष्य मोदात् कुशलमनुवदन् पातु पूर्णत्रयीशः ॥ १३३॥
द्रौपद्या कृष्णपत्न्यः त्वमुपयमविधि पृष्टवत्यस्तदानीं
विस्तार्य प्रोचुरेता निजपरिणयमाश्राव्य मोदं गता सा ।
तत्त्रे कृष्णतातो मखमापि कृतवान् ब्राह्मणान् भूपसङ्घान्
नन्दं चापृच्छ्य गोपान् निजपुरमगमन् रामकृष्णादयस्ते ॥ १३४॥
मात्रा पित्रानुनीतौ यदुवरतनयौ हिंसिता भोजपत्या
चानेतव्याः स्वपुत्रास्त्विति तु हरिबलौ प्रापतुस्तौ रसान्ताम् ।
पातालात् पुत्रषट्कं ददतुरथ सुता देवकी स्तन्यपानात्
शुद्धा नत्वा च कृष्णं बलमपि पितरौ भेजिरे स्वर्गलोकम् ॥ १३५॥
बीभत्सुः स्नानहेतोरगमदथ पुरीं द्वारकां मस्करी सन्
कृष्णः स्नानाय सिन्धुं यदुगणसहितः प्राप्तजित्वापुररस्थान् ।
हृत्वागाच्छारिकन्यां तदनु हरिबलौ तातवाचाथ दत्त्वा
दम्पत्योः पारिबर्हं स्वपुरमगमतां मोदयित्वा स्वसारम् ॥ १३६॥
कृष्णो यात्वा पुरीं तां जनकनरपतेस्तेन सम्पूज्यमान-
श्चोक्त्वा तास्ताः कथास्तं मुनिगणसहितः प्रोक्तवानिन्द्रवक्त्रः ।
लोकेऽस्मिंस्त्वत्समानो नहि मम भजने मैथिल ज्ञानदृष्टे
पूज्या भूदेवमुख्या नृपवर भवता नित्यमस्मत्स्वरूपाः ॥ १३७॥
तस्यां पुर्यां स कृष्णो धिषणमुनिवरं नारदं कण्वमत्रिं
वेदव्यासं प्रवृद्धं शुकमुनिमथ तं वृद्धशातातपं च ।
दृष्ट्वा प्रीत्या नितान्तं प्रणमनमकरोत् साञ्जलिस्तांस्तथा तैः
भक्त्या नत्वा स्तुतोऽसौ मुनिवरविनतः पातु पूर्णत्रयीशः ॥ १३८॥
प्राप्यायं श्रुतदेवभक्तसदनं सम्पूज्यमानोऽमुना
भक्त्या प्रीतियुतो नितान्तमहितः प्रोवाच कृष्णस्तु तम् ।
भक्त त्वं श्रुतदेव भू सुरवरान् सम्पूजयन् मां हरिं
वर्तस्वेति वदन् ययौ पुरवरं संस्तूयमानः सुरैः ॥ १३९॥
वेदा ये वेदमूर्तिं दशशतशिरसं तावताक्ष्णाभियुक्तं
पद्भिः साहस्रसङ्ख्यैर्वरकरकमलैर्व्याप्य भूमिं समन्तात् ।
तिष्ठन्तं स्तोत्रवर्यैः स्तुतपदकमलं भक्तिपूर्वं प्रणेमुः
सोऽयं वेदान्तवेद्यो नृपवरमनिशं पातु पूर्णत्रगोशः ॥ १४०॥
दैतेयः पापबुद्धिः पथि च सुरमुनिं चाशुतोषं त्वपृच्छत्
प्राहेत्थं शाकुनेयं वृकमथ स मुनिः शन्भुमन्वेहि दैत्य ।
श्रुत्वाथो नारदोक्तिं शिवमनु तप आतिष्ठदस्मै ददौ सः
पृष्टोऽयं मूर्ध्नि हस्तः पतति मम पुनर्भस्म भूयात् स चेति ॥ १४१॥
इत्येवं धूर्जटेस्तद्वरमपि स पुनः प्राप्य तन्मूर्ध्नि हस्तं
क्षेप्तुं दृष्ट्वाऽगतं तं द्रुततरमगमत् सोऽपि पश्चादधावत् ।
विष्णुस्त्वागत्य वाक्यैशिरसि करमतः पातयित्वा वृकं तं
कृत्वा भस्म त्वरक्षच्छिवमपि स हरिः पातु पूर्णत्रयीशः ॥ १४२॥
तीरे सारस्वतीये भृगुमथ ऋषयः प्रेषयामासुरेषा
मुत्कर्षं ज्ञातुकामारतदनु विधिमगान्नत्यभावात् स रुष्टः ।
रुद्रस्त्वालिङ्गनेच्छुस्त्वगमदथ रुषा गर्वितोऽसीति चोक्तः
क्रुद्धो हन्तुं प्रवृत्तस्तदनु गिरिजया प्रार्थितोऽगाद्गिरीन्द्रम् ॥ २४३॥
विष्णुं गत्वा जघान द्रतमथ स पदा वीक्ष्य चोत्थाय शीघ्रं
लक्ष्म्यङ्कात् साञ्जलिस्तं प्रणमनमकरोद्ब्राह्मणं प्रार्थयानः
दृष्ट्वा तूष्णीं स गत्वा मुनिगणमवदत् सर्वमेतेषु ते तं
विष्णुं श्रेष्ठं नितान्तं त्वमनुत स हरिः पातु पूर्णत्रयीशः ॥ १४४॥
भूदेवः कश्चिदेवं त्ववददनुगतो द्वारदेशं नृपस्य
दोषान्नष्टाः सुता मे स तु कुरुतनयः फाल्गुनस्तन्निशाम्य ।
गत्वा भूदेवगेहं निजशरनिवहैः सूतिकागेहमध्ये
कृत्वाथो पञ्जरं तच्छिशुमपि स ददर्शाङ्गनष्टं न तत्र ॥ १४५॥
पार्थोऽधिक्षिप्तमानो द्विजवरमुखतः सर्वलोकान् परीत्य
नष्टं (पुत्रं) त्वदृष्ट्वाऽनलमनुनिविशन् कृष्णरुद्धस्त्ववाप ।
विष्णोर्लोकं गृहीत्वा मररिपुकृपयागत्य बालान द्विजाय
दत्वाभूत्प्रीतियुक्तो निजसखसहितः पातु पूर्णत्रयीशः ॥ १४६॥
श्रीकृष्णो द्वारकायां सुरगणसदृशैर्वृष्णिसङ्घैर्युतायां
प्राकाराट्टालसौधोत्तमगृहविपणीपङ्क्तिसधैर्युतायाम् ।
मुक्तावैदूर्यनीलप्रवरमरतकप्रौढगोमेधवज्रैः
माणिक्यैर्भासुरायां निजवायुवतीं क्रीडयन् प्राप मोदम् ॥ १४७॥
गेहोद्याने स कृष्णः सरसि मणिजले पद्मकल्हारयुक्ते
गोमेधैः पुष्यरागैः विकृततटवरे रत्नसोपानयुक्ते ।
कादम्बैश्चक्रवाकैः पिकशुकविहगैः सारसैः शोभमाने
हास्यन् क्रीडन् वधूभिर्मुदमगमदमुं पातु पूर्णत्रयीशः ॥ १४८॥
उद्याने मण्डलेऽस्मिन्नमृतकरशिलानिर्मितैः स्वर्णकुम्भैः
युक्ते मुक्तावितानैर्गरुडमणिचयस्तम्भसङ्घप्रयुक्ते ।
नारीभिश्चोत्तमाभिर्वरवसनमणीन् धारणीभिः समन्तात्
आक्रीडन् भासमानो नृपमदनममुं पातु पूर्णत्रयीशः ॥ १४९॥
पूर्णत्रय्याख्यपुर्यां विरचितविहृतिर्देवगन्धर्वयक्षैः
सिद्धैः साध्यैर्मुनीन्द्रैर्दिगधिपतिवरैः सेव्यमानाङ्घ्रियुग्मः ।
भक्ताभीष्टप्रदाता विकसितवदनाम्भोरुहः श्रीनिकेतः
माट श्रीरामभूपं वरगुणरुचिरं पातु पूर्णत्रयीशः ॥ १५०॥
पूर्णत्रयीशचरितं यदुनाथभक्ताः
शृण्वन्ति ये त्वनुदिनं च पठन्ति ये वै ।
सत्कीर्तिपुण्यधनधान्यमहीसुतांश्च
दीर्घायुरन्यविभवान् समवाप्नुयुस्ते ॥ १५१॥
इति श्रीपूर्णत्रयीशस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now