॥ शिवाष्टकम्र ॥
प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथ नाथं सदानंद भाजाम् ।
भवद्भव्य भूतेश्वरं भूतनाथं,
शिवं शंकरं शंभु मीशानमीडे ॥
गले रुंडमालं तनौ सर्पजालं
महाकाल कालं गणेशादि पालम् ।
जटाजूट गंगोत्तरंगैर्विशालं,
शिवं शंकरं शंभु मीशानमीडे ॥
मुदामाकरं मंडनं मंडयंतं महा
मंडलं भस्म भूषाधरं तम् ।
अनादिं ह्यपारं महा मोहमारं,
शिवं शंकरं शंभु मीशानमीडे ॥
वटाधो निवासं महाट्टाट्टहासं
महापाप नाशं सदा सुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं,
शिवं शंकरं शंभु मीशानमीडे ॥
गिरींद्रात्मजा संगृहीतार्धदेहं गिरौ
संस्थितं सर्वदापन्न गेहम् ।
परब्रह्म ब्रह्मादिभिर्-वंद्यमानं,
शिवं शंकरं शंभु मीशानमीडे ॥
कपालं त्रिशूलं कराभ्यां दधानं
पदांभोज नम्राय कामं ददानम् ।
बलीवर्धमानं सुराणां प्रधानं,
शिवं शंकरं शंभु मीशानमीडे ॥
शरच्चंद्र गात्रं गणानंदपात्रं त्रिनेत्रं
पवित्रं धनेशस्य मित्रम् ।
अपर्णा कलत्रं सदा सच्चरित्रं,
शिवं शंकरं शंभु मीशानमीडे ॥
हरं सर्पहारं चिता भूविहारं भवं
वेदसारं सदा निर्विकारं।
श्मशाने वसंतं मनोजं दहंतं,
शिवं शंकरं शंभु मीशानमीडे ॥
स्वयं यः प्रभाते नरश्शूल पाणे
पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं
विचित्रैस्समाराध्य मोक्षं प्रयाति ॥
- hindiश्री शिवाष्टकम्
- hindiश्री शिव रामाष्टकम
- hindiश्री शिवमङ्गलाष्टकम्
- odiaବିଲ୍ଵାଷ୍ଟକମ୍
- gujaratiબિલ્વાષ્ટકમ્
- hindiपार्वतीवल्लभ नीलकण्ठाष्टकम्
- sanskritश्री हाटकेश्वराष्टकम्
- hindiश्री चंद्रशेखर अष्टकम
- kannadaಚಂದ್ರಶೇಖರಾಷ್ಟಕಂ
- tamilஶ்ரீ சந்த்ரஶேகராஷ்டகம்
- englishShri Chandrasekhara Ashtakam
- teluguచంద్రశేఖర్ అష్టకం
- teluguరుద్రాష్టకం
- kannadaಶ್ರೀ ರುದ್ರಾಷ್ಟಕಂ
- tamilஶ்ரீ ருத்³ராஷ்டகம்
Found a Mistake or Error? Report it Now
