Download HinduNidhi App
Shri Radha

श्रीराधाष्टकम्

Shriradhaashtakam Sanskrit

Shri RadhaBhajan (भजन संग्रह)संस्कृत
Share This

|| श्रीराधाष्टकम् ||

श्रीश्रीवृन्दावनेश्वर्यै नमः ।
दिशि दिशि रचयन्ती सञ्चरन्नेत्रलक्ष्मी
विलसितखुरलीभिः खञ्जरीटस्य खेलाम् ।
हृदयमधुपमल्लीं वल्लवाधीशसूनो-
रखिलगुणगभीरां राधिकामर्चयामि ॥

पितुरिह वृषभानोरन्ववायप्रशस्तिं
जगति किल समस्ते सुष्ठु विस्तारयन्तीम् ।
व्रजपतिकुमारं खेलयन्तीं सखीभिः
सुरभिणि निजकुण्डे राधिकामर्चयामि ॥

शरदुपचितराकाकौमुदीनाथकीर्ति
प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् ।
नटदघभिदपाङ्गोत्तुङ्गितानङ्गरङ्गां
कलितरुचितरङ्गां राधिकामर्चयामि ॥

विविधकुसुमवृन्दोत्फुल्लधम्मिल्लघाटी
विघटितमदघूर्णत्केकिपिच्छप्रशस्तिम् ।
मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग
स्फुरदमलकपोलां राधिकामर्चयामि ॥

अमलिनललितान्तःस्नेहसिक्तान्तराङ्गां
अखिलविधविशाखासख्यविख्यातशीलाम् ।
स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं
धृतमधुरविनोदां राधिकामर्चयामि ॥

अतुलमहसि वृन्दारण्यराज्येऽभिषिक्तां
निखिलसमयभर्तुः कार्तिकस्याधिदेवीम् ।
अपरिमितमुकुन्दप्रेयसीवृन्दमुख्यां
जगदघहरकीर्तिं राधिकामर्चयामि ॥

हरिपदनखकोटीपृष्ठपर्यन्तसीमा
तटमपि कलयन्तीं प्राणकोटेरभीष्टाम् ।
प्रमुदितमदिराक्षीवृन्दवैदग्ध्यदीक्षा
गुरुमतिगुरुकीर्तिं राधिकामर्चयामि ॥

अमलकनकपट्टोद्घृष्टकाश्मीरगौरीं
मधुरिमलहरीभिः सम्परीतां किशोरीम् ।
हरिभुजपरिरब्धां लब्धरोमाञ्चपालिं
स्फुरदरुणदुकूलां राधिकामर्चयामि ॥

तदमलमधुरिम्णां काममाधाररूपं
परिपठति वरिष्ठं सुष्ठु राधाष्टकं यः ।
अहिमकिरणपुत्रीकूलकल्याणचन्द्रः
स्फुटमखिलमभीष्टं तस्य तुष्टस्तनोति ॥

|| इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीराधाष्टकं सम्पूर्णम् ||

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्रीराधाष्टकम् PDF

श्रीराधाष्टकम् PDF

Leave a Comment