|| श्री प्रत्यंगिरा सूक्तम् (अथर्ववेदोक्तम्) ||
(अ.वे.का-१०.सू-१)
यां क॒ल्पय॑न्ति वह॒तौ व॒धूमि॑व वि॒श्वरू॑पां॒ हस्त॑कृतां चिकि॒त्सव॑: ।
सारादे॒त्वप॑ नुदाम एनाम् ॥ १ ॥
शी॒र्ष॒ण्वती॑ न॒स्वती॑ क॒र्णिणी॑ कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा ।
सारादे॒त्वप॑ नुदाम एनाम् ॥ २ ॥
शू॒द्रकृ॑ता॒ राज॑कृता॒ स्त्रीकृ॑ता ब्र॒ह्मभि॑: कृ॒ता ।
जा॒या पत्या॑ नु॒त्तेव॑ क॒र्तारं॒ बन्ध्वृ॑च्छतु ॥ ३ ॥
अ॒नया॒हमोष॑ध्या॒ सर्वा॑: कृ॒त्या अ॑दूदुषम् ।
यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥ ४ ॥
अ॒घम॑स्त्वघ॒कृते॑ श॒पथ॑: शपथीय॒ते ।
प्र॒त्यक्प्र॑ति॒प्रहि॑ण्मो॒ यथा॑ कृत्या॒कृतं॒ हन॑त् ॥ ५ ॥
प्र॒ती॒चीन॑ आङ्गिर॒सोऽध्य॑क्षो नः पु॒रोहि॑तः ।
प्र॒तीची॑: कृ॒त्या आ॒कृत्या॒मून्कृ॑त्या॒कृतो॑ जहि ॥ ६ ॥
यस्त्वो॒वाच॒ परे॒हीति॑ प्रति॒कूल॑मुदा॒य्यऽम् ।
तं कृ॑त्येऽभि॒निव॑र्तस्व॒ मास्मानि॑च्छो अना॒गस॑: ॥ ७ ॥
यस्ते॒ परूंषि संद॒धौ रथ॑स्येव॒र्भुर्धि॒या ।
तं ग॑च्छ॒ तत्र॒ तेऽय॑न॒मज्ञा॑तस्ते॒ऽयं जन॑: ॥ ८ ॥
ये त्वा॑ कृ॒त्वाले॑भि॒रे वि॑द्व॒ला अ॑भिचा॒रिण॑: ।
शं॒भ्वी॒३दं कृ॑त्या॒दूष॑णं प्रतिव॒र्त्म पु॑नःस॒रं तेन॑ त्वा स्नपयामसि ॥ ९ ॥
यद्दु॒र्भगां॒ प्रस्न॑पितां मृ॒तव॑त्सामुपेयि॒म ।
अपै॑तु॒ सर्वं॒ मत्पा॒पं द्रवि॑णं॒ मोप॑ तिष्ठतु ॥ १० ॥
यत्ते॑ पि॒तृभ्यो॒ दद॑तो य॒ज्ञे वा॒ नाम॑ जगृ॒हुः ।
स॒न्दे॒श्या॒३त्सर्व॑स्मात्पा॒पादि॒मा मु॑ञ्चन्तु॒ त्वौष॑धीः ॥ ११ ॥
दे॒वै॒न॒सात्पित्र्या॑न्नामग्रा॒हात्सं॑दे॒श्याऽदभि॒निष्कृ॑तात् ।
मु॒ञ्चन्तु॑ त्वा वी॒रुधो॑ वी॒र्येऽण॒ ब्रह्म॑णा ऋ॒ग्भिः पय॑स॒ ऋषी॑णाम् ॥ १२ ॥
यथा॒ वात॑श्च्या॒वय॑ति॒ भूम्या॑ रे॒णुम॒न्तरि॑क्षाच्चा॒भ्रम् ।
ए॒वा मत्सर्वं॑ दुर्भू॒तं ब्रह्म॑नुत्त॒मपा॑यति ॥ १३ ॥
अप॑ क्राम॒ नान॑दती॒ विन॑द्धा गर्द॒भीव॑ ।
क॒र्तॄन्न॑क्षस्वे॒तो नु॒त्ता ब्रह्म॑णा वी॒र्याऽवता ॥ १४ ॥
अ॒यं पन्था॑: कृ॒त्येति॑ त्वा नयामोऽभिप्रहि॑तां॒ प्रति॑ त्वा॒ प्र हि॑ण्मः ।
तेना॒भि या॑हि भञ्ज॒त्यन॑स्वतीव वा॒हिनी॑ वि॒श्वरू॑पा कुरू॒टिनी॑ ॥ १५ ॥
परा॑क्ते॒ ज्योति॒रप॑थं ते अ॒र्वाग॒न्यत्रा॒स्मदय॑ना कृणुष्व ।
परे॑णेहि नव॒तिं ना॒व्या॒३ अति॑ दु॒र्गाः स्रो॒त्या मा क्ष॑णिष्ठा॒: परे॑हि ॥ १६ ॥
वात॑ इव वृ॒क्षान्नि मृ॑णीहि पा॒दय॒ मा गामश्वं॒ पुरु॑ष॒मुच्छि॑ष एषाम् ।
क॒र्तॄन् नि॒वृत्ये॒तः कृ॑त्येऽप्रजा॒स्त्वाय॑ बोधय ॥ १७ ॥
यां ते॑ ब॒र्हिषि॒ यां श्म॑शा॒ने क्षेत्रे॑ कृ॒त्यां व॑ल॒गं वा॑ निच॒ख्नुः ।
अ॒ग्नौ वा॑ त्वा॒ गार्ह॑पत्येऽभिचे॒रुः पाकं॒ सन्तं॒ धीर॑तरा अना॒गस॑म् ॥ १८ ॥
उ॒पाहृ॑त॒मनु॑बुद्धं॒ निखा॑तं॒ वैरं त्सा॒र्यन्व॑विदाम॒ कर्त्र॑म् ।
तदे॑तु॒ यत॒ आभृ॑तं॒ तत्राश्व॑ इव॒ वि व॑र्ततां॒ हंतु॑ कृत्या॒कृत॑: प्र॒जाम् ॥ १९ ॥
स्वा॒य॒सा अ॒सय॑: संति नो गृ॒हे वि॒द्मा ते॑ कृत्ये यति॒धा परूंषि ।
उत्ति॑ष्ठै॒व परे॑ही॒तोऽज्ञा॑ते॒ किमि॒हेच्छ॑सि ॥ २० ॥
ग्री॒वास्ते॑ कृत्ये॒ पादौ॒ चापि॑ कर्त्स्यामि॒ निर्द्र॑व ।
इ॒न्द्रा॒ग्नी अ॒स्मान्र॑क्षतां॒ यौ प्र॒जानां प्र॒जाव॑ती ॥ २१ ॥
सोमो॒ राजा॑धि॒पा मृ॑डि॒ता च॑ भू॒तस्य॑ न॒: पत॑यो मृडयन्तु ॥ २२ ॥
भ॒वा॒श॒र्वाव॑स्यतां पाप॒कृते॑ कृत्या॒कृते॑ ।
दु॒ष्कृते॑ वि॒द्युतं॑ देवहे॒तिम् ॥ २३ ॥
यद्ये॒यथ॑ द्वि॒पदी॒ चतु॑ष्पदी कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा ।
सेतो॒३ष्टाप॑दी भू॒त्वा पुन॒: परे॑हि दुच्छुने ॥ २४ ॥
अ॒भ्य॑क्ताक्ता॒ स्वऽरंकृता॒ सर्वं॒ भर॑न्ती दुरि॒तं परे॑हि ।
जा॒नी॒हि कृ॑त्ये क॒र्तारं॑ दुहि॒तेव॑ पि॒तरं॒ स्वम् ॥ २५ ॥
परे॑हि कृत्ये॒ मा ति॑ष्ठो वि॒द्धस्ये॑व प॒दं न॑य ।
मृ॒गः स मृ॑ग॒युस्त्वं न त्वा॒ निक॑र्तुमर्हति ॥ २६ ॥
उ॒त ह॑न्ति पूर्वा॒सिनं प्रत्या॒दायाप॑र॒ इष्वा॑ ।
उ॒त पूर्व॑स्य निघ्न॒तो नि ह॒न्त्यप॑र॒: प्रति॑ ॥ २७ ॥
ए॒तद्धि शृ॒णु मे॒ वचोऽथे॑हि॒ यत॑ ए॒यथ॑ ।
यस्त्वा॑ च॒कार॒ तं प्रति॑ ॥ २८ ॥
अ॒ना॒गो॒ह॒त्या वै भी॒मा कृ॑त्ये॒ मा नो॒ गामश्वं॒ पुरु॑षं वधीः ।
यत्र॑य॒त्रासि॒ निहि॑ता॒ तत॒स्त्वोत्था॑पयामसि प॒र्णाल्लघी॑यसी भव ॥ २९ ॥
यदि॒ स्थ तम॒सावृ॑ता॒ जाले॑ना॒भिहि॑ता इव ।
सर्वा॑: सं॒लुप्ये॒तः कृ॒त्याः पुन॑: क॒र्त्रे प्र हि॑ण्मसि ॥ ३० ॥
कृ॒त्या॒कृतो॑ वल॒गिनो॑ऽभिनिष्का॒रिण॑: प्र॒जाम् ।
मृ॒णी॒हि कृ॑त्ये॒ मोच्छि॑षो॒ऽमून्कृ॑त्या॒कृतो॑ जहि ॥ ३१ ॥
यथा॒ सूर्यो॑ मु॒च्यते॒ तम॑स॒स्परि॒ रात्रिं॒ जहा॑त्यु॒षस॑श्च के॒तून् ।
ए॒वाहं सर्वं॑ दुर्भू॒तं कर्त्रं॑ कृत्या॒कृता॑ कृ॒तं ह॒स्तीव॒ रजो॑ दुरि॒तं ज॑हामि ॥ ३२ ॥
Found a Mistake or Error? Report it Now