|| श्री विठ्ठल हृदयम् ||
श्रीपार्वत्युवाच ।
महाशम्भो देवदेव भक्तानुग्रहकारक ।
श्रीविठ्ठलारव्यं हृदयं तन्मे ब्रूहि सदाशिव ॥ १॥
श्रीशङ्कर उवाच ।
शृणु देवि महादेवि पार्वति प्राणवल्लभे ।
गुह्याद्गुयतरं श्रेष्ठं नास्ति गुह्यमतः परम् ॥ २॥
जीवस्य जीवनं साक्षात्प्राणिनां प्राण उच्यते ।
योगिनां हि महागम्यं पाण्डुरङ्गाभिधानकम् ॥ ३॥
अद्यापि महिमा तस्य सर्वथा ज्ञायते न हि ।
नित्यनूतनतत्क्षेत्रस्योपमा नास्ति निश्चितम् ॥ ४॥
मुखं कञ्जेन तुलितं पद्मपत्रसमेक्षणम् ।
कथं साम्यं भवेद्देवि ह्यन्तरं महदन्तरम् ॥ ५॥
गजैरावतयोश्चैव अश्वोच्चैःश्रवसोस्तथा ।
स्पर्शपाषाणायोश्चैव ह्यन्तरं महदन्तरम् ॥ ६॥
काश्याः शतगुण श्रेष्ठं द्वारवत्या द्विलक्षयोः ।
एवं सर्वाणि तीर्थानि कलां नार्हन्ति कानिचित् ॥ ७॥
तीर्थं क्षेत्रं दैवतं च मन्त्रः स्तोत्रं महाद्भुतम् ।
एतत्सर्वं यथाशक्त्या वर्णयामि मम प्रिये ॥ ८॥
एकदा क्षीरसंस्थाने देवदेवं जगद्गुरुम् ।
गतोऽहं पादपूजार्थं सुरेन्न्द्रब्राह्यणैः सह ॥ ९॥
शेषनारदपक्षीन्द्रैर्लक्ष्मीकान्तं गणैः सह ।
प्रणम्य परमात्मानं तमुवाच चतुर्मुखः ॥ १०॥
ब्रह्मोवाच ।
महाविष्णो जगन्नाथ सर्वविश्वगुहाशय ।
तव यच्च प्रियं देव संस्थानं ब्रूहि केशव ॥ ११॥
श्रीभगवानुवाच ।
शृणु ब्रह्मन् महाशम्भो अधिष्ठानं ममालयम् ।
पाण्डुरङ्गमिति ख्यातं न साम्यं भुवनत्रये ॥ ११॥
पाण्डुरङ्गं च वैकुण्ठं तुलयित्वा मयाऽधुना ।
पाण्डुरङ्गं गुरुं मत्वा पूर्णत्वेनास्थितोऽस्म्यहम् ॥ १३॥
नाहं तिष्ठामि क्षीराब्धौ नास्मि सूर्येन्दुमण्डले ।
मन्नामकर्तिनस्थाने तत्र तिष्ठामि शङ्कर ॥ १४॥
कार्यकारणकर्तृत्वे सम्भवक्षेत्रमुच्यते ।
तादृशं नास्ति तत्क्षेत्रं यत्र तिष्ठामि सर्वदा ॥ १५॥
सुखे सञ्जयति ब्रह्म ब्रह्मबीजं प्रशस्यते ।
बीजेन व्यज्यते बिन्दुर्बिन्दोर्नादः प्रकीर्तितः ॥ १६॥
आहतोऽनाहतश्चेति द्विधा नादस्तु विद्यते ।
ओङ्कारोऽनाहतो मूर्तिराहतो नामकीर्तनम् ॥ १७॥
बिन्दुनादात्मकं क्षेत्रं नादोऽव्यक्तः प्रदृश्यते ।
यत्र सङ्कीर्तनेनैव साक्षाद्ब्रह्ममयो भवेत् ॥ १८॥
कीदृशं धृतवान् रूपमित्याह परमेश्वरः ।
इष्टिकायां समपदं तत्त्वमस्यादिलक्षपाम् ॥ १९॥
कटिविन्यस्तहस्ताब्जं प्रणवाकृतिसौरसम् ।
ऊर्ध्वबीजसमाख्यातं पूर्णेन्दुमुखमण्डनम् ॥ २०॥
सर्वभूषणशोभाढ्यमीदृशं मोक्षदं नृणाम् ।
अज्ञानजनबोधार्थं तिष्ठामीह जनार्दनः ॥ २१॥
विठ्ठलः परमो देवस्त्रयीरूपेण तिष्ठति ।
तीर्थं क्षेत्रं तथा देवो ब्रह्म ब्रह्मविदां वर ॥ २२॥
गुह्याद्गुह्यतरं देवं क्षेत्राणां क्षेत्रमुत्तमम् ।
चन्द्रभागावरं तीर्थं न भूतं न भविष्यति ॥ २३॥
इति श्रुत्वा रमेशस्य वचनं परमामृतम् ।
ब्रह्मा नारदसंयुक्तो हृदयं कीर्तयन् ययौ ॥ २४॥
इदं विठ्ठलहृदयं सर्वदारिद्र्यनाशनम् ।
सकृत्पठनमात्रेण लभते परमं पदम् ॥ २५॥
ओमस्य हृदयमन्त्रस्य परब्रह्म ऋषिः स्मृतः ।
छन्दोऽनुष्टुप् प्रविख्यातो देवः श्रीविठ्ठलो महः ॥ २६॥
ॐ नमो बीजमाख्यातं श्रीं पातु शक्तिरीडिता ।
ॐ श्रीं क्लीं कीलकं यस्य वेधको देवविठ्ठलः ॥ २७॥
त्रिबीजैरङ्गुलिन्यासः षडङ्गानि ततः परम् ।
ध्यानादिकं महादिव्यं हृदयं हृदये स्मरेत् ॥ २८॥
ॐ अस्य श्रीविठ्ठलहृदयस्तोत्रमत्रस्य परब्रहा ऋषिः ।
अनुष्टुप् छन्दः । श्रीविठ्ठलः परमात्मा देवता । ॐ नम इति बीजम् ।
ॐ श्रीं शक्तिः । ॐ श्रीं क्लीं कीलकम् । ॐ श्रीं विठ्ठलो वेधकः ।
श्रीविठ्ठलप्रीत्यर्थं जपे विनियोगः ।
ॐ श्रीं क्लीं अङ्गुल्यादि- षडगन्यासः ॥
अथ ध्यानम्
ॐ श्रीं क्लीं प्रहसितमुखचन्द्रं प्रोल्लसत्पूर्णबिम्बं
प्रणमदभयहस्तं चारुनीलाम्बुदाभम् ।
समपदकमनीयं तत्त्वबोधावगम्यं
सदयवरददेवं विठ्ठलं तं नमामि ॥ २९॥
क्लीं श्रीं ॐ ॐ श्रीं क्लीम् ॥
पाण्डुरङ्गः शिखां पातु मूर्धानं पातु विठ्ठलः ।
मस्तकं माधवः पातु तिलकं पातु श्रीकरः ॥ ३०॥
भर्गः पातु भुवोर्मध्ये लोचने विष्णुरोजसा ।
दृष्टिं सुदर्शनः पातु श्रोत्रे पातु दिगम्बरः ॥ ३१॥
नासाग्रं सृष्टिसौन्दर्य ओष्ठौ पातु सुधार्णवः ।
दन्तान् दयानिधिः पातु जिह्वां मे वेदवल्लभः ॥ ३२॥
तालुदेशं हरिः पातु रसनां गोरसप्रियः ।
चिबुकं चिन्मयः पातु ग्रीवां मे गरुडध्वजः ॥ ३३॥
कण्ठं तु कम्बुकण्ठश्च स्कन्धौ पातु महाबलः ।
भुजौ गिरिधरः पातु बाहू मे मधुसूदनः ॥ ३४॥
कूर्परौ कृपयाविष्टः करौ मे कमलापतिः ।
अगुलीरच्युतः पातु नखानि नरकेसरी ॥ ३५॥
वक्षः श्रीलाञ्छनः पातु स्तनौ मे स्तनलालसः ।
हृदयं श्रीहृषीकेश उदरं परमामृतः ॥ ३६॥
नाभिं मे पद्मनाभश्च कुक्षिं ब्रहयाडनायकः ।
कटिं पातु कटिकरो जघनं तु जनार्दनः ॥ ३७॥
शिश्नं पातु स्मराधीशो वृषणे वृषभः पतिः ।
गुह्यं गुह्यतरः पातु ऊरू पातूरुविक्रमः ॥ ३८॥
जानू पातु जगन्नाथो जङ्घे मे मनमोहनः ।
गुल्फौ पातु गणाधीशः पादौ पातु त्रिविक्रमः ॥ ३९॥
शरीरं चाखिलं पातु नरनारायणो हरिः ।
अग्रे ह्यग्रतरः पातु दक्षिणे दक्षकप्रियः ॥ ४०॥
पृष्ठे पुष्टिकरः पातु वामे मे वासवप्रभुः ।
पूर्वे पूर्वापरः पातु आग्नेय्यां चाग्निरक्षकः ॥ ४१॥
दक्षिणे दीक्षितार्थश्च नैरृत्यामृतुनायकः ।
पश्चिमे वरुणाधीशो वायव्ये वातजापतिः ॥ ४२॥
उत्तरे धृतखड्गश्च ईशान्ये पातु ईश्वरः ।
उपरिष्टात्तु भगवानन्तरिक्षे चिदम्बरः ॥ ४३॥
भूतले धरणीनाथः पाताले कूर्मनायकः ।
स्वर्गे पातु सुरेद्रेन्द्रो ब्रह्माण्डे ब्रह्मणस्पतिः ॥ ४४॥
अटव्यां नृहरिः पातु जीवने विश्वजीवनः ।
मार्गे पातु मनोगम्यः स्थाने पातु स्थिरासनः ॥ ४५॥
सबाह्याभ्यन्तरं पातु पुण्डरीकवरप्रियः ।
विष्णुर्मे विषयान् पातु वासनाः पातु वामनः ॥ ४६॥
कर्ता कर्मेन्द्रियं पातु ज्ञाता ज्ञानेन्द्रियं सदा ।
प्राणान् पातु प्राणनाथ आत्मारामो मनादिषु ॥ ४७॥
जागतिं मे जगद्ब्रह्म स्वप्नं पातु सुतेजकः ।
सुषुप्तिं मे समाधीशस्तुर्यां पातु मुनिप्रियः ॥ ४८॥
भार्यां पातु रमाकान्तः पुत्रान्पातु प्रजानिधिः ।
कन्यां मे करुणानाथो बान्धवान्भक्तवत्सलः ॥ ४९॥
धनं पातु धनाध्यक्षो धान्यं विश्वकुटुम्बकः ।
पशून्मे पालकः पातु विद्यां पातु कलानिधिः ॥ ५०॥
वाचस्पतिः पातु वादे सभायां विश्वमोहनः ।
कामक्रोधोद्भवात्पातु पूर्णकामो मनोरमः ॥ ५१॥
वस्त्रं रत्नं भूषणं च नाम रूपं कुलं गहम् ।
सर्वं सर्वात्मकः पातु शुद्धब्रह्मपरात्परः ॥ ५२॥
क्ली श्रीं ॐ ॐ श्री क्लीम् ।
विष्टलं मूर्ध्नि विन्यस्य ललाटे श्रीकरं न्यसेत् ।
पाण्डुरङ्गं भ्रुवोर्मध्ये नेत्रयोर्व्यापकं न्यसेत् ॥ ५३॥
कर्णयोर्निगमार्थं च गल्लयोर्वल्लभं न्यसेत् ।
नासिकायां न्यसेत्कृष्णं मुखे वै माधवं न्यसेत् ॥ ५४॥
ओष्ठयोर्मुरलीकान्तं दन्तपङ्क्त्यां सुहासकम् ।
रसनायां रसाधीशं जिह्वारग्रे कीर्तनं न्यसेत् ॥ ५५॥
कण्ठे न्यसेन्महाविष्णुं स्कन्धयोः कमलापतिम् ।
बाह्वोर्बलानुजं न्यस्य करे चक्रधरं न्यसेत् ॥ ५६॥
पाणितले पद्मधरं कराग्रे वरदाभयम् ।
वक्षःस्थले वरेण्यं च हृदये श्रीहरिं न्यसेत् ॥ १ ७॥
उदरे विश्वभर्तारं नाभौ नाभिकरं न्यसेत् ।
कट्यां न्यसेत्क्रियातीतमूरौ तु उद्धवप्रियम् ॥ ५८॥
जानुद्वये न्यसेच्छक्तिं पादयोः पावनं न्यसेत् ।
सबाह्याभ्यन्तरं न्यस्य देवदेवं जगद्गुरुम् ॥ ५९॥
क्लीं श्रीं ॐ ॐ श्रीं क्लीम् ।
विष्ठलाय नमस्तुभ्यं नमो विज्ञानहेतवे ।
विष्णुजिष्णुस्वरूपाय श्रीविष्णवे नमो नमः ॥ ६०॥
नमः पुण्डरीकाक्षाय पूर्णबिम्बात्मभे नमः ।
नमस्ते पाण्डुरङ्गाय पावनाय नमो नमः ॥ ६१॥
नमः पूर्णप्रकाशाय नमस्ते पूर्णतेजसे ।
पूर्णैश्वर्यस्वरूपाय पूर्णज्ञानात्मने नमः ॥ ६२॥
सच्चिदानन्दकन्दाय नमोऽनन्तसुखात्मने ।
नमोऽनन्ताय शान्ताय श्रीरामाय नमो नुमः ॥ ६३॥
नमो ज्योतिःस्वरूपाय नमो ज्योतिर्मयात्मने ।
नमो ज्योतिःप्रकाशाय सर्वोत्कृष्टात्मने नमः ॥ ६४॥
ॐ नमोब्रह्मरूपाय नम ॐङ्कारमूर्तये ।
निर्विकल्पाय सत्याय शुद्धसत्त्वात्मने नमः ॥ ६५॥
महद्ब्रह्म नमस्तेऽस्तु सत्यसङ्कल्पहेतवे ।
नमः सृष्टिप्रकाशाय गुणसाम्यायते नमः ॥ ६६॥
ब्रह्मविष्णुमहेशाय नानावर्णात्मरूपिणे ।
सदोदिताय शुद्धाय गुणातीताय ते नमः ॥ ६७॥
नमः सहस्रनाम्ने च नमः सहस्ररूपिणे ।
नमः सहस्रवक्त्राय सहस्राक्षायते नमः ॥ ६८॥
केशवाय नमस्तुभ्यं नमो नारायणायच ।
माधवाय नमस्तेऽस्तु गोविन्दाय नमो नमः ॥ ६९॥
श्रीविष्णवे नमस्तुभ्यं मधुसूदनरूपिणे ।
त्रिविक्रम सुदीर्घाय वामनाय नमो नमः ॥ ७०॥
श्रीधराय नमस्तुभ्यं हृषीकेशाय ते नमः ।
नमस्ते पद्मनाभाय दामोदराय ते नमः ॥ ७१॥
नमस्ते सङ्कर्षणाय वासुदेवाय ते नमः ।
प्रद्युम्नाय नमस्तेऽस्तु अनिरुद्धायते नमः ॥ ७२॥
नमः पुरुषोत्तमायाधोक्षजाय ते नमो नमः ।
नमस्ते नारसिंहाय अच्युताय नमो नमः ॥ ७३॥
नमो जनार्दनायास्तूपेन्द्राय च नमो नमः ।
श्रीहरये नमस्तुभ्यं श्रीकृष्णाय नमो नमः ॥ ७४॥
नमः पण्ढरिनाथाय भीमातीरनिवासिने ।
नमो ऋषिप्रसन्नाय वरदाय नमो नमः ॥ ७५॥
इष्टिकारूढरूपाय समपादाय ते नमः ।
कटिविन्यस्तहस्ताय मुखब्रह्मात्मने नमः ॥ ७६॥
नमस्तीर्थस्वरूपाय क्षेत्ररूपात्मने नमः ।
नमोऽस्तु मूर्तिमूर्ताय त्रिमूर्तये नमो नमः ॥ ७७॥
नमस्ते बिन्दुतीर्थाय नमोऽमृतेश्वराय च ।
नमः पुष्करतीर्थाय चन्द्रभागाय ते नमः ॥ ७८॥
नमस्ते जानुदेवाय धीरावत्यै नमो नमः ।
नमस्ते पुण्डरीकाय भीमरथ्यै नमो नमः ॥ ७९॥
मुक्तिकेशप्रवराय वेणुवादात्मने नमः ।
नमस्तेऽनन्तपादाय द्विपदाय नमो नमः ॥ ८०॥
नमो गोवत्सपादाय गोपालाय नमो नमः ।
नमस्ते पद्मतीर्थाय नरनारायणात्मने ॥ ८१॥
नमस्ते पितृतीर्थाय लक्ष्मीतीर्थाय ते नमः ।
नमोऽस्तु शङ्खचक्राय गदापद्माय ते नमः ॥ ८२॥
नमोऽश्वत्थनृसिंहाय कुण्डलाख्यस्वरूपिणे ।
नमस्ते क्षेत्रपालाय महालिङ्गाय ते नमः ॥ ८३॥
नमस्ते रङ्गशालाय नमः कीर्तनरूपिणे ।
ममौ रुक्मिणिनाथाय महामूर्त्यै नमो नमः ॥ ८४॥
नमो वैकुण्ठनाथाय नमः क्षीराब्धिशायिने ।
सर्वब्रह्म नमस्तुभ्यमहम्ब्रह्मात्मने नमः ॥ ८५॥
नमो नमो नमस्तुभ्यं नमस्तेऽस्तु नमो नमः ।
क्लीं श्रीं ओम् ।
आद्यन्ते सम्पुटीकृत्य बीजैश्च प्राणवल्लभे ॥ ८६॥
अष्टोत्तरशतं मन्त्रान् हृदयं नमनैः सह ।
उरनन्यैः कीर्तितं यैश्च तेषामाज्ञां वहाम्यहम् ॥ ८७॥
यावद्यस्य यथा भावो यन्नामन्यासपूर्वकम् ।
तावदेव हि विज्ञानं गदितं मदनुग्रहात् ॥ ८८॥
श्रीशङ्कर उवाच ।
इत्युक्तं वासुदेत्रोक्तं गोप्याद्गोप्यतरं महत् ।
नित्यं सङ्कीर्तनं यस्य प्राप्तमुक्तिर्न संशयः ॥ ८९॥
इदं गुह्यं हि हृदयं विठ्ठलस्य महाद्भुतम् ।
शृणुयाच्छ्रद्धया युक्तो वैकुण्ठे लभते रतिम् ॥ ९०॥
एवमुक्त्वा महादेवः पार्वतीमनुकम्पया ।
समाधिस्थोऽभवच्छभुः सुस्मितः कमलाननः ॥ ९१॥
इति विठ्ठलहृदयं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now