|| आदित्य हृदयम् ||
ध्यानम्
नमस्सवित्रे जगदेक चक्षुसे
जगत्प्रसूति स्थिति नाशहेतवे
त्रयीमयाय त्रिगुणात्म धारिणे
विरिंचि नारायण शंकरात्मने
ततो युद्ध परिश्रांतं
समरे चिंतयास्थितम् ।
रावणं चाग्रतो दृष्ट्वा
युद्धाय समुपस्थितम् ॥ 1 ॥
दैवतैश्च समागम्य
द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीद्रामं अगस्त्यो
भगवान् ऋषिः ॥ 2 ॥
राम राम महाबाहो
शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स
समरे विजयिष्यसि ॥ 3 ॥
आदित्यहृदयं पुण्यं
सर्वशत्रु-विनाशनम् ।
जयावहं जपेन्नित्यं
अक्षय्यं परमं शिवम् ॥ 4 ॥
सर्वमंगल-मांगल्यं
सर्वपाप-प्रणाशनम् ।
चिंताशोक-प्रशमनं
आयुर्वर्धनमुत्तमम् ॥ 5 ॥
रश्मिमंतं समुद्यंतं
देवासुर नमस्कृतम् ।
पूजयस्व विवस्वंतं
भास्करं भुवनेश्वरम् ॥ 6 ॥
सर्वदेवात्मको ह्येष
तेजस्वी रश्मिभावनः ।
एष देवासुर-गणान्
लोकान् पाति गभस्तिभिः ॥ 7 ॥
एष ब्रह्मा च विष्णुश्च
शिवः स्कंदः प्रजापतिः ।
महेंद्रो धनदः कालो
यमः सोमो ह्यपां पतिः ॥ 8 ॥
पितरो वसवः साध्या
ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाप्राणः
ऋतुकर्ता प्रभाकरः ॥ 9 ॥
आदित्यः सविता सूर्यः
खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुः
हिरण्यरेता दिवाकरः ॥ 10 ॥
हरिदश्वः सहस्रार्चिः
सप्तसप्ति-र्मरीचिमान् ।
तिमिरोन्मथनः शंभुः
त्वष्टा मार्तांडकोंऽशुमान् ॥ 11 ॥
हिरण्यगर्भः शिशिरः
तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः
शंखः शिशिरनाशनः ॥ 12 ॥
व्योमनाथ-स्तमोभेदी
ऋग्यजुःसाम-पारगः ।
घनावृष्टिरपां मित्रः
विंध्यवीथी प्लवंगमः ॥ 13 ॥
आतपी मंडली मृत्युः
पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा
रक्तः सर्वभवोद्भवः ॥ 14 ॥
नक्षत्र ग्रह ताराणां
अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी
द्वादशात्म-न्नमोऽस्तु ते ॥ 15 ॥
नमः पूर्वाय गिरये
पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये
दिनाधिपतये नमः ॥ 16 ॥
जयाय जयभद्राय
हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो
आदित्याय नमो नमः ॥ 17 ॥
नम उग्राय वीराय
सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय
मार्तांडाय नमो नमः ॥ 18 ॥
ब्रह्मेशानाच्युतेशाय
सूर्यायादित्य-वर्चसे ।
भास्वते सर्वभक्षाय
रौद्राय वपुषे नमः ॥ 19 ॥
तमोघ्नाय हिमघ्नाय
शत्रुघ्नाया मितात्मने ।
कृतघ्नघ्नाय देवाय
ज्योतिषां पतये नमः ॥ 20 ॥
तप्त चामीकराभाय
वह्नये विश्वकर्मणे ।
नमस्तमोऽभि निघ्नाय
रुचये लोकसाक्षिणे ॥ 21 ॥
नाशयत्येष वै भूतं
तदेव सृजति प्रभुः ।
पायत्येष तपत्येष
वर्षत्येष गभस्तिभिः ॥ 22 ॥
एष सुप्तेषु जागर्ति
भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च
फलं चैवाग्नि होत्रिणाम् ॥ 23 ॥
वेदाश्च क्रतवश्चैव
क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु
सर्व एष रविः प्रभुः ॥ 24 ॥
फलश्रुतिः
एन मापत्सु कृच्छ्रेषु
कांतारेषु भयेषु च ।
कीर्तयन् पुरुषः
कश्चिन्नावशीदति राघव ॥ 25 ॥
पूजयस्वैन मेकाग्रः
देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा
युद्धेषु विजयिष्यसि ॥ 26 ॥
अस्मिन् क्षणे महाबाहो
रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदागस्त्यो
जगाम च यथागतम् ॥ 27 ॥
एतच्छ्रुत्वा महातेजाः
नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतः
राघवः प्रयतात्मवान् ॥ 28 ॥
आदित्यं प्रेक्ष्य जप्त्वा
तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा
धनुरादाय वीर्यवान् ॥ 29 ॥
रावणं प्रेक्ष्य हृष्टात्मा
युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे
तस्य धृतोऽभवत् ॥ 30 ॥
अध रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति संक्षयं विदित्वा
सुरगण मध्यगतो वचस्त्वरेति ॥ 31 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्धकांडे पंचाधिक शततमः सर्गः ॥
Read in More Languages:- tamilஆதி³த்ய ஹ்ருத³யம்
- hindiआदित्य हृदयम्
- odiaଆଦିତ୍ୟ ହୃଦୟମ୍
- punjabiਆਦਿਤ੍ਯ ਹ੍ਰੁਰੁਇਦਯਮ੍
- teluguఆదిత్య హృదయం
- kannadaಆದಿತ್ಯ ಹೃದಯಂ
- malayalamആദിത്യ ഹൃദയമ്
- sanskritआदित्य हृदयम्
- bengaliআদিত্য হৃদযম্
- gujaratiઆદિત્ય હૃદયમ્
Found a Mistake or Error? Report it Now