श्री मीनाक्षी द्वादश स्तोत्रम्
|| श्री मीनाक्षी द्वादश स्तोत्रम् || या देवी जगतां कर्त्री शङ्करस्यापि शङ्करी । नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ सकृदाराध्य यां सर्वमभीष्टं लभते नरः । नमस्तस्यै मुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ यस्याः प्रसादलेशेन भोरामोक्षौ न दुर्लभौ । नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ यया शिवोऽपि युक्तः सन् पञ्चकृत्यं करोति हि । नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ यस्याः प्रीत्यर्थमनिशं…