|| श्रीगणपति तोटकपञ्चकस्तुतिः ||
प्रणवःप्रभशोभित शान्ततनो
शिवपार्वतिलालित बालतनो ।
वरमोदकहस्त मनोज्ञतनो
वहते हृदये गणराजतनो ॥ (१)
अपरोक्षसुधारसहर्षनिधे
परमार्थविबोधकसत्त्वनिधे ।
श्रुतिवन्दितचित्परतत्त्वनिधे
शरणं शरणं गजवक्त्रगुरो ॥ (२)
अतिसुन्दर कुञ्जर बालगुरो
अवबोध निसर्ग सुजूर्णिमयम् ।
परितुष्य पदाम्बुरुहं भवतां
दयया परिदर्शय मां सततम् ॥ (३)
परितप्यति दुःसह लोक जना
कृमिजातिज मण्डित घोरविषात् ।
कृपया परिरक्षतु विघ्नहर
शरणागत वत्सल भक्तपते ॥ (४)
रवि चन्द्र च लोहित सौम्य गुरु
कवि मन्द तमो सह केतु खगान् ।
परिपूजित वारणवक्त्र भृते
परिपालयमां ग्रहदोषभरात् ॥ (५)
- sanskritश्री विनायक स्तुतिः
- tamilஶ்ரீ விநாயக ஸ்துதி꞉
- kannadaಶ್ರೀ ವಿನಾಯಕ ಸ್ತುತಿಃ
- teluguశ్రీ వినాయక స్తుతిః
- sanskritश्री हेरम्ब स्तुति
- sanskritगोकर्ण गणाधिपस्तुती
- sanskritस्वायम्भुवकृता श्रीगणेशस्तुतिः
- sanskritससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
- sanskritसर्वेकृता श्रीगणेशस्तुतिः
- sanskritश्र्योङ्काराकृता श्रीगणेशस्तुतिः
- sanskritशौनकौर्वौकृता श्रीगणेशस्तुतिः
- sanskritशेषकृता श्रीगणेशस्तुतिः
- sanskritशिवकृता श्रीगणेशस्तुतिः
- sanskritशनिश्चरकृता श्रीगणेशस्तुतिः
- sanskritशक्रकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now