Download HinduNidhi App
Shri Krishna

श्री कृष्ण स्तुति

Krishna Stuti Sanskrit

Shri KrishnaStuti (स्तुति संग्रह)संस्कृत
Share This

|| श्री कृष्ण स्तुति ||

वंशीवादनमेव यस्य सुरुचिङ्गोचारणं तत्परं
वृन्दारण्यविहारणार्थ गमनं गोवंश सङ्घावृतम् ।
नानावृक्ष लतादिगुल्मषु शुभं लीलाविलाशं कृतं
तं वन्दे यदुनन्दनं प्रतिदिनं भक्तान् सुशान्तिप्रदम् ॥

एकस्मिन् समये सुचारू मुरलीं संवादयन्तं जनान्
स्वानन्दैकरसेन पूर्णजगतिं वंशीरवम्पाययन् ।
सुस्वादुसुधया तरङ्ग सकललोकेषु विस्तारयन्
तं वन्दे यदुनन्दनं प्रतिदिनं स्वानन्द शान्ति प्रदम् ॥

वर्हापीड सुशोभितञ्च शिरसि नृत्यङ्करं सुन्दरं
ॐकारैकसमानरूपमधुरं वक्षस्थलेमालिकाम् ।
रूपं श्यामधरं हिरण्यपरिधिं धत्तेकरेकङ्कणं
तं वन्दे यदुनन्दनं प्रतिदिनं विज्ञानदंज्ञानदम् ॥

या वंशी शिवरूपकञ्च सुमुखे संयोज्य फुत्कारयन्
ब्रह्मा यष्टि स्वरूपकं करतले शोभाकरं सुन्दरम् ।
इन्द्रोऽपि शुभरूपश‍ृङ्गमभवत् श्रीकृष्णसेवारतः
वेदस्य सुऋचाऽपि धेनु-अभवन् देव्यस्तु गोपीजनाः ।
तं वन्दे यदुनन्दनं प्रतिदिनमानन्ददानेरतम् ॥

कालीयदमनं सुचारू गमनं लीलाविलासं सदा
नृत्यन्तमतिसुन्दरं रुचिकरं वर्हावतंशन्धरम् ।
पश्यन्तंरुचिरं सुहासमधुरं भालंऽलकैर्शोभितं
तं कृष्णं प्रणमामि नित्यमनिशं निर्वाण शान्तिप्रदम् ॥

श्यामं कान्तियुतं सुकोमल तनुं नृत्यं शिवं सुन्दरं
नाना रत्नधरं सुवक्षसि सदा कट्यां शुभां श‍ृङ्खलाम् ।
पीतं वस्त्रधरं नितम्बविमले तं श्यामलं कोमलं
वन्देऽहं सततं हि नन्दतनयं श्रीवालकृष्णं हरिम् ॥ ६॥

राधा माधव रासगोष्ठि विपुलं कृत्वा च वृन्दावने
नाना गोपशिमन्तिनी सखिजनाः नृत्यन्ति रासोत्सुकाः ।
नाना छन्द रसाऽनुभूतिमधुरं गायन्ति स्वानन्ददम्
तं वन्दे यदुनन्दनं प्रतिदिनं भृत्यान् सदाशान्तिदम् ॥ ७॥

समाकर्षयन्तं कृपावर्षयन्तं भवभीतलोकं सुशान्ति प्रदन्तम् ।
सदानन्द सिन्धौ निमग्नं रमन्तं समास्वासयन्तं भवामीतलोकम् ।
सदाबोधयन्तं सुधादानशीलं नमामि सदा त्वां कृपासिन्धुदेवम् ॥ ८॥

इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं श्रीकृष्णस्तुति सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री कृष्ण स्तुति PDF

Download श्री कृष्ण स्तुति PDF

श्री कृष्ण स्तुति PDF

Leave a Comment