Download HinduNidhi App
Misc

ललिता कवच

Lalita Kavacham Hindi

MiscKavach (कवच संग्रह)हिन्दी
Share This

|| ललिता कवच ||

सनत्कुमार उवाच –
अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम्।

येन देवासुरनरजयी स्यात्साधकः सदा।

सर्वतः सर्वदाऽऽत्मानं ललिता पातु सर्वगा।

कामेशी पुरतः पातु भगमाली त्वनन्तरम्।

दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा।

नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कौणपीम्।

तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी।

महावज्रेश्वरी नित्या वायव्ये मां सदावत।

वामपार्श्वं सदा पातु त्वितीमेलरिता ततः।

माहेश्वरी दिशं पातु त्वरितं सिद्धदायिनी।

पातु मामूर्ध्वतः शश्वद्देवता कुलसुन्दरी।

अधो नीलपताकाख्या विजया सर्वतश्च माम्।

करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला।

देहेन्द्रियमनः- प्राणाञ्ज्वाला- मालिनिविग्रहा।

पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु।

कामात्क्रोधात्तथा लोभान्मोहान्माना- न्मदादपि।

पापान्मां सर्वतः शोकात्सङ्क्षयात्सर्वतः सदा।

असत्यात्क्रूरचिन्तातो हिंसातश्चौरतस्तथा।

स्तैमित्याच्च सदा पातु प्रेरयन्त्यः शुभं प्रति।

नित्याः षोडश मां पातु गजारूढाः स्वशक्तिभिः।

तथा हयसमारूढाः पातु मां सर्वतः सदा।

सिंहारूढास्तथा पातु पातु ऋक्षगता अपि।

रथारूढाश्च मां पातु सर्वतः सर्वदा रणे।

तार्क्ष्यारूढाश्च मां पातु तथा व्योमगताश्च ताः।

भूतगाः सर्वगाः पातु पातु देव्यश्च सर्वदा।

भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान्।

द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम।

गजाश्वद्वीपिपञ्चास्य- तार्क्ष्यारूढाखिलायुधाः।

असङ्ख्याः शक्तयो देव्यः पातु मां सर्वतः सदा।

सायं प्रातर्जपन्नित्यं कवचं सर्वरक्षकम्।

कदाचिन्नाशुभं पश्येत् सर्वदानन्दमास्थितः।

इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम्।

यस्य सन्धारणान्मर्त्यो निर्भयो विजयी सुखी।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
ललिता कवच PDF

Download ललिता कवच PDF

ललिता कवच PDF

Leave a Comment