हनुमान मंगल अष्टक स्तोत्र

|| हनुमान मंगल अष्टक स्तोत्र || वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे। पूर्वाभाद्रप्रभूताय मङ्गलं श्रीहनूमते। करुणारसपूर्णाय फलापूपप्रियाय च। नानामाणिक्यहाराय मङ्गलं श्रीहनूमते। सुवर्चलाकलत्राय चतुर्भुजधराय च। उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते। दिव्यमङ्गलदेहाय पीताम्बरधराय च। तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते। भक्तरक्षणशीलाय जानकीशोकहारिणे। ज्वलत्पावकनेत्राय मङ्गलं श्रीहनूमते। पम्पातीरविहाराय सौमित्रिप्राणदायिने। सृष्टिकारणभूताय मङ्गलं श्रीहनूमते। रम्भावनविहाराय गन्धमादनवासिने। सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते। पञ्चाननाय भीमाय कालनेमिहराय च। कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते।…

हनुमान मंगलाशासन स्तोत्र

|| हनुमान मंगलाशासन स्तोत्र || अञ्जनागर्भजाताय लङ्काकाननवह्नये | कपिश्रेष्ठाय देवाय वायुपुत्राय मङ्गलम् | जानकीशोकनाशाय जनानन्दप्रदायिने | अमृत्यवे सुरेशाय रामेष्टाय सुमङ्लम् | महावीराय वेदाङ्गपारगाय महौजसे | मोक्षदात्रे यतीशाय ह्याञ्जनेयाय मङ्गलम् | सत्यसन्धाय शान्ताय दिवाकरसमत्विषे | मायातीताय मान्याय मनोवेगाय मङ्गलम् | शरणागतसुस्निग्धचेतसे कर्मसाक्षिणे | भक्तिमच्चित्तवासाय वज्रकायाय मङ्गलम्‌ | अस्वप्नवृन्दवन्द्याय दुःस्वप्नादिहराय च | जितसर्वारये तुभ्यं रामदूताय मङ्गलम् |…

हनुमत् ताण्डव स्तोत्र

|| हनुमत् ताण्डव स्तोत्र || वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम्। रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्। भजे समीरनन्दनं सुभक्तचित्तरञ्जनं दिनेशरूपभक्षकं‌ समस्तभक्तरक्षकम्। सुकण्ठकार्यसाधकं विपक्षपक्षबाधकं समुद्रपारगामिनं नमामि सिद्धकामिनम्। सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न। इति प्लवङ्गनाथभाषितं निशम्य वानराऽधिनाथ आप शं तदा स रामदूत आश्रयः। सुदीर्घबाहुलोचनेन पुच्छगुच्छशोभिना भुजद्वयेन सोदरीं निजांसयुग्ममास्थितौ। कृतौ हि कोसलाधिपौ कपीशराजसन्निधौ विदहजेशलक्ष्मणौ स मे शिवं…

सुब्रह्मण्य भुजंग स्तोत्र

|| सुब्रह्मण्य भुजंग स्तोत्र || सदा बालरूपाऽपि विघ्नाद्रिहन्त्री महादन्तिवक्त्राऽपि पञ्चास्यमान्या। विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं काऽपि कल्याणमूर्तिः। न जानामि शब्दं न जानामि चार्थं न जानामि पद्यं न जानामि गद्यम्। चिदेका षडास्या हृदि द्योतते मे मुखान्निःसरन्ते गिरश्चापि चित्रम्। मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम्। महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम्। यदा सन्निधानं गता मानवा मे भवाम्भोधिपारं गतास्ते तदैव। इति…

हनुमान यन्त्रोद्धारक स्तोत्र

|| हनुमान यन्त्रोद्धारक स्तोत्र || यन्त्रोद्धारकनामको रघुपतेराज्ञां गृहीत्वार्णवं तीर्त्वाशोकवने स्थितां स्वजननीं सीतां निशाम्याशुगः । कृत्वा संविदमङ्गुलीयकमिदं दत्वा शिरोभूषणं सङ्गृह्यार्णवमुत्पपात हनूमान् कुर्यात् सदा मङ्गलम् ॥ प्राप्तस्तं सदुदारकीर्तिरनिलः श्रीरामपादाम्बुजं नत्वा कीशपतिर्जगाद पुरतः संस्थाप्य चूडामणिम् । विज्ञाप्यार्णवलङ्घनादिशुभकृन्नानाविधं भूतिदं यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम् ॥ धर्माधर्मविचक्षणः सुरतरुर्भक्तेष्टसन्दोहने दुष्टारातिकरीन्द्रकुम्भदलने पञ्चाननः पाण्डुजः । द्रौपद्यै प्रददौ कुबेरवनजं सौगन्धिपुष्पं मुदा यन्त्रोद्धारकनाममारुतिरयं कुर्यात् सदा मङ्गलम्…

सुब्रह्मण्य अष्टक स्तोत्र

|| सुब्रह्मण्य अष्टक स्तोत्र || हे स्वामिनाथ करुणाकर दीनबन्धो श्रीपार्वतीशमुखपङ्कजपद्मबन्धो। श्रीशादिदेवगणपूजितपादपद्म वल्लीशनाथ मम देहि करावलम्बम्। देवादिदेवसुत देवगणाधिनाथ देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते वल्लीशनाथ मम देहि करावलम्बम्। नित्यान्नरदाननिरताखिलरोगहारिन्‌ तस्मात्प्रदानपरिपूरितभक्तकाम। श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीशनाथ मम देहि करावलम्बम्। क्रौञ्चासुरेन्द्रपरिखण्डनशक्तिशूल- चापादिशस्त्रपरिमण्डितदिव्यपाणे। श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह वल्लीशनाथ मम देहि करावलम्बम्। देवादिदेव रथमण्डलमध्यवेद्य देवेन्द्रपीडनकरं दृढचापहस्तम्‌। शूरं निहत्य सुरकोटिभिरीड्यमान वल्लीशनाथ मम देहि करावलम्बम्। हीरादिरत्नमणियुक्तकिरीटहार केयूरकुण्डललसत्कवचाभिरामम्‌। हे वीर तारक…

स्कन्द स्तोत्र

|| स्कन्द स्तोत्र || षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम्। देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम्। तारकासुरहन्तारं मयूरासनसंस्थितम्। शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम्। विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम्। कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम्। कुमारं मुनिशार्दूल- मानसानन्दगोचरम्। वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम्। प्रलयस्थितिकर्तार- मादिकर्तारमीश्वरम्। भक्तप्रियं मदोन्मत्तं स्कन्दं वन्दे शिवात्मजम्। विशाखं सर्वभूतानां स्वामिनं कृत्तिकासुतम्। सदाबलं जटाधारं स्कन्दं वन्दे शिवात्मजम्। स्कन्दषट्कस्तोत्रमिदं यः…

गुह अष्टक स्तोत्र

|| गुह अष्टक स्तोत्र || शान्तं शम्भुतनूजं सत्यमनाधारं जगदाधारं ज्ञातृज्ञाननिरन्तर- लोकगुणातीतं गुरुणातीतम्। वल्लीवत्सल- भृङ्गारण्यक- तारुण्यं वरकारुण्यं सेनासारमुदारं प्रणमत देवेशं गुहमावेशम्। विष्णुब्रह्मसमर्च्यं भक्तजनादित्यं वरुणातिथ्यं भावाभावजगत्त्रय- रूपमथारूपं जितसारूपम्। नानाभुवनसमाधेयं विनुताधेयं वरराधेयं केयुराङ्गनिषङ्गं प्रणमत देवेशं गुहमावेशम्। स्कन्दं कुङ्कुमवर्णं स्पन्दमुदानन्दं परमानन्दं ज्योतिःस्तोमनिरन्तर- रम्यमहःसाम्यं मनसायाम्यम्। मायाश‍ृङ्खल- बन्धविहीनमनादीनं परमादीनं शोकापेतमुदात्तं प्रणमत देवेशं गुहमावेशम्। व्यालव्यावृतभूषं भस्मसमालेपं भुवनालेपं ज्योतिश्चक्रसमर्पित- कायमनाकाय- व्ययमाकायम्। भक्तत्राणनशक्त्या युक्तमनुद्युक्तं…

स्वामिनाथ स्तोत्र

|| स्वामिनाथ स्तोत्र || श्रीस्वामिनाथं सुरवृन्दवन्द्यं भूलोकभक्तान् परिपालयन्तम्। श्रीसह्यजातीरनिवासिनं तं वन्दे गुहं तं गुरुरूपिणं नः। श्रीस्वामिनाथं भिषजां वरेण्यं सौन्दर्यगाम्भीर्यविभूषितं तम्। भक्तार्तिविद्रावणदीक्षितं तं वन्दे गुहं तं गुरुरूपिणं नः। श्रीस्वामिनाथं सुमनोज्ञबालं श्रीपार्वतीजानिगुरुस्वरूपम्। श्रीवीरभद्रादिगणैः समेतं वन्दे गुहं तं गुरुरूपिणं नः। श्रीस्वामिनाथं सुरसैन्यपालं शूरादिसर्वासुरसूदकं तम्। विरिञ्चिविष्ण्वादिसुसेव्यमानं वन्दे गुहं तं गुरुरूपिणं नः। श्रीस्वामिनाथं शुभदं शरण्यं वन्दारुलोकस्य सुकल्पवृक्षम्। मन्दारकुन्दोत्पलपुष्पहारं वन्दे गुहं…

षडानन अष्टक स्तोत्र

|| षडानन अष्टक स्तोत्र || नमोऽस्तु वृन्दारकवृन्दवन्द्य- पादारविन्दाय सुधाकराय । षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय। नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम्। दात्रे रतानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य। अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय। आपारपारायपरात्पराय नमोऽस्तु तुभ्यं शिखिवाहनाय। नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय। हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे। तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय। सदा कुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः। नमोऽस्तु तुभ्यं शरजन्मने…

कार्तिकेय स्तुति

|| कार्तिकेय स्तुति || भास्वद्वज्रप्रकाशो दशशतनयनेनार्चितो वज्रपाणिः भास्वन्मुक्ता- सुवर्णाङ्गदमुकुटधरो दिव्यगन्धोज्ज्वलाङ्गः। पावञ्जेशो गुणाढ्यो हिमगिरितनयानन्दनो वह्निजातः पातु श्रीकार्तिकेयो नतजनवरदो भक्तिगम्यो दयालुः। सेनानीर्देवसेना- पतिरमरवरैः सन्ततं पूजिताङ्घ्रिः सेव्यो ब्रह्मर्षिमुख्यैर्विगतकलि- मलैर्ज्ञानिभिर्मोक्षकामैः। संसाराब्धौ निमग्नैर्गृहसुखरतिभिः पूजितो भक्तवृन्दैः सम्यक् श्रीशम्भुसूनुः कलयतु कुशलं श्रीमयूराधिरूढः। लोकांस्त्रीन् पीडयन्तं दितिदनुजपतिं तारकं देवशत्रुं लोकेशात्प्राप्तसिद्धिं शितकनकशरैर्लीलया नाशयित्वा। ब्रह्मेन्द्राद्यादितेयै- र्मणिगणखचिते हेमसिंहासने यो ब्रह्मण्यः पातु नित्यं परिमलविलसत्-पुष्पवृष्ट्याऽभिषिक्तः। युद्धे देवासुराणा- मनिमिषपतिना स्थापितो…

सुब्रह्मण्य पंचक स्तोत्र

|| सुब्रह्मण्य पंचक स्तोत्र || सर्वार्तिघ्नं कुक्कुटकेतुं रममाणं वह्न्युद्भूतं भक्तकृपालुं गुहमेकम्। वल्लीनाथं षण्मुखमीशं शिखिवाहं सुब्रह्मण्यं देवशरण्यं सुरमीडे। स्वर्णाभूषं धूर्जटिपुत्रं मतिमन्तं मार्ताण्डाभं तारकशत्रुं जनहृद्यम्। स्वच्छस्वान्तं निष्कलरूपं रहितादिं सुब्रह्मण्यं देवशरण्यं सुरमीडे। गौरीपुत्रं देशिकमेकं कलिशत्रुं सर्वात्मानं शक्तिकरं तं वरदानम्। सेनाधीशं द्वादशनेत्रं शिवसूनुं सुब्रह्मण्यं देवशरण्यं सुरमीडे। मौनानन्दं वैभवदानं जगदादिं तेजःपुञ्जं सत्यमहीध्रस्थितदेवम्। आयुष्मन्तं रक्तपदाम्भोरुहयुग्मं सुब्रह्मण्यं देवशरण्यं सुरमीडे। निर्नाशं तं मोहनरूपं…

सुब्रह्मण्य पंचरत्न स्तोत्र

|| सुब्रह्मण्य पंचरत्न स्तोत्र || श्रुतिशतनुतरत्नं शुद्धसत्त्वैकरत्नं यतिहितकररत्नं यज्ञसम्भाव्यरत्नम्। दितिसुतरिपुरत्नं देवसेनेशरत्नं जितरतिपतिरत्नं चिन्तयेत्स्कन्दरत्नम्। सुरमुखपतिरत्नं सूक्ष्मबोधैकरत्नं परमसुखदरत्नं पार्वतीसूनुरत्नम्। शरवणभवरत्नं शत्रुसंहाररत्नं स्मरहरसुतरत्नं चिन्तयेत्स्कन्दरत्नम्। निधिपतिहितरत्नं निश्चिताद्वैतरत्नं मधुरचरितरत्नं मानिताङ्घ्र्यब्जरत्नम्। विधुशतनिभरत्नं विश्वसन्त्राणरत्नं बुधमुनिगुरुरत्नं चिन्तयेत्स्कन्दरत्नम्। अभयवरदरत्नं चाप्तसन्तानरत्नं शुभकरमुखरत्नं शूरसंहाररत्नम्। इभमुखयुतरत्नं स्वीशशक्त्येकरत्नं ह्युभयगतिदरत्नं चिन्तयेत्स्कन्दरत्नम्। सुजनसुलभरत्नं स्वर्णवल्लीशरत्नं भजनसुखदरत्नं भानुकोट्याभरत्नम्। अजशिवगुरुरत्नं चाद्भुताकाररत्नं द्विजगणनुतरत्नं चिन्तयेत्स्कन्दरत्नम्।

षण्मुख अष्टक स्तोत्र

|| षण्मुख अष्टक स्तोत्र || देवसेनानिनं दिव्यशूलपाणिं सनातनम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| कार्तिकेयं मयूराधिरूढं कारुण्यवारिधिम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| महादेवतनूजातं पार्वतीप्रियवत्सलम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| गुहं गीर्वाणनाथं च गुणातीतं गुणेश्वरम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| षडक्षरीप्रियं शान्तं सुब्रह्मण्यं सुपूजितम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| तेजोगर्भं महासेनं महापुण्यफलप्रदम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| सुव्रतं सूर्यसङ्काशं सुरारिघ्नं सुरेश्वरम्| श्रीवल्लीदेवसेनेशं षण्मुखं प्रणमाम्यहम्| कुक्कुटध्वजमव्यक्तं राजवन्द्यं रणोत्सुकम्| श्रीवल्लीदेवसेनेशं षण्मुखं…

कुमार मंगल स्तोत्र

|| कुमार मंगल स्तोत्र || यज्ञोपवीतीकृतभोगिराजो गणाधिराजो गजराजवक्त्रः। सुराधिराजार्चितपादपद्मः सदा कुमाराय शुभं करोतु। विधातृपद्माक्षमहोक्षवाहाः सरस्वतीश्रीगिरिजासमेताः। आयुः श्रियं भूमिमनन्तरूपं भद्रं कुमाराय शुभं दिशन्तु। मासाश्च पक्षाश्च दिनानि ताराः राशिश्च योगाः करणानि सम्यक्। ग्रहाश्च सर्वेऽदितिजास्समस्थाः श्रियं कुमाराय शुभं दिशन्तु। ऋतुर्वसन्तः सुरभिः सुधा च वायुस्तथा दक्षिणनामधेयः। पुष्पाणि शश्वत्सुरभीणि कामः श्रियं कुमाराय शुभं करोतु। भानुस्त्रिलोकीतिलकोऽमलात्मा कस्तूरिकालङ्कृतवामभागः। पम्पासरश्चैव स सागरश्च श्रियं…

क्या है रुद्राभिषेक? जानें इसकी विधि, महत्व और लाभ

rudraabhisek

अभिषेक शब्द का अर्थ है “स्नान कराना”। रुद्राभिषेक का अर्थ है भगवान रुद्र, यानी भगवान शिव का अभिषेक करना। यह पवित्र स्नान शिवलिंग पर रुद्र के मंत्रों के साथ किया जाता है। रुद्राभिषेक एक शक्तिशाली अनुष्ठान है जो भगवान शिव को प्रसन्न करने और जीवन में सुख-समृद्धि प्राप्त करने का एक उत्तम तरीका है। रुद्राभिषेक…

स्कंद स्तुति

|| स्कंद स्तुति || षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम्। देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम्। तारकासुरहन्तारं मयूरासनसंस्थितम्। शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम्। विश्वेश्वरप्रियं देवं विश्वेश्वरतनूद्भवम्। कामुकं कामदं कान्तं स्कन्दं वन्दे शिवात्मजम्। कुमारं मुनिशार्दूलमानसानन्दगोचरम्। वल्लीकान्तं जगद्योनिं स्कन्दं वन्दे शिवात्मजम्। प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम्। भक्तप्रियं मदोन्मत्तं स्कन्दं वन्दे शिवात्मजम्। विशाखं सर्वभूतानां स्वामिनं कृत्तिकासुतम्। सदाबलं जटाधारं स्कन्दं वन्दे शिवात्मजम्। स्कन्दषट्कं स्तोत्रमिदं यः…

गुह मानस पूजा स्तोत्र

|| गुह मानस पूजा स्तोत्र || गुकारो ह्याख्याति प्रबलमनिवार्यं किल तमो हकारो हानिं च प्रथयतितरामेव जगति। अतो मोहान्धत्वं शिथिलयति यन्नाम गुह इत्यमुं देवं ध्यायाम्यभिलषितसन्धाननिपुणम्। समाश्लिष्टं वल्ल्या समुपघटितं बाहुविटपैः स्वमूलायातानां समुचितफलप्रापणचणम्। स्वसेवानिष्ठानां सततमपि सौख्योपगमकं सदा ध्यायाम्येनं कमपि तु गुहाख्यं विटपिनम्। सुराणां सङ्घातैस्समुपगतैः सान्द्रकुतुकैः समाराध्य स्वामिन् भज विहितमावाहनमिदम्। समन्तात्सद्रत्नैः समुपहितसोपानसरणि- स्फुरन्नानाशोभं रचितमपि सिंहासनमिदम्। हृतं गङ्गातुङ्गाद्यखिलतटिनीभ्योऽतिविमलं सुतीर्थं पाद्यार्थं…

द्वादश ज्योतिर्लिंग स्तोत्र

|| द्वादश ज्योतिर्लिंग स्तोत्र || सौराष्ट्रदैशे वसुधावकाशे ज्योतिर्मयं चन्द्रकलावतम्सम्। भक्तिप्रदानाय कृतावतारं तं सोमनाथं शरणं प्रपद्ये। श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम्। तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम्। अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहं सुरेशम्। कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय। सदैव मान्धातृपुरे वसन्तम् ओङ्कारमीशं शिवमेकमीडे। पूर्वोत्तरे पारलिकाभिधाने सदाशिवं तं गिरिजासमेतम्। सुरासुराराधितपादपद्मं श्रीवैद्यनाथं सततं नमामि। आमर्दसंज्ञे नगरे च…

कालभैरव अष्टक स्तोत्र

|| कालभैरव अष्टक स्तोत्र || देवराजसेव्यमान- पावनाङ्घ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्। नारदादियोगिवृन्दवन्दितं दिगम्बरं काशिकापुराधिनाथ- कालभैरवं भजे। भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थ- दायकं त्रिलोचनम्। कालकालमम्बुजाक्ष- मक्षशूलमक्षरं काशिकापुराधिनाथ- कालभैरवं भजे। शूलटङ्कपाशदण्ड- पाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम्। भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथ- कालभैरवं भजे। भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थिरं समस्तलोकविग्रहम्। निक्क्वणन्मनोज्ञहेम- किङ्किणीलसत्कटिं काशिकापुराधिनाथ- कालभैरवं भजे। धर्मसेतुपालकं त्वधर्ममार्गनाशकं कर्मपाशमोचकं सुशर्मदायकं विभुम्। स्वर्णवर्णकेशपाश- शोभिताङ्गनिर्मलं काशिकापुराधिनाथ- कालभैरवं भजे।…

महाभैरव अष्टक स्तोत्र

|| महाभैरव अष्टक स्तोत्र || यं यं यं यक्षरूपं दिशि दिशि विदितं भूमिकम्पायमानं सं सं सम्हारमूर्तिं शिरमुकुटजटाशेखरं चन्द्रभूषम्। दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम्। रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं घं घं घं घोषघोषं घघघघघटितं घर्झरं घोरनादम्। कं कं कं कालपाशं दृढदृढदृढितं ज्वालितं कामदाहं तं तं…

दत्तात्रेय के 24 गुरु कौन थे? जानिए इनसे मिली शिक्षाएं|

bhagwan dattatreya

भगवान दत्तात्रेयजी हिंदू धर्म के एक प्रमुख देवता हैं, जिन्हें त्रिदेवों (ब्रह्मा, विष्णु और महेश्वर) का अवतार माना जाता है। वे एक सिद्ध पुरुष, योगी और संत के रूप में भी पूजित हैं। वे प्रकृति से सीखने के प्रबल समर्थक थे। उनके जीवन में 24 गुरु थे, जिनमें से अधिकांश प्राकृतिक तत्व थे। इनमें से…

वेदसार शिव स्तोत्र

|| वेदसार शिव स्तोत्र || पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्। जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम्। महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्। विरूपाक्षमिन्द्वर्क- वह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्। गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्। भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम्। शिवाकान्त शम्भो शशाङ्कार्धमौले महेशान शूलिन् जटाजूटधारिन्। त्वमेको जगद्व्यापको विश्वरूपः प्रसीद प्रसीद प्रभो पूर्णरूप।…

श्री शिव तांडव स्तोत्रम्

॥ शिव तांडव स्तोत्र ॥ जटाटवीगलज्जलप्रवाहपावितस्थले, गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्। डमड्डमड्डमड्डमन्निनादवड्डमर्वयं, चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥ जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी, विलोलवीचिवल्लरीविराजमानमूर्धनि। धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥ धराधरेन्द्रनंदिनीविलासबन्धुबन्धुर, स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे। कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि, क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि ॥ जटा भुजङ्ग पिङ्गल स्फुरत्फणा मणिप्रभा, कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे। मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे, मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥ सहस्र लोचनप्रभृत्य शेष लेखशेखर, प्रसूनधूलिधोरणी विधूसरांघ्रिपीठभूः। भुजङ्ग राजमालया निबद्ध जाटजूटक,…

शिव रक्षा स्तोत्र

|| शिव रक्षा स्तोत्र || ओम् अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य। याज्ञवल्क्य-ऋषिः। श्रीसदाशिवो देवता। अनुष्टुप् छन्दः। श्रीसदाशिवप्रीत्यर्थे शिवरक्षास्तोत्रजपे विनियोगः। चरितं देवदेवस्य महादेवस्य पावनम्। अपारं परमोदारं चतुर्वर्गस्य साधनम्। गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम्। शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः। गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः। नयने मदनध्वंसी कर्णौ सर्पविभूषणः। घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः। जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः। श्रीकण्ठः पातु मे कण्ठं स्कन्धौ…

रसेश्वर पंचाक्षर स्तोत्र

|| रसेश्वर पंचाक्षर स्तोत्र || रम्याय राकापतिशेखराय राजीवनेत्राय रविप्रभाय। रामेशवर्याय सुबुद्धिदाय नमोऽस्तु रेफाय रसेश्वराय। सोमाय गङ्गातटसङ्गताय शिवाजिराजेन विवन्दिताय। दीपाद्यलङ्कारकृतिप्रियाय नमः सकाराय रसेश्वराय। जलेन दुग्धेन च चन्दनेन दध्ना फलानां सुरसामृतैश्च। सदाऽभिषिक्ताय शिवप्रदाय नमो वकाराय रसेश्वराय। भक्तैस्तु भक्त्या परिसेविताय भक्तस्य दुःखस्य विशोधकाय। भक्ताभिलाषापरिदायकाय नमोऽस्तु रेफाय रसेश्वराय। नागेन कण्ठे परिभूषिताय रागेन रोगादिविनाशकाय। यागादिकार्येषु वरप्रदाय नमो यकाराय रसेश्वराय। पठेदिदं…

शिव पंचाक्षर नक्षत्रमाला स्तोत्र

|| शिव पंचाक्षर नक्षत्रमाला स्तोत्र || श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय। नामशेषितानमद्भवान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय। कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षपाल ते नमः शिवाय। मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय। इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय। सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय। आपदद्रिभेदटङ्कहस्त ते नमः शिवाय…

शिव जी स्तुति

॥ शिव स्तुति ॥ आशुतोष शशाँक शेखर, चन्द्र मौली चिदंबरा, कोटि कोटि प्रणाम शम्भू, कोटि नमन दिगम्बरा ॥ निर्विकार ओमकार अविनाशी, तुम्ही देवाधि देव, जगत सर्जक प्रलय करता, शिवम सत्यम सुंदरा ॥ आशुतोष शशाँक शेखर… निरंकार स्वरूप कालेश्वर, महा योगीश्वरा, दयानिधि दानिश्वर जय, जटाधार अभयंकरा ॥ आशुतोष शशाँक शेखर… शूल पानी त्रिशूल धारी, औगड़ी बाघम्बरी,…

शिव चालीसा

॥ दोहा ॥ जय गणेश गिरिजा सुवन, मंगल मूल सुजान । कहत अयोध्यादास तुम, देहु अभय वरदान ॥ ॥ चौपाई ॥ जय गिरिजा पति दीन दयाला । सदा करत सन्तन प्रतिपाला ॥ भाल चन्द्रमा सोहत नीके । कानन कुण्डल नागफनी के ॥ अंग गौर शिर गंग बहाये । मुण्डमाल तन क्षार लगाए ॥ वस्त्र खाल…

शिव जी आरती

॥आरती॥ ॐ जय शिव ओंकारा, स्वामी जय शिव ओंकारा। ब्रह्मा, विष्णु, सदाशिव, अर्द्धांगी धारा ॥ ॐ जय शिव ओंकारा…॥ एकानन चतुरानन पंचानन राजे । हंसासन गरूड़ासन वृषवाहन साजे ॥ ॐ जय शिव ओंकारा…॥ दो भुज चार चतुर्भुज दसभुज अति सोहे । त्रिगुण रूप निरखते त्रिभुवन जन मोहे ॥ ॐ जय शिव ओंकारा…॥ अक्षमाला वनमाला, मुण्डमाला…

श्री शिव सहस्रनामावली

॥श्री शिव सहस्रनामावली॥ ॐ स्थिराय नमः। ॐ स्थाणवे नमः। ॐ प्रभवे नमः। ॐ भीमाय नमः। ॐ प्रवराय नमः । ॐ वरदाय नमः । ॐ वराय नमः । ॐ सर्वात्मने नमः । ॐ सर्वविख्याताय नमः । ॐ सर्वस्मै नमः ॥ १० ॥ ॐ सर्वकराय नमः । ॐ भवाय नमः । ॐ जटिने नमः । ॐ चर्मिणे…

भोलेनाथ को कैसे करें प्रसन्न? सावन सोमवार पर लगाएं ये पसंदीदा भोग, होगी मनोकामना पूरी

shiv manta

सावन का पवित्र महीना भगवान शिव की पूजा के लिए विशेष माना जाता है। इस महीने में सोमवार का दिन भगवान शिव को समर्पित होता है। कहा जाता है कि सावन सोमवार के दिन भगवान शिव की पूजा करने से उनकी विशेष कृपा प्राप्त होती है। भोलेनाथ को प्रसन्न करने के लिए भक्तजन विभिन्न प्रकार…

सावन माह 2024 – क्या करें और क्या न करें? भगवान शिव की पूजा विधि, व्रत नियम

shiv pooja in sawan

सावन मास, भगवान शिव का प्रिय महीना, 2024 में 22 जुलाई से शुरू होकर 19 अगस्त तक चलेगा। इस पवित्र महीने में, भक्त भगवान शिव की पूजा-अर्चना करते हैं, व्रत रखते हैं, और कावड़ यात्रा निकालते हैं। सावन माह हिन्दू धर्म में अत्यधिक पवित्र और महत्वपूर्ण माना जाता है। इस महीने में भगवान शिव की…

शिव अमृतवाणी

|| शिव अमृतवाणी || कल्पतरु पुन्यातामा प्रेम सुधा शिव नाम हितकारक संजीवनी शिव चिंतन अविराम पतिक पावन जैसे मधुर शिव रसन के घोलक भक्ति के हंसा ही चुगे मोती ये अनमोल जैसे तनिक सुहागा सोने को चमकाए शिव सुमिरन से आत्मा अध्भुत निखरी जाये जैसे चन्दन वृक्ष को डसते नहीं है नाग शिव भक्तो के…

श्री शिव पंचाक्षर स्तोत्रम् अर्थ सहित

।। शिव पंचाक्षर स्तोत्र की विधि ।। प्रात: काल सबसे पहले स्नान आदि करके शिवलिंग का दूध और जल से अभिषेक करें। इसके बाद भगवान शिव की विधिपूर्वक पूजा करें और अंत में शिव पंचाक्षर स्तोत्र के पठन की शुरुआत करना चाहिए। ।। शिव पंचाक्षर स्तोत्र पाठ का लाभ ।। भगवान शिव के इस पंचाक्षर…

शिव जी व्रत कथा एवं पूजा विधि

।। सोमवार व्रत पूजा विधि ।। गाय के शुद्ध कच्चे दूध को शिवलिंग पर अर्पित करना चाहिए। यह करने से मनुष्य के तन-मन-धन से जुड़ी सारी परेशानियां खत्म हो जाती है। इसके बाद शिवलिंग पर शहद या गन्ने का रस चढ़ाए। फिर कपूर, इत्र, पुष्प-धतूरे और भस्म से शिवजी का अभिषेक कर शिव आरती करना…

विश्वनाथ अष्टक स्तोत्र

|| विश्वनाथ अष्टक स्तोत्र || गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरन्तरविभूषितवामभागम्। नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपतिं भज विश्वनाथम्। वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम्। वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम्। भूताधिपं भुजगभूषणभूषिताङ्गं व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्। पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम्। शीतांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषितपञ्चबाणम्। नागाधिपारचितभासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम्। पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुङ्गवपन्नगानाम्। दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम्। तेजोमयं सगुणनिर्गुणमद्वितीय- मानन्दकन्दमपराजितमप्रमेयम्। नागात्मकं सकलनिष्कलमात्मरूपं वाराणसीपुरपतिं भज विश्वनाथम्। रागादिदोषरहितं स्वजनानुरागं वैराग्यशान्तिनिलयं गिरिजासहायम्।…

दारिद्र्य दहन शिव स्तोत्र

|| दारिद्र्य दहन शिव स्तोत्र || विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरभूषणाय। कर्पूरकुन्दधवलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय। गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय। गङ्गाधराय गजराजविमर्दनाय दारिद्र्यदुःखदहनाय नमः शिवाय। भक्तिप्रियाय भवरोगभयापहाय ह्युग्राय दुर्गभवसागरतारणाय। ज्योतिर्मयाय पुनरुद्भववारणाय दारिद्र्यदुःखदहनाय नमः शिवाय। चर्मम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय। मञ्जीरपादयुगलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय। पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमण्डनाय। आनन्दभूमिवरदाय तमोहराय दारिद्र्यदुःखदहनाय नमः शिवाय। भानुप्रियाय दुरितार्णवतारणाय कालान्तकाय कमलासनपूजिताय।…

शिव अपराध क्षमापण स्तोत्र

|| शिव अपराध क्षमापण स्तोत्र || आदौ कर्मप्रसङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः। यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शम्भो। बाल्ये दुःखातिरेकान्मल- लुलितवपुः स्तन्यपाने पिपासा नो शक्तश्चेन्द्रियेभ्यो भवमलजनिताः जन्तवो मां तुदन्ति। नानारोगादि- दुःखाद्रुदितपरवशः शङ्करं न स्मरामि क्षन्तव्यो मेऽपराधः शिव शिव शिव…

भयहारक शिव स्तोत्र

|| भयहारक शिव स्तोत्र || व्योमकेशं कालकालं व्यालमालं परात्परम्| देवदेवं प्रपन्नोऽस्मि कथं मे जायते भयम्| शूलहस्तं कृपापूर्णं व्याघ्रचर्माम्बरं शिवम्| वृषारूढं प्रपन्नोऽस्मि कथं मे जायते भयम्| अष्टमूर्तिं महादेवं विश्वनाथं जटाधरम्| पार्वतीशं प्रपन्नोऽस्मि कथं मे जायते भयम्| सुरासुरैश्च यक्षश्च सिद्धैश्चाऽपि विवन्दितम्| मृत्युञ्जयं प्रपन्नोऽस्मि कथं मे जायते भयम्| नन्दीशमक्षरं देवं शरणागतवत्सलम्| चन्द्रमौलिं प्रपन्नोऽस्मि कथं मे जायते भयम्| लोहिताक्षं…

विश्वनाथ स्तोत्र

|| विश्वनाथ स्तोत्र || गङ्गाधरं जटावन्तं पार्वतीसहितं शिवम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| ब्रह्मोपेन्द्रमहेन्द्रादि- सेविताङ्घ्रिं सुधीश्वरम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| भूतनाथं भुजङ्गेन्द्रभूषणं विषमेक्षणम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| पाशाङ्कुशधरं देवमभयं वरदं करैः| वाराणसीपुराधीशं विश्वनाथमहं श्रये| इन्दुशोभिललाटं च कामदेवमदान्तकम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| पञ्चाननं गजेशानतातं मृत्युजराहरम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| सगुणं निर्गुणं चैव तेजोरूपं सदाशिवम्| वाराणसीपुराधीशं विश्वनाथमहं श्रये| हिमवत्पुत्रिकाकान्तं स्वभक्तानां मनोगतम्| वाराणसीपुराधीशं विश्वनाथमहं…

कोकिला व्रत कथा एवं पूजा विधि

|| कोकिला व्रत की पूजा विधि || इस दिन सुबह जल्दी उठकर स्नान आदि के बाद स्वच्छ वस्त्र धारण करे। साथ ही इस दिन अपने दिन की शुरुआत सूर्य को अर्घ देने के साथ करें। इसके बाद माता पार्वती और भगवान शिव की पूजा करें। साथ ही शिवजी का दूध और गंगाजल के साथ अभिषेक…

सुंदरेश्वर स्तोत्र

|| सुंदरेश्वर स्तोत्र || श्रीपाण्ड्यवंशमहितं शिवराजराजं भक्तैकचित्तरजनं करुणाप्रपूर्णम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये। आह्लाददानविभवं भवभूतियुक्तं त्रैलोक्यकर्मविहितं विहितार्थदानम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये। अम्भोजसम्भवगुरुं विभवं च शंभुं भूतेशखण्डपरशुं वरदं स्वयंभुम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये। कृत्याजसर्पशमनं निखिलार्च्यलिङ्गं धर्मावबोधनपरं सुरमव्ययाङ्गम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये। सारङ्गधारणकरं विषयातिगूढं देवेन्द्रवन्द्यमजरं वृषभाधिरूढम्। मीनेङ्गिताक्षिसहितं शिवसुन्दरेशं हालास्यनाथममरं शरणं प्रपद्ये।

सर्वार्ति नाशन शिव स्तोत्र

|| सर्वार्ति नाशन शिव स्तोत्र || मृत्युञ्जयाय गिरिशाय सुशङ्कराय सर्वेश्वराय शशिशेखरमण्डिताय। माहेश्वराय महिताय महानटाय सर्वातिनाशनपराय नमः शिवाय। ज्ञानेश्वराय फणिराजविभूषणाय शर्वाय गर्वदहनाय गिरां वराय। वृक्षाधिपाय समपापविनाशनाय सर्वातिनाशनपराय नमः शिवाय। श्रीविश्वरूपमहनीय- जटाधराय विश्वाय विश्वदहनाय विदेहिकाय। नेत्रे विरूपनयनाय भवामृताय सर्वातिनाशनपराय नमः शिवाय। नन्दीश्वराय गुरवे प्रमथाधिपाय विज्ञानदाय विभवे प्रमथाधिपाय। श्रेयस्कराय महते त्रिपुरान्तकाय सर्वातिनाशनपराय नमः शिवाय। भीमाय लोकनियताय सदाऽनघाय मुख्याय…

ताण्डवेश्वर स्तोत्र

|| ताण्डवेश्वर स्तोत्र || वृथा किं संसारे भ्रमथ मनुजा दुःखबहुले पदाम्भोजं दुःखप्रशमनमरं संश्रयत मे। इतीशानः सर्वान्परमकरुणा- नीरधिरहो पदाब्जं ह्युद्धृत्याम्बुजनिभ- करेणोपदिशति। संसारानलतापतप्त- हृदयाः सर्वे जवान्मत्पदं सेवध्वं मनुजा भयं भवतु मा युष्माकमित्यद्रिशः। हस्तेऽग्निं दधदेष भीतिहरणं हस्तं च पादाम्बुजं ह्युद्धृत्योपदिशत्यहो करसरोजातेन कारुण्यधिः। ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर पाहि माम्। ताण्डवेश्वर ताण्डवेश्वर ताण्डवेश्वर रक्ष माम्। गाण्डिवेश्वर पाण्डवार्चित पङ्कजाभपदद्वयं चण्डमुण्डविनाशिनी- हृतवामभागमनीश्वरम्। दण्डपाणिकपालभैरव-…

चिरंजीव और आयुषमती की कथा

|| चिरंजीव और आयुषमती की कथा || चिरंजीव एक समय की बात है, एक ब्राह्मण के संतान नहीं थी। उसने महामाया की तपस्या की, और माता जी उसकी तपस्या से प्रसन्न होकर उसे वरदान देने को तैयार हो गईं। ब्राह्मण ने पुत्र प्राप्ति की इच्छा जताई। माता जी ने कहा, “मेरे पास दो प्रकार के…

भगवान दत्तात्रेय जन्म कथा

|| भगवान दत्तात्रेय जन्म कथा || भगवान को जब अपने भक्तों का यश बढ़ाना होता है, तो वे नाना प्रकार की लीलाएँ करते हैं। श्री लक्ष्मी जी, माता सती और देवी सरस्वती जी को अपने पतिव्रत का बड़ा अभिमान था। तीनों देवियों के अभिमान को नष्ट करने तथा अपनी परम भक्तिनी पतिव्रता धर्मचारिणी अनसूया के…

अघोर रुद्र अष्टक स्तोत्र

|| अघोर रुद्र अष्टक स्तोत्र || कालाभ्रोत्पलकाल- गात्रमनलज्वालोर्ध्व- केशोज्ज्वलं दंष्ट्राद्यस्फुटदोष्ठ- बिम्बमनलज्वालोग्र- नेत्रत्रयम्। रक्ताकोरक- रक्तमाल्यरुचिरं रक्तानुलेपप्रियं वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्। जङ्घालम्बितकिङ्किणी- मणिगणप्रालम्बि- मालाञ्चितं दक्षान्त्रं डमरुं पिशाचमनिशं शूलं च मूलं करैः। घण्टाखेटक- पालशूलकयुतं वामस्थिते बिभ्रतं वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्। नागेन्द्रावृतमूर्ध्निज- स्थितगलश्रीहस्त- पादाम्बुजं श्रीमद्दोःकटिकुक्षि- पार्श्वमभितो नागोपवीतावृतम्। लूतावृश्चिक- राजराजितमहा- हाराङ्कितोरःस्स्थलं वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्। धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि प्राणिनां पाशान्ये क्षुरिकास्त्रपाश- दलितग्रन्थिं…

गिरीश स्तुति

|| गिरीश स्तुति || शिवशर्वमपार- कृपाजलधिं श्रुतिगम्यमुमादयितं मुदितम्। सुखदं च धराधरमादिभवं भज रे गिरिशं भज रे गिरिशम्। जननायकमेक- मभीष्टहृदं जगदीशमजं मुनिचित्तचरम्। जगदेकसुमङ्गल- रूपशिवं भज रे गिरिशं भज रे गिरिशम्। जटिनं ग्रहतारकवृन्दपतिं दशबाहुयुतं सितनीलगलम्। नटराजमुदार- हृदन्तरसं भज रे गिरिशं भज रे गिरिशम्। विजयं वरदं च गभीररवं सुरसाधुनिषेवित- सर्वगतिम्। च्युतपापफलं कृतपुण्यशतं भज रे गिरिशं भज रे गिरिशम्।…

भैया दूज लोक कथा

|| भैया दूज लोक कथा || एक बुढ़िया माई थी, उसके सात बेटे और एक बेटी थी। बेटी की शादी हो चुकी थी। जब भी उसके बेटों की शादी होती, फेरों के समय एक नाग आता और उसके बेटे को डस लेता था। बेटे की वहीं मृत्यु हो जाती और बहू विधवा हो जाती। इस…