प्रभु राम स्तोत्र PDF हिन्दी
Download PDF of Prabhu Rama Stotra Hindi
Shri Ram ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
प्रभु राम स्तोत्र हिन्दी Lyrics
|| प्रभु राम स्तोत्र ||
देहेन्द्रियैर्विना जीवान् जडतुल्यान् विलोक्य हि।
जगतः सर्जकं वन्दे श्रीरामं हनुमत्प्रभुम्।
अन्तर्बहिश्च संव्याप्य सर्जनानन्तरं किल।
जगतः पालकं वन्दे श्रीरामं हनुमत्प्रभुम्।
जीवांश्च व्यथितान् दृष्ट्वा तेषां हि कर्मजालतः।
जगत्संहारकं वन्दे श्रीरामं हनुमत्प्रभुम्।
सर्जकं पद्मयोनेश्च वेदप्रदायकं तथा।
शास्त्रयोनिमहं वन्दे श्रीरामं हनुमत्प्रभुम्।
विभूतिद्वयनाथं च दिव्यदेहगुणं तथा।
आनन्दाम्बुनिधिं वन्दे श्रीरामं हनुमत्प्रभुम्।
सर्वविदं च सर्वेशं सर्वकर्मफलप्रदम्।
सर्वश्रुत्यन्वितं वन्दे श्रीरामं हनुमत्प्रभुम्।
चिदचिद्द्वारकं सर्वजगन्मूलमथाव्ययम्।
सर्वशक्तिमहं वन्दे श्रीरामं हनुमत्प्रभुम्।
प्रभाणां सूर्यवच्चाथ विशेषाणां विशिष्टवत्।
जीवानामंशिनं वन्दे श्रीरामं हनुमत्प्रभुम्।
अशेषचिदचिद्वस्तुवपुष्फं सत्यसङ्गरम्।
सर्वेषां शेषिणं वन्दे श्रीरामं हनुमत्प्रभुम्।
सकृत्प्रपत्तिमात्रेण देहिनां दैन्यशालिनाम्।
सर्वेभ्योऽभयदं वन्दे श्रीरामं हनुमत्प्रभुम्।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowप्रभु राम स्तोत्र

READ
प्रभु राम स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
