Download HinduNidhi App
Misc

शान्ति स्तोत्रम्

Shanti Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत
Share This

॥ शान्ति स्तोत्रम् ॥

नश्यन्तु प्रेतकूष्माण्डा नश्यन्तु दूषका नराः ।
साधकानां शिवाः सन्तु स्वाम्नायपरिपालनम् ॥

नन्दन्तु मातरः सर्वा जयन्तु योगिनीगणाः ।
जयन्तु सिद्धा डाकिन्यो जयन्तु गुरूशक्तयः ॥

नन्दन्तु ह्यणिमाद्याश्च नन्दन्तु गुह्यकादयः ।
नन्दन्तु भैरवाः सर्वे सिद्धविद्याधरादयः ॥

ये चाम्नायविशुद्धाश्च मन्त्रिणः शुद्धबुद्धयः ।
सर्वदा नन्दयानन्दं नन्दन्तु कुलपालकाः ॥

इन्द्राद्यास्तर्पिताः सन्तु तृप्यन्तु वास्तुदेवताः ।
चन्द्रसूर्यादयो देवास्तृप्यन्तु गुरूभक्तितः ॥

नक्षत्राणि ग्रहा योगाः करणाद्यास्तथापरे ।
ते सर्वे सुखिनो यान्तु मासाश्च तिथयस्तथा ॥

तृप्यन्तु पितरः सर्वे ऋतवो संवत्सरादयः ।
खेचरा भूचराश्चैव तृप्यन्तु मम भक्तितः ॥

अन्तरिक्षचरा घोरा ये चान्ये देवयोनयः ।
सर्वे तु सुखिनो यान्तु सर्वा नद्यश्च पक्षिणः ॥

पर्वताः सुखिनः सन्तु तथा तत्कन्दरा गुहाः ।
ऋषयो ब्राह्मणाः सर्वे शान्तिं कुर्वन्तु मे सदा ॥

तीर्थानि पशवो गावो याश्चान्याः पुण्यभूमयः ।
वृद्धाः पतिव्रता नार्यः शिवं कुर्वन्तु मे सदा ॥

शिवं सर्वत्र मे चास्तु पुत्रदारधनादिषु ।
राजानः सुखिनः सन्तु क्षेममार्गे तु मे सदा ॥

शुभा मे दिवसा यान्तु शिवास्तिष्ठन्तु मे शिवाः ।
द्वेष्टारः साधकानां च सदैवाम्नायदूषकाः ॥

डाकिनीनां मुखे यान्तु तृप्तातृप्ताश्च तेषु ताः ।
शत्रवो नाशमायान्तु मम निन्दाकराः सदा ॥

ये निन्दका ते विपदं प्रयान्तु ये
साधकास्ते प्रभवन्तु सिद्धाः ।
ये सर्ववीराः करुणावलोकात्पुनः
पुरात्मन्मम सन्निधत्स्व ॥

इति श्रीरुद्रयामले शान्तिस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download शान्ति स्तोत्रम् PDF

शान्ति स्तोत्रम् PDF

Leave a Comment