Download HinduNidhi App
Misc

श्री ललिता हृदय स्तोत्रम्

Shri Lalita Hridaya Stotram Sanskrit

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| श्रीललिताहृदयस्तोत्रम् ||

श्रीललिताम्बिकायै नमः ।

देव्युवाच ।

देवदेव महादेव सच्चिदानन्दविग्रहा ।
सुन्दर्याहृदयं स्तोत्रं परं कौतूहलं विभो ॥

ईश्वरौवाच ।

साधु साधुत्वया प्राज्ञे लोकानुग्रहकारकम् ।
रहस्यमपिवक्ष्यामि सावधानमनाःश‍ृणु ॥

श्रीविद्यां जगतां धात्रीं सर्ग्गस्थितिलयेश्वरीम् ।
नमामिललितां नित्यां भक्तानामिष्टदायिनीम् ॥

बिन्दुत्रिकोणसम्युक्तं वसुकोणसमन्वितम् ।
दशकोणद्वयोपेतं चतुर्द्दश समन्वितम् ॥

दलाष्टकेसरोपेतं दलषोडशकान्वितम् ।
वृत्तत्रययान्वितम्भूमिसदनत्रयभूषितम् ॥

नमामि ललिताचक्रं भक्तानामिष्टदायकम् ।
अमृताम्भोनिधिन्तत्र रत्नद्वीपं नमाम्यहम् ॥

नानावृक्षमहोद्यानं वन्देहं कल्पवाटिकाम् ।
सन्तानवाटिकांवन्दे हरिचन्दनवाटिकाम् ॥

मन्दारवाटिकां पारिजातवाटीं मुदा भजे ।
नमामितव देवेशि कदम्बवनवाटिकाम् ॥

पुष्यरागमहारत्नप्राकारं प्रणमाम्यहम् ।
पद्मरागादिमणिभिःप्राकारं सर्वदा भजे ॥

गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये ।
वैडूर्यरत्नप्राकारम्प्रणमामि कुलेश्वरी ॥

इन्द्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहम् ।
मुक्ताफलमहारत्नप्राकारम्प्रणमाम्यहम् ॥

मरताख्यमहारत्नप्राकाराय नमोनमः ।
विद्रुमाख्यमहारत्नप्राकारम्प्रणमाम्यहम् ॥

माणिक्यमण्डपं रत्नसहस्रस्तम्भमण्डपम् ।
ललिते!तवदेवेशि भजाम्यमृतवापिकाम् ॥

आनन्दवापिकां वन्देविमर्शवापिकां भजे ।
भजेबालातपोल्गारं चन्द्रिकोगारिकां भजे ॥

महाश‍ृङ्गारपरिखां महापत्माटवीं भजे ।
चिन्तामणिमहारत्नगृहराजं नमाम्यहम् ॥

पूर्वांनायमयं पूर्व्वद्वारं देवि नमाम्यहम् ।
दक्षिणांनायरूपन्तेदक्षिणद्वारमाश्रये ॥

नमामि पश्चिमद्वारं पश्चिमाम्नाय रूपकम् ।
वन्देहमुत्तरद्वारमुत्तराम्नायरूपकम् ॥

ऊर्द्ध्वाम्नायमयं वन्दे ह्यूर्द्धद्वारं कुलेश्वरि ।
ललितेतव देवेशि महासिंहासनं भजे ॥

ब्रह्मात्मकं मञ्चपादमेकं तव नमाम्यहम् ।
एकंविष्णुमयं मञ्चपादमन्यं नमाम्यहम् ॥

एकं रुद्रमयं मञ्चपादमन्यं नमाम्यहम् ।
मञ्चपादंममाम्येकं तव देवीश्वरात्मकम् ॥

मञ्चैकफलकं वन्दे सदाशिवमयं शुभम् ।
नमामितेहंसतूलतल्पकं परमेश्वरी! ॥

नमामिते हंसतूलमहोपाधानमुत्तमम् ।
कौस्तुभास्तरणंवन्दे तव नित्यं कुलेश्वरी ॥

महावितानिकां वन्दे महायविनिकां भजे ।
एवं पूजागृहं ध्यात्वा श्रीचक्रे श्रीशिवां भजे ॥

स्वदक्षिणे स्थापयामि भागे पुष्पाक्षतादिकान् ।
अमितांस्तेमहादेवि दीपान् सन्दर्शयाम्यहम् ॥

मूलेन त्रिपुराचक्रं तव सम्पूज्ययाम्यहम् ।
त्रिभिःखण्डैस्तवख्यातैः पूजयामि महेश्वरि! ॥

वाय्वग्नि जलसम्युक्तं प्राणायामैरहं शिवै ।
शोषाणान्दाहनं चैव करोमि प्लावनं तथा ॥

त्रिवारं मूलमन्त्रेण प्राणायामं करोम्यहम् ।
पाषण्डकारिणोभूता भूमौये चान्तरिक्षके ॥

करोम्यनेन मन्त्रेण तालत्रयमहं शिवे ।
नारायणोऽहम्ब्रह्माहं भैरवोऽहं शिवोस्म्यहम् ॥

देवोहं परमानन्दोऽस्म्यहं त्रिपुरसुन्दरि ।
ध्यात्वावै वज्रकवचं न्यासं तव करोम्यहम् ॥

कुमारीबीजसम्युक्तं महात्रिपुरसुन्दरि! ।
मांरक्षरक्षेति हृदि करोम्यज्ञलिमीश्वरि! ॥

महादेव्यासनायेति प्रकरोम्यासनं शिवे ।
चक्रासनंनमस्यामि सर्वमन्त्रासनं शिवे ॥

साद्ध्यसिद्धासनं मन्त्रैरेभिर्युक्तं महेश्वरि ।
करोम्यस्मिञ्चक्रमन्त्रैर्देवतासनमुत्तमम् ॥

करोम्यथ षडङ्गाख्यं मातृकां च कलां न्यसे ।
श्रीकण्टङ्केशवं चैव प्रपञ्चं योगमातृकाम् ॥

तत्त्वन्यासं ततः कूर्व्वे चतुष्पीटं यथाचरे ।
लघुषोढान्ततः कूर्व्वे शक्तिन्यासं महोत्तमम् ॥

पीटन्यासं ततः कुर्वे देवतावाहनं प्रिये ।
कुङ्कुमन्यासकञ्चैव चक्रन्यासमथाचरे ॥

चक्रन्यासं ततः कुर्व्वे न्यासं कामकलाद्वयम् ।
षोडशार्ण्णमहामन्त्रैरङ्गन्यासङ्करोम्यहम् ॥

महाषोढां ततः कुर्व्वे शाम्भवं च महाप्रिये ।
ततोमूलम्प्रजप्त्वाथ पादुकाञ्च ततः परम् ॥

गुरवे सम्यगर्च्याथ देवतां हृदिसम्भजे ।
करोमिमण्डलं वृत्तं चतुरश्रं शिवप्रिये ॥

पुष्पैरभ्यर्च्च्यसाधारं शङ्खं सम्पूजयामहम् ।
अर्च्चयामिषडङ्गेन जलमापूरयाम्यहम् ॥

ददामि चादिमं बिन्दुं कुर्वे मूलाभिमन्त्रितम् ।
तज्जलेनजगन्मातस्त्रिकोणं वृत्तसम्युतम् ॥

षल्कोणं चतुरश्रञ्च मण्डलं प्रणमाम्यहम् ।
विद्ययापूजयामीह त्रिखण्डेन तु पूजनम् ॥

बीजेनवृत्तषल्कोणं पूजयामि तवप्रिये ।
तस्मिन्देवीकलात्मानां मणिमण्डलमाश्रये ॥

धूम्रार्च्चिषं नमस्यामि ऊष्मां च ज्वलनीं तथा ।
ज्वालिनीञ्च नमस्यामि वन्देहं विस्पुलिङ्गिनीम् ॥

सुश्रियं च सुरूपाञ्चकम्पिलां प्रणमाम्यहम् ।
नौमिहव्यवहां नित्यां भजे कव्यवहां कलाम् ॥

सूर्याग्निमण्डलां तत्र सकलाद्वादशात्मकम् ।
अर्घ्यपाद्यमहन्तत्र तपिनीं तापिनीं भजे ॥

धूम्रां मरीचीं वन्देहं ज्वालिनीं मरुहं भजे ।
सुषुम्नाम्भोगदां वन्दे भजे विश्वां च बोधिनीम् ॥

धारिणीं च क्षमां वन्दे सौरीरेताः कलाभजे ।
आश्रयेमण्मलं चान्द्रं तल्कलाषोडशात्मकम् ॥

अमृतां मानदां वन्दे पूषां तुष्टीं भजाम्यहम् ।
पुष्टिम्भजे महादेवि भजेऽहं च रतिं धृतिम् ॥

रशनिं चन्द्रिकां वन्दे कान्तीं जोत्सना श्रियं भजे ।
नेऔमिप्रीतिञ्चागतदाञ्चपूर्ण्णिमाममृताम्भजे ॥

त्रिकोणलेखनं कुर्व्वे आकारादिसुरेखकम् ।
हलक्षवर्ण्णसम्युक्तंस्पीतं तं हंसभास्करम् ॥

वाक्कामशक्ति संयुक्तं हंसमाराधयाम्यहम् ।
वृत्ताद्बहिःषडश्रस्यलेखनं प्रकरोम्यहम् ॥

पुरतोग्न्यादिषल्ख़ोणं कखगेनार्च्चयाम्यहम् ।
श्रीविद्ययासप्तवारं करोम्यत्राभि मन्त्रितम् ॥

समर्प्पयामि देवेशि तस्मात् गन्धाक्षतादिकम् ।
ध्यायामिपूजाद्रव्येषु तत् सर्वं विद्ययायुतम् ॥

चतुर्न्नवतिसन्मन्त्रान् स्पृष्ट्वा तत् प्रजपाम्यहम् ।
वह्नेर्द्दशकलाःसूर्यकलाद्वादशकं भजे ॥

आश्रये शोडषकलास्तत्र चन्द्रमसस्तदा ।
सृष्टिम्वृद्धिम् स्मृतिम् वन्दे मेधाम् कान्तीम् तथैव च ॥

लक्ष्मीम् द्युथिम् स्थिताम् वन्दे स्थितिम् सिद्धिम् भजाम्यहम् ।
एताब्रह्मकलावन्दे जरान्थाम् पालिनीम् भजे ॥

शान्तिं नमामीश्वरीं च रतीं वन्दे च कारिकाम् ।
वरदांह्लादिनीं वन्दे प्रीतिं दीर्घां भजाभम्यहम् ॥

एता विष्णुअकलावन्दे तीक्षणां रौद्रिं भयां भजे ।
निद्रान्तन्द्रीं क्षुधां वन्दे नमामि क्रोधिनीं क्रियाम् ॥

उल्कारीं मृत्युरूपां च एता रुद्रकला भजे ।
नीलाम्पीतां भजे श्वेतां वन्देहमरुणां कलाम् ॥

अनन्तख्यां कलाञ्चेति ईश्वरस्य कलाभजे ।
निवृत्तिञ्चप्रतिष्ठाञ्चविद्यांशान्तिं भजाम्यहम् ॥

रोधिकां दीपिकां वन्दे रेचिकां मोचिकां भजे ।
परांसूक्षामृतां सूक्षां प्रणामि कुलेश्वरि! ॥

ज्ञानाख्याञ्चनमस्यामि नौमिज्ञानामृतां कलाम् ।
आप्यायिनींव्यापिनीं च मोदिनीं प्रणमाम्यहम् ॥

कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् ।
विष्णुयोनिन्नमस्यामि मूलविद्यां नमाम्यहम् ॥

त्रैयम्बकम् नमस्यामि तद्विष्णुम् प्रणमाम्यहम् ।
विष्णुयोनिम्नमस्यामि मूलविद्याम् नमाम्यहम् ॥

अमृतं मन्त्रितं वन्दे चतुर्न्नवतिभिस्तथा ।
अखण्डैकरसानन्दकरेपरसुधात्मनि ॥

स्वच्छन्दस्पपुरणं मन्त्रं नीधेहि कुलरूपिणि ।
अकुलस्थामृताकारेसिद्धिज्ञानकरेपरे ॥

अमृतं निधेह्यस्मिन् वस्तुनिक्लिन्नरूपिणि ।
तद्रूपाणेकरस्यत्वङ्कृत्वाह्येतत्स्वरूपिणि ॥

भूत्वा परामृताकारमयि चित् स्पुरणं कुरु ।
एभिर्म्मनूत्तमैर्वन्देमन्त्रितं परमामृतम् ॥

जोतिम्मयमिदं वन्दे परमर्घ्यञ्च सुन्दरि ।
तद्विन्दुभिर्मेशिरसि गुरुं सन्तर्प्पयाम्यहम् ॥

ब्रह्मास्मिन् तद्विन्दुं कुण्डलिन्यां जुहोम्यहम् ।
हृच्चक्रस्तां-महादेवीम्महात्रिपुरसुन्दरीम् ॥

निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीम् ।
नासापुटात्परकलामथनिर्ग्गमयाम्यहम् ॥

नमामियोनिमद्ध्यास्थां त्रिखण्डकुसुमांञ्जलिम् ।
जगन्मातर्महादेवियन्त्रेत्वां स्थापयाम्यहम् ॥

सुधाचैतन्यमूर्त्तीं ते कल्पयामिमनुं तव ।
अनेनदेविमन्त्रयन्त्रेत्वां स्थापयाम्यहम् ॥

महापद्मवनान्तस्थे कारणानन्तविग्रहे ।
सर्वभूतहितेमातरेह्यपि परमेश्वरि ॥

देवेशी भक्तसुलभे सर्वाभरणभूषिते ।
यावत्वम्पूजयामीहतावत्त्वं सुस्थिराभव ॥

अनेन मन्त्रयुग्मेन त्वामत्रावाहयाम्यहम् ।
कल्पयामिनमः पादमर्घ्यं ते कल्पयाम्यहम् ॥

गन्धतैलाभ्यञ्जनञ्चमज्जशालाप्रवेशम् ।
कल्पयामिनमस्तस्मै मणिपीठोप्रवेशनम् ॥

दिव्यस्नानीयमीशानि गृहाणोद्वर्त्तनं शुभे ।
गृहाणोष्णादकस्नानङ्कल्पयाम्यभिषेचनम् ॥

हेमकुम्भायुतैः स्निग्द्धैः कल्पयाम्यभिषेचनम् ।
कल्पयामिनमस्तुभ्यं धएऔतेन परिमार्ज्जनम् ॥

बालभानु प्रतीकाशं दुकूलं परिधानकम् ।
अरुणेनदुकुलेनोत्तरीयं कल्पयाम्यहम् ॥

प्रवेशनं कल्पयामि सर्वाङ्गानि विलेपनम् ।
नमस्तेकल्पयाम्यत्र मणिपीठोपवेशनम् ॥

अष्टगन्धैः कल्पयामि तवलेखनमम्बिके ।
कालागरुमहाधूपङ्कल्पयामि नमश्शिवे ॥

मल्लिकामालातीजाति चम्पकादि मनोरमैः ।
अर्च्चिताङ्कुसुमैर्म्मालां कल्पयामि नमश्शिवे ॥

प्रवेशनं कल्पयामि नमो भूषणमण्डपे ।
उपवेश्यंरत्नपीठे तत्रते कल्पयाम्यहम् ॥

नवमाणिक्यमकुटं तत्रते कल्पयाम्यहम् ।
शरच्चन्द्रनिभंयुक्तं तच्चन्द्रशकलं तव ॥

तत सीमन्तसिन्दूरं कस्तूरीतिलकं तव ।
कालाज्ञनङ्कल्पयामि पालीयुगलमुत्तमम् ॥

मणिकुण्डलयुग्मञ्च नासाभरणमीश्वरी! ।
ताटङ्कयुगलन्देवि ललिते धारयाम्यहम् ॥

अथाद्यां भूषणं कण्ठे महाचिन्ताकमुत्तमम् ।
पदकन्ते कल्पयामि महापदकमुत्तमम् ॥

मुक्तावलीं कल्पयामि चैकावलि समन्विताम् ।
छन्नवीरञ्चकेयूरयुगलानां चतुष्टयम् ॥

वलयावलिमालानीं चोर्मिकावलिमीश्वरि ।
काञ्चीदामकटीसूत्रंसौभग्याभरणं च ते ॥

त्रिपुरे पादकटकं कल्पये रत्ननूपुरम् ।
पादाङ्गुलीयकन्तुभ्यं पाशमेकं करेतव ॥

अन्ये करेङ्कुशं देवि पूण्ड्रेक्षुधनुषं तव ।
अपरेपुष्पबाणञ्च श्रीमन्माणिक्यपादुके ॥

तदावरण देवेशि महामञ्चादिरोहणम् ।
कामेश्वराङ्कपर्यङ्कमुपवेशनमुत्तमम् ॥

सुधया पूर्ण्णचषकं ततस्तत् पानमुत्तमम् ।
कर्प्पूरवीटिकान्तुभ्यं कल्पयामि नमः शिवे ॥

आनन्दोल्लासविलसद्धंसं ते कल्पयाम्यहम् ।
मङ्गलारात्रिकंवन्दे छत्रं ते कल्पयाम्यहम् ॥

चामरं यूगलं देविदर्प्पणं कल्पयाम्यहम् ।
तालव्रिन्तङ्कल्पयामिगन्धपुष्पाक्षतैरपि ॥

धूपं दीपश्चनैवेद्यं कल्पयामि शिवप्रिये ।
अथाहम्बैन्दवे चक्रे सर्वानन्दमयात्मके ॥

रत्नसिंहासने रम्ये समासीनां शिवप्रियाम् ।
उद्यद्भानुसहस्राभाञ्जपापुष्पसमप्रभाम् ॥

नवरत्नप्रभायुक्तमकुटेन विराजिताम् ।
चन्द्ररेखासमोपेताङ्कस्तूरितिलकाङ्किताम् ॥

कामकोदण्डसौन्दर्यनिर्ज्जितभ्रूलतायुताम् ।
अञ्जनाञ्चितनेत्रान्तुपद्मपत्रनिभेषणाम् ॥

मणिकुण्डलसम्युक्त कर्ण्णद्वयविराजिताम् ।
ताम्बूलपूरितमुखींसुस्मितास्यविराजिताम् ॥

आद्यभूषणसम्युक्तां हेमचिन्ताकसंयुताम् ।
पदकेनसमोपेतां महापदकसंयुताम् ॥

मुक्ताफलसमोपेतामेकावलिसमन्विताम् ।
कौसुभाङ्गदसंयुक्तचतुर्बाहुसमन्विताम् ॥

अष्टगन्धसमोपेतां श्रीचन्दनविराजिताम् ।
हेमकुम्भोपमप्रख्यस्तनद्वन्दविराजिताम् ॥

रक्तवस्त्रपरीधानां रक्तकञ्चुकसंयुताम् ।
सूक्ष्मरोमावलियुक्ततनुमद्ध्यविराजिताम् ॥

मुक्तामाणिक्यखचित काञ्चीयुतनितम्बनीम् ।
सदाशिवाङकस्थबृहन्महाजघनमण्डलाम् ॥

कदलिस्तम्भसंराजदूरुद्वयविराजिताम् ।
कपालीकान्तिसङ्काशजङ्घायुगलशोभिताम् ॥

ग्रूढगुल्फद्वेयोपेतां रक्तपादसमन्विताम् ।
ब्रह्मविष्णुमहेशादिकिरीटस्फूर्ज्जिताङ्घ्रिकाम् ॥

कान्त्या विराजितपदां भक्तत्राण परायणाम् ।
इक्षुकार्मुकपुष्पेषुपाशाङ्कुशधरांशुभाम् ॥

संवित्स्वरूपिणीं वन्दे ध्यायामि परमेश्वरीम् ।
प्रदर्शयाम्यथशिवेदशामुद्राः फलप्रदाः ॥

त्वां तर्प्पयामि त्रिपुरे त्रिधना पार्व्वति ।
अग्नौमहेशदिग्भागे नैरृत्र्यां मारुते तथा ॥

इन्द्राशावारुणी भागे षडङ्गान्यर्च्चये क्रमात् ।
आद्याङ्कामेश्वरीं वन्दे नमामि भगमालिनीम् ॥

नित्यक्लिन्नां नमस्यामि भेरुण्डां प्रणमाम्यहम् ।
वह्निवासान्नमस्यामि महाविद्येश्वरीं भजे ॥

शिवदूतिं नमस्यामि त्वरितां कुल सुन्दरीम् ।
नित्यान्नीलपताकाञ्च विजयां सर्वमङ्गलाम् ॥

ज्वालामालाञ्च चित्राञ्च महानित्यां च संस्तुवे ।
प्रकाशानन्दनाथाख्याम्पराशक्तिनमाम्यहम् ॥

शुक्लदेवीं नमस्यामि प्रणमामि कुलेश्वरीम् ।
परशिवानन्दनाथाख्याम्पराशक्ति नमाम्यहम् ॥

कौलेश्वरानन्दनाथं नौमि कामेश्वरीं सदा ।
भोगानन्दन्नमस्यामि सिद्धौघञ्च वरानने ॥

क्लिन्नानन्दं नमस्यामि समयानन्दमेवच ।
सहजानन्दनाथञ्चप्रणमामि मुहुर्मुहु ॥

मानवौघं नमस्यामि गगनानन्दगप्यहम् ।
विश्वानन्दन्नमस्यामि विमलानन्दमेवच ॥

मदनानन्दनाथञ्च भुवनानन्दरूपिणीम् ।
लीलानन्दन्नमस्यामि स्वात्मानन्दं महेश्वरि ॥

प्रणमामिप्रियानन्दं सर्वकामफलप्रदम् ।
परमेष्टिगुरुंवन्दे परमङ्गुरुमाश्रये ॥

श्रीगुरुं प्रणमस्यामि मूर्द्ध्नि ब्रह्मबिलेश्वरीम् ।
श्रीमदानन्दनाथाख्यश्रिगुरोपादुकां तथा ॥

अथ प्राथमिके देवि चतुरश्रे कुलेश्वरि ।
अणिमांलखिमां वन्दे महिमां प्रणमाम्यहम् ॥

ईशित्वसिद्धिं कलये वशित्वं प्रणमाम्यहम् ।
प्राकाम्यसिद्धिम्भुक्तिञ्च इच्छाप्राप्र्तिमहं भजे ॥

सर्वकामप्रदां सर्वकामसिद्धिमहं भजे ।
मद्ध्यमेचतुरश्रेहं ब्राह्मीं माहेश्वरीं भजे ॥

कौमारीं वैष्णवीं वन्दे वाराहीं प्रणमाम्यहम् ।
माहेन्द्रीमपिचामुण्डाम्महालक्ष्मीमहं भजे ॥

तृतीये चतुरश्रे तु सर्वसंक्षोभिणीं भजे ।
सर्वविद्रापिणीम्मुद्रां सर्वाकर्षिणिकां भजे ॥

मुद्रां वशङ्करीं वन्दे सर्वोन्मादिनिकां भजे ।
भजेमहाङ्कुशां मुद्रां खेचरीं प्रणमाम्यहम् ॥

बीजामुद्रां योनिमुद्रां भजे सर्वत्रिखण्डिनीम् ।
त्रैलोक्यमोहनञ्चक्रं नमामि ललिते तव ॥

नमामि योगिनीं तत्र प्रखटाख्यामभीष्टदाम् ।
सुधार्ण्णवासनंवन्दे तत्र ते परमेश्वरि ॥

चक्रेश्वरि महं वन्दे त्रिपुरां प्रणमाम्यहम् ।
सर्वसंक्षोभिणीम्मुद्रां ततोहं कलये शिवे ॥

अथाहं षोडशदले कामाकर्षिणिकां भजे ।
बुद्ध्याकर्षिणिकां वन्देऽहङ्काराकर्षिणीं भजे ॥

शब्दाकर्षिणिकां वन्दे स्पर्शाकर्षिणिकां भजे ।
रूपाकर्षिणिकांवन्दे रसाकर्षिणिकां भजे ॥

गन्धाकर्षिणिकां वन्दे चित्ताकर्षिणिकां भजे ।
धैर्याकर्षिणिकांवन्दे स्मृत्याकर्षिणिकां भजे ॥

नामाकर्षिणिकां वन्दे बीजाकर्षिणिकां भजे ।
आत्माकर्षिणिकांवन्दे अमृताकर्षिणिकां भजे ॥

शरीराकर्षिणिकां वन्दे नित्यां श्रीपरमेश्वरि ।
सर्वाशापूरकंवन्दे कल्पयेहं तवेश्वरि ॥

गुप्ताख्यां योगिनीं वन्दे मातरं गुप्तपूज्यताम् ।
पोताम्बुजासनन्तत्र नमामि ललिते तव ॥

त्रिपुरेशीं नमस्यामि भजामिष्टार्त्थसिद्धिदाम् ।
सर्वविद्राविणिमुद्रान्तत्राहं ते विचन्तये ॥

सिवे तवाष्टपत्रेहमनङ्गकुसुमां भजे ।
अनङ्गमेखलांवन्दे अनङ्गमदनां भजे ॥

नमोहं प्रणस्यामि अनङ्गमदनातुराम् ।
अनङ्गरेखाङ्कलये भजेनङ्गां च वेगिनीम् ॥

अनङ्गाकुशवन्देऽहमनङ्गमालिनीं भजे ।
तत्राहम्प्रणस्यामि देव्या आसनमुत्तमम् ॥

नमामि जगतीशानीं तत्र त्रिपुरसुन्दरीम् ।
सर्वाकर्षिणिकाम्मुद्रां तत्राह कल्पयामिते ॥

भुवनाश्रये तव शिवे सर्वसंक्षोभिणीं भजे ।
सर्वविद्राविणींवन्दे सर्वकर्षिणिकां भजे ॥

सर्वह्लादिनीं वन्दे सर्वसम्मोहिनीं भजे ।
सकलस्तम्भिनीं वन्दे कलये सर्वजृम्भिणीम् ॥

वशङ्करीं नमस्यामि सर्वरज्ञिनिकां भजे ।
सकलोन्मदिनीं वन्दे भजे सर्वार्थसाधके ॥

सम्पत्तिपुरिकां वन्दे सर्वमन्त्रमयीं भजे ।
भजाम्येवततश्शक्तिं सर्वद्वन्द्वक्ष्यङ्करीम् ॥

तत्राहं कलये चक्रं सर्वसौभाग्यदायकम् ।
नमामिजगतां धात्रीं सम्प्रदायाख्ययोगिनिम् ॥

नमामि परमेशानीं महात्रिपुरवासिनिम् ।
कलयेहन्तव शिवे मुद्रां सर्वशङ्करीम् ॥

बहिर्द्दशारे ते देवि सर्वसिद्धिप्रदां भजे ।
सर्वसम्पत्प्रदां वन्दे सर्वप्रियङ्करीं भजे ॥

नमाम्यहं ततो देवीं सर्वमङ्गलकारिणीम् ।
सर्वकामप्रदांवन्दे सर्वदुःखविमोचिनिम् ॥

सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीम् ।
सर्वाङ्गसुन्दरींवन्दे सर्वसौभाग्यदायिनीम् ॥

सर्वार्त्थसाधकं चक्रं तत्राहं ने विचिन्तये ।
तत्राहन्ते नमस्यामि कुलोत्तीर्णाख्य योगिनीम् ॥

सर्वमन्त्रसनं वन्दे त्रिपुराश्रियमाश्रये ।
कलयामिततो मुद्रां सर्वोन्मादन कारिणीम् ॥

अन्तर्द्दशारे ते देवि सर्वज्ञां प्रणमाम्यहम् ।
सर्वशक्तिन्नमस्यामि सर्वैश्वर्यप्रदां भजे ॥

सर्वज्ञानमयीं वन्दे सर्वव्याधिविनाशिनीम् ।
सर्वाधारस्वरूपाञ्चसर्वपापहराम्भजे ॥

सर्वानन्दमयिं वन्दे सर्वरक्षास्वरूपिणीम् ।
प्रणमामिमहादेवीं सर्वेप्सित फलप्रदाम् ॥

सर्वरक्षाकरं चक्रं सुन्दरीं कलये सदा ।
निगर्भयोनींवन्दे तत्राहं प्रणमाम्यहम् ॥

साद्ध्यसिद्धासनं वन्दे भजे त्रिपुरमालिनीम् ।
कलयामिततो देवीं मुद्रां सर्वमहाङ्कुशाम् ॥

अष्टारे वशिनीं वन्दे महा कामेश्वरीं भजे ।
मोदिनींविमलांवन्दे अरुणाजयिनीं भजे ॥

सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहम् ।
सर्वरोगहरञ्चक्रं तत्राहं कलये सदा ॥

नमामि त्रिपुरा सिद्धिं भजे मुद्रां च खेचरीम् ।
महात्रिकोणवत्बाहुचतुरश्रे कुलेश्वरि ॥

नमामि जृम्भणाबाणं सर्वसम्मोहिनीं भजे ।
पाशञ्चापं भजे नित्यं भजे स्तम्भनमङ्कुशम् ॥

त्रिकोणेहं जगद्धात्रीं महाकामेश्वरीं भजे ।
महावज्रेश्वरींवन्दे महाश्रीभगमालिनीम् ॥

महाश्रीसुन्दरीं वन्दे सर्वकामफलप्रदाम् ।
सर्वसिद्धिप्रदञ्चक्रं तवदेवि नमाम्यहम् ॥

नमाम्यतिरहस्याख्यां योगिनीं तवकामदाम् ।
त्रिपुराम्बान्नमस्यामि बीजामुद्रामहाम्भजे ॥

मूलमन्त्रेण ललिते तल्बिन्दौ पूजयाम्यहम् ।
सर्वानन्दमयञ्चक्रं तवदेवि भजाम्यहम् ॥

परां पररहस्याख्यां योगिनीं तत्रकामदाम् ।
महाचक्रेश्वरींवन्दे योनिमुद्रामहं भजे ॥

धूपदीपादिकं सर्वमर्प्पितं कल्पयाम्यहम् ।
त्वल्प्रीतयेमहामुद्रां दर्शयामि ततश्शिवे ॥

शाल्यन्नं मधुसम्युक्तं पायसापूप सम्युक्तम् ।
घृतसूपसमायुक्तन्दधिक्षीरसमन्वितम् ॥

सर्वभक्ष्यसमायुक्तं बहुशाकसमन्वितम् ।
निक्षिप्यकाञ्चने पात्रे नैवेद्यं कल्पयामि ते ॥

सङ्कल्पबिन्दुना चक्रं कुचौ बिन्दुद्वयेन च ।
योनिश्चसपरार्द्धेन कृत्वा श्रीललिते तव ॥

एतत् कामकला रूपं भक्तानां सर्वकामदम् ।
सर्वसौभाग्यदंवन्दे तत्र त्रिपुरसुन्दरीम् ॥

वामभागे महेशानि वृत्तं च चतुरस्रकम् ।
कृत्वागन्धाक्षताद्यैश्चाप्यर्च्चयामि महेश्वरीम् ॥

वाग्दवाद्यं नमस्यामि तत्र व्यापकमण्डलम् ।
जलयुक्तेनपाणौ च शुद्धमुद्रा समन्वितम् ॥

तत्र मन्त्रेण दास्यामि देवि ते बलिमुत्तमम् ।
नमस्तेदेवदेवेशि नम स्त्रैलोक्यवन्दिते ॥

नमश्शिववराङ्कस्थे नमस्त्रीपुरसुन्दरि ।
प्रदक्षिणनमस्कारमनेनाहं करोमि ते ॥

तत सङ्कल्पमन्त्राणां समाजं परमेश्वरि ।
प्रजपामिमहाविद्यां त्वत् प्रीत्यर्त्थमहं शिवे ॥

तव विद्यां प्रजप्त्वाथ नौमि त्वां परमेश्वरि ।
महादेविमहेशानि महाशिवमये प्रिये ॥

महानित्ये महासिद्धे त्वामहं शरणं शिवे ।
जयत्वन्त्रिपुरे देवि ललिते परमेश्वरि ॥

सदाशिव प्रियङ्करि पाहिमां करुणानिधे ।
जगन्मातर्ज्जगद्रूपेजगदीश्वरवल्लभे ॥

जगन्मयि जगत् स्तुत्ये गौरि त्वामहमाश्रये ।
अनाद्येसर्वलोकानामाद्ये भक्तेष्टदायिनि ॥

गिरिराजेन्द्रतनये नमस्तीपुरसुन्दरि ।
जयारीञ्जयदेवेशिब्रह्ममातर्महेश्वरि ॥

विष्णुमातरमाद्यन्ते हरमातस्सुरेश्वरि ।
ब्रह्म्यादिमातृसंस्तुत्ये सर्वाभरण सम्युक्ते ॥

ज्योतिर्मयि महारूपे पाहिमां त्रिपुरे सदा ।
लक्ष्मीवाण्यादिसं पूज्ये ब्रह्मविष्णुशिवप्रिय ॥

भजामि तव पादाब्जं देवि त्रिपुरसुन्दरि ।
त्वल्प्रीत्यर्त्थंयतः काञ्चीच्छक्तिं वैपूजयाम्यहम् ॥

ततश्च केतनां शक्तिं तर्पयामि महेश्वरि ।
तथापित्वां भजंस्तोषं चिदग्नौ च ददाम्यहम् ॥

त्वल्प्रीत्यर्थ्यं महादेवि ममाभीष्टार्त्थ सिद्धये ।
बद्ध्वात्वां खैचरीमुद्रां क्षमस्वोद्वासयाम्यहम् ॥

तिष्ठमे हृदयेनित्यं त्रिपुरे परमेश्वरि ।
जगदम्बमहाराज्ञि महाशक्ति शिवप्रिये ॥

हृच्चक्रे तिष्तमे नित्यं महात्रिपुरसुन्दरि ।
एतत्त्रिपुरसुन्दर्या हृदयं सर्वकामदम् ॥

महारहस्यं सततं दुर्ल्लभं दैवतैरपि ।
साक्षात्सदाशिवेनोक्तं गुह्यात् गुह्यमनुत्तमम् ॥

यः पतेत् श्रद्धया नित्यं श‍ृणुयाद्वा समाहितः ।
नित्यपूजाफलन्देव्यास्सलभेन्नात्र संशयः ॥

पापैः समुच्यते सद्यः कायवाक्क् सित्तसम्भवैः ।
पूर्वजन्मसमुत् भ्रदतैर्ज्ञानाज्ञकृतैरपि ॥

सर्वक्रतुषुयत् पुण्यं सर्वतीर्त्थेषु यर्फलम् ।
तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥

अचलां लभते लक्ष्मीं त्रैलोक्येनाति दुर्लभाम् ।
साक्षाद्विष्णुर्महालक्ष्याशीघ्रमेव भविष्यति ॥

अष्टैश्वर्य मवाप्नोति स शीघ्रं मानवोत्तमः ।
घण्डिकापादुकासिद्ध्यादिष्टकंशीघ्रमश्नुते ॥

॥ श्रीललिताहृदयस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री ललिता हृदय स्तोत्रम् PDF

श्री ललिता हृदय स्तोत्रम् PDF

Leave a Comment