Shri Krishna

वेणु गोपाल अष्टकम्

Venu Gopal Ashtakam Sanskrit

Shri KrishnaAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

॥वेणु गोपाल अष्टकम्॥

कलितकनकचेलं खंडितापत्कुचेलं
गलधृतवनमालं गर्वितारातिकालम् ।
कलिमलहरशीलं कांतिधूतेंद्रनीलं
विनमदवनशीलं वेणुगोपालमीडे ॥

व्रजयुवतिविलोलं वंदनानंदलोलं
करधृतगुरुशैलं कंजगर्भादिपालम् ।
अभिमतफलदानं श्रीजितामर्त्यसालं
विनमदवनशीलं वेणुगोपालमीडे ॥

घनतरकरुणाश्रीकल्पवल्ल्यालवालं
कलशजलधिकन्यामोदकश्रीकपोलम् ।
प्लुषितविनतलोकानंतदुष्कर्मतूलं
विनमदवनशीलं वेणुगोपालमीडे ॥

शुभदसुगुणजालं सूरिलोकानुकूलं
दितिजततिकरालं दिव्यदारायितेलम् ।
मृदुमधुरवचःश्री दूरितश्रीरसालं
विनमदवनशीलं वेणुगोपालमीडे ॥

मृगमदतिलकश्रीमेदुरस्वीयफालं
जगदुदयलयस्थित्यात्मकात्मीयखेलम् ।
सकलमुनिजनालीमानसांतर्मरालं
विनमदवनशीलं वेणुगोपालमीडे ॥

असुरहरणखेलनं नंदकोत्क्षेपलीलं
विलसितशरकालं विश्वपूर्णांतरालम् ।
शुचिरुचिरयशश्श्रीधिक्कृत श्रीमृणालं
विनमदवनशीलं वेणुगोपालमीडे ॥

स्वपरिचरणलब्ध श्रीधराशाधिपालं
स्वमहिमलवलीलाजातविध्यंडगोलम् ।
गुरुतरभवदुःखानीक वाःपूरकूलं
विनमदवनशीलं वेणुगोपालमीडे ॥

चरणकमलशोभापालित श्रीप्रवालं
सकलसुकृतिरक्षादक्षकारुण्य हेलम् ।
रुचिविजिततमालं रुक्मिणीपुण्यमूलं
विनमदवनशीलं वेणुगोपालमीडे ॥

श्रीवेणुगोपाल कृपालवालां
श्रीरुक्मिणीलोलसुवर्णचेलाम् ।
कृतिं मम त्वं कृपया गृहीत्वा
स्रजं यथा मां कुरु दुःखदूरम् ॥

इति श्री वेणुगोपालाष्टकम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

वेणु गोपाल अष्टकम् PDF

Download वेणु गोपाल अष्टकम् PDF

वेणु गोपाल अष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App